Skip to content

CBSE Class 6 Sanskrit Sample Paper Set 2

CBSE Class 6 Sanskrit Sample Paper Set 2

We have given detailed NCERT Solutions for Class 6 Sanskrit come in handy for quickly completing your homework.

CBSE Class 6 Sanskrit Sample Paper Set 2

निर्धारित समय : 3 घंटे
पूर्णांक : 80

खण्ड: – क
अपठित-अवबोधनम्

प्रश्न 1.
अधोलिखितं कथां पठित्वा प्रश्नानाम् उत्तराणि लिखत- (10)

एकदा एकः नृपः भोजनं वितरति स्म। राजपुरुषाः एकम् ऋषिकुमारं दृष्ट्वा अवदन्-भवान् अपि भोजनं करोतु। इयम् एव राजाज्ञा इति। सः तरूणः ऋषिकुमारः अवदत्-भोः! अहम् श्रमम् कृत्वा एव भोजनं करोमि। ये जनाः वृद्धाः असहायाः च तेभ्यः एव भोजनं यच्छत। एषः आसीत् रैक्वः ऋषिकुमारः। राजा तस्य समीपं गत्वा ज्ञानार्जनम् अकरोत्।

प्रश्नाः
I. एकपदेन उत्तरत- (1 × 4 = 4)
(i) ऋषिकुमारः किं कृत्वा भोजनं करोति स्म?
(ii) ऋषिकुमारस्य नाम किम् आसीत्?
(iii) नृपः किम् वितरति स्म?
(iv) नृपः कस्य समीपं गत्वा ज्ञानार्जनम् अकरोत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) नृपः ऋषिकुमारस्य समीपं गत्वा किम् अकरोत्?
(ii) केभ्यः भोजनं दातव्यम्?

III. भाषिककार्यम् कुरुत- (1 × 2 = 2)
(i) ‘अवदन्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) राजपुरुषाः
(ख) एकम्
(ग) ऋषि
(घ) कुमारः

(ii) ‘करोमि’ इत्यत्र कः लकार:?
(क) लुट्
(ख) लट्
(ग) लोट
(घ) लङ्

खण्डः – ख
रचनात्मकं कार्यम्

प्रश्न 2.
मञ्जूषातः उचितपदानि चित्वा चित्राणाम् नामानि संस्कृतेन लिखत- (1 × 4 = 4)

मञ्जूषा – अश्वः, उष्ट्रः, सिंहः, कुक्कुरः, वृषभः, वानरः

CBSE Class 6 Sanskrit Sample Paper Set 2 Q2

प्रश्न 3.
अधोलिखितशब्दान् आधृत्य सार्थकवाक्यानि रचयत- (4)

1. वानराः जले गर्जन्ति
2. सिंहाः वनेषु कूर्दन्ति
3. खगाः आकाशे तरन्ति
4. मत्स्याः वृक्षेष उत्पतन्ति
  1. _______________
  2. _______________
  3. _______________
  4. _______________

प्रश्न 4.
मञ्जूषातः समुचितपदानि चित्वा अनुच्छेदं पूरयत- (10)

दुष्यन्तस्य, पराक्रमी, मातृभूमिः, भरतः, विशालः, राजधानी, सह, गङ्गा, पर्वतराजः, नाम

भारतदेशः अस्माकं ___(1)___ अस्ति। प्राचीनकाले ___(2)___ नाम राजा भारतम् अपालयत्। सः शकुन्तलायाः ___(3)___ च पुत्रः आसीत्। भरतः ___(4)___ आसीत्। निर्भीकः सः सिंहशावकैः ___(5)___ अक्रीडत्। भरतेन शासितम् देशः भारतम् इति ___(6)___ अभवत्। भारतदेशः अति ___(7)___ देशः अस्ति। नवदेहली भारतस्य ___(8)___ अस्ति। भारतस्य उत्तरदिशायाम् ___(9)___ हिमालयः अस्ति। पुण्यनदी ___(10)___ हिमालयात् एव प्रवहति।

खण्ड: – ग
अनुप्रयुक्त-व्याकरणम्

प्रश्न 5.
वर्णसंयोजनं कृत्वा कोष्ठके लिखत- (4)

यथा- प् + उ + ष् + प् + ए = पुष्पे

  1. प् + अ + क् + व् + आ + न् + इ = _______________
  2. भ् + अ + व् + अ + न् + त् + इ = _______________
  3. ध् + अ + र् + आ + य् + आ + म् = _______________
  4. ल् + इ + ख् + आ + म् + अः = _______________

प्रश्न 6.
(अ) उचितशब्दरूपैः रिक्तस्थानानि पूरयत- (½ × 4 = 2)
CBSE Class 6 Sanskrit Sample Paper Set 2 Q6

(ब) उचितधातुरूपैः रिक्तस्थानानि पूरयत- (½ × 4 = 2)
CBSE Class 6 Sanskrit Sample Paper Set 2 Q6.1

प्रश्न 7.
कोष्ठकात् उचितं पदं चित्वा वाक्यं रिक्तस्थानानि पूरयत- (1 × 4 = 4)

  1. _______________ कच्छपाः भ्रमन्ति। (तडागे / तडागाः)
  2. _______________ भ्रमराः गुञ्जन्ति (पुष्पं / पुष्पेषु)
  3. नपः _______________ पतति। (अश्वः / अश्वात)
  4. _______________ विद्यालयं गच्छामि। (अहम् / आवाम्)

प्रश्न 8.
मञ्जूषातः उचितं अव्ययपदं चित्वा रिक्तस्थानं पूरयत- (1 × 5 = 5)

अद्य, अधुना, प्रातः, कदा, सर्वदा

  1. _______________ भ्रमणं स्वास्थ्याय भवति।
  2. _______________ सत्यं वद।
  3. त्वं _______________ मातुलगृहं गमिष्यसि?
  4. _______________ विज्ञानस्य युगः अस्ति।
  5. _______________ रविवासरः अस्ति।

प्रश्न 9.
(अ) मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- (2)

अहम्, युवाम्, त्वम्, तौ

  1. _______________ लेखम् लिखसि।
  2. ______________ कथां पठसि।
  3. _______________ फलानि खादामि।
  4. _______________ बालौ स्तः।

(ब) मञ्जूषातः क्रियापदं चित्वा रिक्तस्थानानि पूरयत- (2)

गमिष्यावः, पिबतः, स्थ, पाठयति

  1. महिले शीतपेयं _______________।
  2. आवाम् पुस्तकालयं _______________।
  3. आचार्यः शिष्यान् _______________।
  4. यूयम् उत्तमाः बालकाः _______________।

प्रश्न 10.
कोष्ठकात् उचितं पदं चित्वा वाक्यानि पूरयत- (4)

  1. सुदामा _______________ मित्रम् आसीत्। (श्रीकृष्णः / श्रीकृष्णस्य)
  2. वयम् _______________ खादामः। (फलस्य / फलानि)
  3. _______________ आभूषण विद्या। (नरम् / नरस्य)
  4. बालकाः _______________ क्रीडन्ति। (क्रीडाक्षेत्र / क्रीडाक्षेत्रे)

खण्ड: – घ
पठित-अवबोधनम्

प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)

उत्सवप्रियः भारतेदशः। अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

देहल्याः मेहरौलीक्षेत्रे ऑक्टोबर्मासे अस्य आयोजनं भवति। अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि।

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?
(ii) पुष्पोत्सवस्य आयोजनं कुत्र भवति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
(i) पुष्पोत्सवस्य आयोजनं कदा भवति?
(ii) पुष्पोत्सवस्य प्रमुख आकर्षणं कानि सन्ति?

III. निर्देशानुसारम् उत्तरत- (½ × 2 = 1)
(i) ‘एतेषु’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) सप्तमी
(ग) षष्ठी
(घ) पञ्चमी

(ii) ‘भवति’ इत्यत्र कः पुरुषः?
(क) प्रथमपुरुषः
(ख) मध्यम्पुरुषः
(ग) उत्तमपुरुषः

प्रश्न 12.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)

1. उन्नतवृक्षं तुङ्गं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम॥

I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) तुङ्ग किम् अस्ति?
(ii) वयं कुत्र प्रविशाम?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
वयं किं क्रान्त्वा आकाशं याम?

III. यथानिर्देशम् उत्तरत- (½ × 2 = 1)
(i) ‘गगनं’ इति पदस्य समानार्थकम् पदं किम्?
(क) आकाशं
(ख) वृक्षं
(ग) भवनम्
(घ) सोपानं

(ii) ‘कृत्वा’ इत्यत्र कः प्रत्ययः?
(क) वन्त
(ख) वत्
(ग) क्त्वा
(घ) मन्त

प्रश्न 13.
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- (½ × 4 = 2)

धरित्री, तृषा, अधिकम्, वस्त्राणि

  1. पिपासा = _______________
  2. वसनानि = _______________
  3. पृथ्वी = _______________
  4. विपुलम् = _______________

प्रश्न 14.
मञ्जूषातः विलोम पदानि चित्वा लिखत- (½ × 4 = 2)

प्रातः, कृष्ण, निर्धनम्, दूरे

  1. श्वेतः = _______________
  2. धनिकम् = _______________
  3. पार्वे = _______________
  4. सायम् = _______________

प्रश्न 15.
उपयुक्तकथनानाम् समक्षम् ‘आम्’ अनुपयुक्तकथनानाम् समक्षं ‘न’ इति लिखत- (6)

  1. वसन्तसमये पिककाकयोः भेदः भवति (_______________)
  2. नव बालकाः एव स्नातुम् अगच्छन्। (_______________)
  3. एकः बालकः नद्यां मग्नः। (_______________)
  4. शक्रावतारस्य तीर्थस्य निवासी धीवरः आसीत्। (_______________)
  5. धीवरः मत्स्यविक्रयेण कुटुम्बस्य भरणं करोति स्म। (_______________)
  6. धीवरेण राजकीयं अगुलीयकम् प्राप्तम्। (_______________)

प्रश्न 16.
घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि- (½ × 6 = 3)

  1. स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
  2. अजीजः सरलः परिश्रमी च आसीत्।
  3. अजीजः पेटिकाम् आनयति।
  4. एकदा सः गृहम् गन्तुम् अवकाशं वाञ्छति।
  5. पीडितः स्वामी अत्युच्चैः चीत्करोति।
  6. मक्षिके स्वामिनं दशतः।

प्रश्न 17.
श्लोकाशान् योजयत- (4)

(क) (ख)
1. गच्छन् पिपीलकः याति वर्षन्तु विपुलं जलम्।
2. सूर्यस्तपतु मेघाः वा योजनानां शतान्यपि।
3. काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।
4. तस्मात् प्रियं हि वक्तव्यम् को भेदः पिककाकयोः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *