CBSE Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

CBSE Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

We have given detailed NCERT Solutions for Class 7 Sanskrit रचना अपठितांश-अवबोधनम् Questions and Answers come in handy for quickly completing your homework.

CBSE Class 7 Sanskrit रचना अपठितांश-अवबोधनम्

अधोदत्तं प्रत्येकं अनुच्छेदं पठित्वा तदाधारिताम् प्रश्नान् उत्तरत।

1. भारते षड् ऋतवः भवन्ति- वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च। ग्रीष्मकालस्य पश्चात् वर्षाऋतुः आगच्छति। वर्षाकाले, ग्रीष्मस्य तापेन शुष्काः, पादपाः पुनः हरिताः। आकाशः कृष्णैः, मेघैः आच्छादितः भवति। नद्यः जलवेगेन प्रवहन्ति। कुत्रचित् अत्यधिका वृष्टिः भवति कुत्रचित् च अनावृष्टिः। वृष्टेः अभावात् कृषकाः महत् कष्टम् अनुभवन्ति। ते वर्षांदेवं प्रार्थयन्ति। वर्षाजलेन धरा शस्य-श्यामला भवति। एतत् दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति।

I. एकपदेन उत्तरत-

प्रश्न 1.
भारते कति ऋतवः भवन्ति?
उत्तरम्-
षड्

प्रश्न 2.
ग्रीष्मस्य पश्चात् कः ऋतुः आगच्छति?
उत्तरम्-
वर्षा

प्रश्न 3.
नद्यः कथं प्रवहन्ति?
उत्तरम्-
जलवेगेन

प्रश्न 4.
वृष्टेः अभावात् के महत् कष्टम् अनुभवन्ति?
उत्तरम्-
कृषकाः

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
भारते षड् ऋतवः के सन्ति?
उत्तरम्-
भारते षड् ऋतवः सन्ति-वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च।

प्रश्न 2.
किं दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति?
उत्तरम्-
वर्षाजलेन धरा शस्यश्यामला इति दृष्ट्वा कृषकाणां चित्तं प्रफुल्लितम् भवति।

III. भाषिक कार्यम्-

प्रश्न 1.
‘वर्षाकाले ग्रीष्मस्य तापेन शुष्काः पादपाः पुनः हरिताः भवन्ति।’ इति वाक्ये-
(i) ‘भवन्ति’ क्रियापदस्य कर्ता कः? (तापेन, हरिताः, पादपाः)

(ii) ‘पादपाः’ इति पदस्य किं किं विशेषणम् अत्र प्रयुक्तम्? _______ ________

(iii) ‘तापेन’ अत्र किं विभक्तिः वचनम् च? _______ ________
उत्तरम्-
(i) पादपाः
(ii) शुष्काः, हरिताः
(iii) तृतीया एकवचनम् च

प्रश्न 2.
विपर्ययम् लिखत- वृष्टिः ________
उत्तरम्-
अनावृष्टिः

प्रश्न 3.
‘अनुभवन्ति’ अत्र कः उपसर्गः कः च धातुः? ________ ________
उत्तरम्-
अनु, भू

प्रश्न 4.
पदानां लिङ्गम् निर्दिशत।
(i) धरा ________
(ii) चित्तम् ________
(iii) पादपाः ________
उत्तरम्-
(i) स्त्रीलिङ्गम्
(ii) नपुंसकलिङ्गम्
(iii) पुंल्लिङ्गम्।

2. भारतवर्षः अस्माकं जन्मभूमिः। वयं भारतीयाः स्मः। भारते रम्याः देवालयाः, चित्र-विचित्र-उत्सवाः, विविधाः, वेशभूषाः। अत्र अनेकानि दर्शनीयानि स्थानानि। वैदेशिकाः अत्र पर्यटनाय आगच्छन्ति। देशस्य च विविधतां दृष्ट्वा विस्मिताः भवन्ति। यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदेशिकाः पर्यटकाः आगमिष्यन्ति। भारत-सर्वकारस्य पर्यटन-विभागः लाभान्वितः भविष्यति। देशः च समृद्धः भविष्यति। ‘अतिथिदेवो भव’ इति शास्त्रवचनम्।

I. एकपदेन उत्तरत-

प्रश्न 1.
अस्माकं जन्मभूमिः कः?
उत्तरम्-
भारतवर्षः

प्रश्न 2.
वयम् के स्म?
उत्तरम्-
भारतीयाः

प्रश्न 3.
के अत्र पर्यटनाय आगच्छन्ति?
उत्तरम्-
वैदेशिकाः

प्रश्न 4.
कः देवो भवेत्?
उत्तरम्-
अतिथिः।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
सर्वकारस्य पर्यटनविभागः कथं लाभान्वितः भवेत् भवन्ति?
उत्तरम्-
यदि पर्यटकानां निवासाय भ्रमणाय च सुव्यवस्था भवेत् तर्हि अधिकाधिकाः वैदेशिकाः पर्यटकाः आगमिष्यन्ति, एतेन भारतसर्वकारस्य पर्यटन-विभागः लाभान्वितः भविष्यति।

प्रश्न 2.
वैदेशिकाः पर्यटकाः कथं विस्मिताः भवन्ति।?
उत्तरम्-
भारतदेशस्य विविधतां दृष्ट्वा वैदेशिकाः पर्यटकाः विस्मिताः भवन्ति।

III. भाषिक कार्यम्-

प्रश्न 1.
‘देशः च समृद्धः भविष्यति’- इति वाक्ये-
(i) ‘भविष्यति’ क्रियापदस्य कर्ता कः? (देशः, समृद्धः) _______
(ii) ‘भविष्यति’ अत्र कः धातुः? __________ कः च लकार:? _______
(iii) अत्र किम् अव्ययम्? _________
(iv) एतत् वाक्यं बहुवचने परिवर्तयत? __________
उत्तरम्-
(i) देशः
(ii) भू, लृट्
(iii) च
(iv) देशाः च समृद्धाः भविष्यन्ति।

प्रश्न 2.
विपर्ययम् चित्वा लिखत – देशीयाः
उत्तरम्-
वैदेशिकाः

प्रश्न 3.
दृष्ट्वा- अत्र कः धातुः कः च प्रत्ययः?
उत्तरम्-
दृश्, क्त्वा।

3. गङ्गा देशस्य प्रमुखा नदी। गङ्गायाः अपरं नाम भागीरथी। एषा नदी हिमालयात् निर्गच्छति। एतस्याः नद्याः तीरे बहवः तीर्थाः मुनीनाम् आश्रमाः च सन्ति। हरिद्वारनगरम् प्रसिद्ध तीर्थस्थानम् गंगानद्याः तटम् अलंकरोति। अत्र अनेके देवालयाः सन्ति। सायंकालस्य दृश्यम् तु अत्र अनुपमम् एव। भक्ताः गंगादेवीं श्रद्धया पूजयन्ति, प्रज्वलितान् दीपान् च नद्याः जले प्रवाहयन्ति। यदा प्रज्वलिता: दीपा: जलेषु तरन्ति, तदा एवं प्रतीयते यत् ताराणां समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः। गंगानदी परमपावना नदी मन्यते।

I. एकपदेन उत्तरत-

प्रश्न 1.
देशस्य प्रमुखा नदी का?
उत्तरम्-
गङ्गा

प्रश्न 2.
एषा नदी कस्मात् पर्वतात् निर्गच्छति?
उत्तरम्-
हिमालयात्

प्रश्न 3.
भक्ताः गंगादेवीं कथम् पूजयन्ति?
उत्तरम्-
श्रद्धया

प्रश्न 4.
भक्ताः कान् नद्याः जले प्रवाहयन्ति?
उत्तरम्-
दीपान्।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
गंगायाः तीरे के सन्ति?
उत्तरम्-
गङ्गायाः तीरे बहवः तीर्थाः मुनीनाम् च आश्रमाः सन्ति।

प्रश्न 2.
यदा प्रज्वलिताः दीपाः नद्याम् तरन्ति तदा किं प्रतीयते?
उत्तरम्-
यदा प्रज्वलिताः दीपा: नद्याम् तरन्ति तदा एवं प्रतीयते यत् ताराणाम् समूह : आकाशात् अवतीर्य पृथिव्याम् आगतः।

III. भाषिक कार्यम्-

प्रश्न 1.
‘यदा प्रज्वलिताः दीपाः जलेषु तरन्ति’ इति वाक्ये-
(i) ‘तरन्ति’ क्रियापदस्य कर्ता क:? (प्रज्वलिताः, दीपाः, जलेषु)
(ii) अत्र किम् अव्ययपदम्?
(iii) ‘जलेषु’ अत्र किं विभक्तिः वचनम् च?
(iv) ‘तरन्ति’ अत्र धातुः कः?
उत्तरम्-
(i) दीपाः
(ii) यदा
(ii) सप्तमी, बहुवचनम्
(iv) तृ

प्रश्न 2.
गंगा देशस्य प्रमुखा नदी। इति वाक्ये-
(i) ‘नदी’ शब्दस्य विशेषणपदम् किम्?
(ii) रिक्तस्थानपूर्ति कुरुत– देशस्य _______ (द्वि०व०) _______ (ब०व०)
उत्तरम्-
(i) प्रमुखा
(ii) देशयोः, देशानाम्

प्रश्न 3.
पदपरिचयं यच्छत।
(i) नद्याः _______ मूल शब्दाः _______ विभक्तिः _______ वचनम्
(ii) श्रद्धया _______ मूलशब्दः _______ विभक्तिः _______ वचनम्
उत्तरम्-
(i) नदी, षष्ठी, एकवचनम्
(ii) श्रद्धा, तृतीया, एकवचनम्

4. लोकमान्यः बालगंगाधरतिलक : महान् देशभक्तः आसीत्। बाल्यकालात् एव एतस्य देशभक्तस्य रुचिः राजनीतौ आसीत्। अत एव सः विधिशास्त्रस्य अध्ययनम् अकरोत्। एषः राजद्रोही इति दोषारोपणं कृत्वा ब्रिटिश-सर्वकारः तम् कारागारे अक्षिपत्। सः कारावास-काले अपि प्रयत्नशीलः आसीत्। सः गीतायाः अध्ययनं कृत्वा ‘गीता-रहस्यम्’ नाम महाग्रन्थम् अरचयत्। राष्ट्रे नवचेतना जागरयितुं सः आजीवनं प्रयत्नम् कृतवान्। एषः राष्ट्रवादी ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति अघोषयत्।

I. एकपदेन उत्तरत-

प्रश्न 1.
देशभक्तस्य तिलकस्य रुचिः कस्याम् आसीत्?
उत्तरम्-
राजनीतौ

प्रश्न 2.
सः कस्य शास्त्रस्य अध्ययनम् अकरोत्?
उत्तरम्-
विधिशास्त्रस्य

प्रश्न 3.
सः कम् ग्रन्थम् अरचयत्?
उत्तरम्-
गीता-रहस्यम्

प्रश्न 4.
महान् देशभक्तः कः आसीत्?
उत्तरम्-
बालगंगाधरतिलक:।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
एषः राष्ट्रवादी किम् अघोषयत्?
उत्तरम्-
एषः राष्ट्रवादी अघोषयत्- ‘स्वराज्यम् अस्माकं जन्मसिद्धः अधिकारः’ इति।

प्रश्न 2.
सः आजीवनं किं अकरोत्?
उत्तरम्-
स: आजीवनं राष्ट्र नवचेतना जागरयितुं प्रयत्नम् अकरोत्।

III. भाषिककार्यत-
यथानिर्देशम् उत्तरत-

प्रश्न 1.
राजनीतौ __________ मूल शब्दः __________ विभक्तिः __________ वचनम्
उत्तरम्-
राजनीति, सप्तमी, एकवचनम्

प्रश्न 2.
अकरोत __________ धातः __________ लकार: __________ पुरुषः __________ वचनम
उत्तरम्-
कृ, लङ, प्रथम एक

प्रश्न 3.
कृत्वा __________ धातः __________ प्रत्ययः
उत्तरम्-
कृ, क्त्वा

प्रश्न 4.
‘एतस्य देशभक्तस्य’-अत्र किं विशेषणपदम्? __________
उत्तरम्-
एतस्य

प्रश्न 5.
समानार्थकं लिखत-
(i) अलिखत् __________
(ii) जीवन-पर्यन्तम् __________
उत्तरम्-
(i) अरचयत्
(ii) आजीवनम्

प्रश्न 6.
लिङ्गम् निर्दिशत-
(i) गीतायाः __________
(ii) एतस्य __________
उत्तरम्-
(i) स्त्रीलिङ्गम्
(ii) पुंल्लिङ्गम्

5. समाचारपत्रम् जीवनस्य अनिवार्यम् अङ्गम् जातम्। प्रातः भवति सति दैनिकं समाचारपत्रम् गृहे गृहे आगच्छति। गृहस्य सदस्याः समाचार-पत्रस्य प्रतीक्षां कुर्वन्ति। जनक: समाचारं पठितुम् इच्छति, पुत्रः खेल-समाचारम् ज्ञातुम् उत्सुक:। समाचार-पत्रे न केवलं देश-विदेश-वार्ताः राजनीति-अर्थनीति-समाचाराः परं लेखाः कथाः कार्टून-चित्राणि अपि सन्ति। समाचारपत्र-पठनेन ज्ञानवृद्धिः अपि भवति। बाला: युवकाः, वृद्धाः, गृहिण्यः सर्वे किञ्चित् रुचिकरम् अत्र लभन्ते। समाचार-पत्राणि विविधासु भाषासु प्रकाश्यन्ते।

I. एकपदेन उत्तरत-

प्रश्न 1.
किम् जीवनस्य अनिवार्यम् अङ्गम् जातम्?
उत्तरम्-
समाचारपत्रम्

प्रश्न 2.
कः खेलसमाचारान् ज्ञातुम् उत्सुक:?
उत्तरम्-
पुत्रः

प्रश्न 3.
कानि विविधासु भाषासु प्रकाश्यन्ते?
उत्तरम्-
समाचारपत्राणि

प्रश्न 4.
समाचारपत्र-पठनेन किं भवति?
उत्तरम्-
ज्ञानवृद्धिः।

II. पूर्णवाक्येन उत्तरत-

प्रश्न 1.
समाचारपत्रे किं किं भवति?
उत्तरम्-
समाचारपत्रे देशविदेश-वार्ताः राजनीति-अर्थनीति-समाचाराः लेखाः, कथाः कार्टूनचित्राणि च अपि भवन्ति-

प्रश्न 2.
के समाचारपत्रे किंचित् रुचिकरम् लभन्ते?
उत्तरम्-
बालाः, युवकाः, वृद्धाः, गृहिण्यः च अपि समाचारपत्रे किंचिद् रुचिकरं लभन्ते।

III. भाषिककार्यम्-
यथानिर्देशम् उत्तरत-
‘प्रातः भवति, दैनिकं समाचारपत्रं गृहे गृहे आगच्छति’। इति वाक्ये

प्रश्न 1.
‘आगच्छति’ क्रियापदस्य कर्ता कः? (प्रातः, दैनिकं, समाचारपत्रम्)
उत्तरम्-
समाचारपत्रम्

प्रश्न 2.
अत्र किम् अव्ययपदम् प्रयुक्तम्?
उत्तरम्-
प्रातः

प्रश्न 3.
गृहे गृहे- अत्र किं विभक्तिवचनम्? (द्वितीया-द्विवचनम्, प्रथमा-द्विवचनम्, सप्तमी-एकवचनम्)
उत्तरम्-
सप्तमी-एकवचनम्

प्रश्न 4.
‘आगच्छति’ अत्र कः धातुः कः च उपसर्ग:? _______ _______
उत्तरम्-
गम्, आ

प्रश्न 5.
रिक्तस्थानानि पूरयत।
समाचारपत्रम् _______ (द्विवचन) _______ (बहुवचन)
आगच्छति _______ (द्विवचन) _______ (बहुवचन)
उत्तरम्-
समाचारपत्रे, समाचारपत्राणि; आगच्छतः, आगच्छन्ति।

प्रश्न 6.
दैनिक समाचारपत्रम्- अत्र किं विशेषणम्?
उत्तरम्-
दैनिकं

प्रश्न 7.
विलोमपदम् चित्वा लिखत। सायम् _______
उत्तरम्-
प्रातः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *