Skip to content

NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

अभ्यासः (Exercise)
प्रश्न 1.
प्रश्नानामुत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-)
(क) केन पीडितः वैभव: बहिरागत:?
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
(घ) वयं शिक्षिताः अपि कथमाचरामः?
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तरम्:
(क) प्रचण्डोष्मणा
(ख) वृक्षाः
(ग) अवकरभाण्डारम्
(घ) आशिक्षितेव (अशिक्षिताः इव)
(ङ) पर्यावरणस्य
(च) तालुः

प्रश्न 2.
पूर्णवाक्येन उत्तराणि लिखत-(पूर्ण वाक्य में उत्तर लिखिए-)
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
(ग) विनयः संगीतामाहूय किं वदति?
(घ) रोजलिन् आगत्य किं करोति?
(ङ) अन्त जोसेफ: पर्यावरणक्षायै कः उपायः बाधयति?
उत्तरम्:
(क) परमिन्दर् गृहात् बहिरागत्य सर्वथा अवरुद्ध वायुवेगं पश्यति।
(ख) अस्माभिः यत्र-तत्र बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, विशेषतः मैट्रोमार्गाणां, उपरिगमिसेतूनाम् मोत्यादीनाः निर्माणाय वृक्षाः कर्त्यन्ते।।
(ग) विनयः संगीतामाहूय ‘महोदये! कृपां कुरु मार्गे भ्रमभ्यः’ इति वदति।
(घ) रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरम् मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरकण्डोले प्रातयति।
(ङ) अन्ते जोसेफ: पर्यावरणक्षायै ‘पर्यावरणेन सह पशवः अपि रक्षणीयाः’ इति उपाय: बोधयति।

प्रश्न 3.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्नों का निर्माण कीजिए-)
(क) जागरूकतया एवं स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।
(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।।
उत्तरम्:
(क) कया एवं स्वच्छताऽभियानमपि गति प्राप्स्यति?
(ख) धेनुः कै सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) कः सर्वथाऽवरुद्धः आसीत्?
(घ) सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?
(च) सर्वे कुत्र/कम् प्राप्ताः मसन्नाः भवन्ति?

प्रश्न 4.
सन्धिविच्छेदं पूरयत-(सन्धिविच्छेद कीजिए-)
(क) ग्रीष्मर्ती ………………. + ऋतौ
(ख) बहिरागत्य – बहिः + …………..
(ग) काञ्चित् – ………………………. + चित्
(घ) तद्वनम् – …………………….. + वनम्
(ङ) कलमेत्यादीनि – …………………….. + …………………….
(च) अतीवानन्दप्रदोऽयम् – …………………….. + …………………….
उत्तरम्:
(क) ग्रीष्म
(ख) आगत्य
(ग) काम्
घ) तत्
(ङ) कलम + इत्यादीनि
(च) अतीव + आनन्दप्रदः + अयम्

प्रश्न 5.
विशेषणपदैः सह विशेष्यदानि योजयत- (विशेषण पदों को विशेष्य के साथ मिलाइए-)

NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः Q5
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः Q5.1

प्रश्न 6.
शुद्धकथनानां समक्षम ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत-(शुद्ध कथन के सामने ‘आम’ और अशुद्ध कथन के सामने ‘न’ लिखिए-)
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनु कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
उत्तरम्:
(क) आम्
(ख) आम्
(ग) आम्
(घ) आम्
(ङ) न
(च) आम्
(छ) आम्
(ज) आम्

प्रश्न 7.
घटनाक्रमानुसारं लिखत-(घटनाक्रम के अनुसार लिखिए-)
(क) उपरितः अवकरं क्षेप्तुम् उद्यातां रोजलिन् बालाः प्रवोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्टवा पर्यावरण विषये चिन्तिताः वालाः पपरस्परं विचारयन्ति।
उत्तरम्:
(क) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(ख) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(ग) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिा: वालाः पपरस्परं विचारयन्ति।
(घ) उपरितः अवकरं क्षेप्तुम् उद्यातां रोजलिन् बालाः प्रवोधयन्ति।
(ङ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(च) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(छ) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ज) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

अतिरिक्त-अभ्यासः
प्रश्न 1.
निम्न संवादं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-(निम्न संवाद को पढ़कर उस पर आधारित प्रश्नों के उत्तर लिखिए-)
(क) (ग्रीष्मर्ती सायंकाले विद्युदभावे प्रचण्डोष्मणा पीडितः वैभवः गृहात् निष्क्रामति)
वैभवः – अरे परमिन्दर्! अपि त्वमपि विद्युदभावेन पीडितः बहिरागतः?
परमिन्दर् – आम् मित्र! एकतः प्रचण्डातपकालः अन्यतश्च विद्युदभावः परं बहिरागत्यापि पश्यामि यत् वायुवेगः तु सर्वथाऽवरुद्धः। सत्यमेवोक्तम् ।
प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी।
क्षणमपि न जीव्यतेऽनेन विना, सर्वातिशायिमूल्यः पवनः॥

विनयः – अरे मित्र! शरीरात् न केवलं स्वेदबिन्दवः अपितु स्वेदधाराः इव प्रस्रवन्ति स्मृतिपथमायाति शुक्लमहोदयैः रचितः श्लोकः।
तप्तैर्वाताघातैरवितुं लोकान् नभसि मेघाः,
आरक्षिविभागजना इव समये नैव दृश्यनते॥
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
1. स्वेदधाराः इव के प्रस्रवन्ति?
2. वैभवः केन पीड़ितः गृहात् निष्क्रामति?

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
1. परमिन्दर् बहिः आगत्य किं पश्चति?
2. सकलं जगत् केन प्राणिति?

III. भाषिककार्यम्-(भाषा-कार्य)
प्रश्न 1.
श्लोके ‘दृश्यन्ते’ इति क्रियायाः कर्तृपदं किम्?
(क) लोकान्
(ख) तप्तैः
(ग) मेघाः
(घ) आरक्षि विभागजनाः

प्रश्न 2.
‘रचितः श्लोकः’ अनयोः विशेषणपदं किम्?
(क) श्लोकः
(ख) रचितः
(ग) रचित
(घ) श्लोक

प्रश्न 3.
‘अन्तः’ इति पदस्य संवादे विपर्ययपदं किम् आगताम्?
(क) बहिः
(ख) अपितु
(ग) सकलं
(घ) परम्

प्रश्न 4.
संवादे ‘दुःखितः’ पदस्य कः पर्यायः लिखितः?
(क) अन्यत:
(ख) वैभवः
(ग) प्रभावः
(घ) पीडितः
उत्तरम्:
I.
1. स्वेदबिन्दवः
2. प्रचण्डोष्मणा

II.
1. परमिन्दर् बहिः आगत्य पश्यति यत् वायुवेगः तु सर्वथाऽवरुद्धः अस्ति।
2. सकलं जगत् पवनेन प्राणिति।

III.
1. (ग) मेघा
2. (ख) रचित:
3. (क) बहिः
4. (घ) पीडितः

(ख) (नदीतीरं गन्तुकामाः बालाः यत्र-तत्र अवकरभाण्डारं दृष्ट्वा वार्तालापं कुर्वन्ति)
जोसेफः – पश्यन्तु मित्राणि यत्र-तत्र प्लास्टिकस्यूतानि अन्यत् चावकरं प्रक्षिप्तमस्ति। कथ्यते यत् स्वच्छता स्वास्थ्यकरी परं वयं तु शिक्षिताः अपि अशिक्षित इवाचरामः अनेन प्रकारेण…
वैभवः – गृहाणि तु अस्माभिः नित्यं स्वच्छानि क्रियन्ते परं किमर्थं स्वपर्यावरणस्य स्वच्छतां प्रति ध्यानं न दीयते।
विनयः – पश्य-पश्य उपरितः इदानीमपि अवकरः मार्गे क्षिप्यते।
(आहूय) महोदये! कृपा करु मार्गे भ्रमभ्यः एतत् तु सर्वथा अशोभनं कृत्यम्।
अस्मसदृशेभ्यः बालेभ्यः भवतीसदृशैः एवं संस्कारा देयाः।
रोजलिन् – आम् पुत्र! सर्वथा सत्यं वदसि! क्षम्यन्ताम्। इदानीमेवागच्छामि।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
1. शिक्षिताः वयं कीदृशम् इव आचराम:?
2. बालाः यत्र-तत्र किं दृष्ट्वा वार्तालापं कुर्वन्ति?

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
1. अस्माभिः कानि नित्यं क्रियन्ते?
2. अस्माभिः कां प्रतिध्यानं न दीयते?

III. भाषिककार्यम्-(भाषा-कार्य)
प्रश्न 1.
संवादे ‘अशिक्षिताः’ इत्यस्य पदस्य कः विपर्ययः प्रयुक्तः?
(क) शिक्षिताः
(ख) शिक्षितः
(ग) देयाः
(घ) अवकरः

प्रश्न 2.
गृहाणि तु अस्माभिः नित्यं स्वच्छानि क्रियन्ते।’ अत्र कर्तृपदं किम्?
(क) गृहाणि
(ख) नित्यं
(ग) अस्माभिः
(घ) स्वच्छानि

प्रश्न 3.
‘एतत् तु सर्वथा अशोभनं कृत्यम्।’ अत्र अव्ययपदं किम्?
(क) एतत्
(ख) सर्वथा
(ग) कृत्यम्
(घ) अशोभनम्

प्रश्न 4.
‘नदीतीरं गन्तुकामाः बाला: ……………………… ।’ अत्र ‘बालाः’ इति कर्तृपदस्य क्रियापदं किमस्ति?
(क) दृष्ट्वा
(ख) कुर्वन्ति
(ग) वार्तालापं
(घ) यत्र-तत्र
उत्तरम्:
I.
1. अशिक्षितम्
2. अवकरभाण्डारम्

II.
1. अस्माभिः गृहाणि स्वच्छानि नित्यं क्रियन्ते।
2. अस्माभिः स्वपर्यावरणस्य स्वच्छतां प्रति ध्यानं न दीयते।

III.
1. (क) शिक्षिताः
2. (ग) अस्माभिः
3. (ख) सर्वथा
4. (ख) कुर्वन्ति

प्रश्न 2.
निम्न श्लोकानि पठित्वा तेषाम् अन्वय लेखनं मञ्जूषायाः सहायतया कुरुत- (निम्न श्लोकों को पढ़कर उनका अन्वय मंजूषा की सहायता से लिखिए-)
(क) प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी।
क्षणमपि न जीव्यतेऽनेन विना, सर्वातिशायिमूल्यः पवनः॥
अन्वय : पवनेन सकलं (i) …………………….. प्राणिति, निखिला (ii) …………………….. चैतन्यमयी (अस्ति)। सर्वा (iii)…………………….. पवनः अनेन विना (iv) …………………….. अपि न जीव्यते।

मजूषा-क्षणम्,               जगत्,              सृष्टिः,               अतिशायिमूल्यः

उत्तरम्:
(i) जगत्
(ii) सृष्टिः
(iii) अतिशायिमूल्यः
(iii) क्षणम्

(ख) तप्तैर्वाताघातैरवितुं लोकान् नभसि मेघाः,
आरक्षिविभागजना इवे समये नैव दृश्यन्ते॥
अन्वय : तप्तैः (i) …………………….. अवितुं लोकान् (ii) …………………….. मेधाः, आरक्षिविभाग …………………….. इव (iv) …………………….. न एव दृश्यन्ते।

मञ्जूषा-नभसि,              वाताघातैः,              समये,               जनाः

उत्तरम्:
(i) वाताघातैः
(ii) नभसि
(iii) जनाः
(iii) समये

(ग) निदाघतापतप्तस्य, याति तालु हि शुष्कताम्।
पुंसो भयार्दितस्येव, स्वेदवन्जायते वपुः॥
अन्वय : – निदाघताप (i) …………………….. हि तालु (ii) …………………….. याति, भयार्दितस्य इव (iii) …………………….. वपुः (iv) …………………….. वप. (v) …………………….. जायते।।

मञ्जूषा- शुष्कनाम्,              स्वेदवत्,              तप्तस्य,               पुंसः

उत्तरम्:
(i) तप्तस्य
(ii) शुष्कनाम्
(iii) पुंसः
(iv) स्वेदवत्

(घ) एकेन शुष्कवृक्षेण दह्यमानेन वनिना।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा॥
अन्वय : – एकेन (i) …………………….. वनिना (ii) …………………….. तत् (iii) …………………….. वनं (तया) दह्यते यथा (iv) …………………….. कुलं (दह्यते)।

मजूषा-कुपुत्रेण,              सर्वं,              शुष्कवृक्षेण,               ह्यमानेन

उत्तरम्:
(i) शुष्कवृक्षेण
(ii) ह्यमानेन
(iii) सर्वं
(iv) कुपुत्रेण

(ङ) सुपर्यावरणेनास्ति जगतः
सुस्थितिः सखे।
जगति जायमानानां सम्भवः
सम्भवो भुवि॥
अन्वय : – सखे! सुपर्यावरणेन (i) …………………….. सुस्थितिः (ii) ……………………..। (यत:) (iii) …………………….. जायमानानां सम्भवः (एव) (iv) …………………….. सम्भवः (वर्तते)।।

मञ्जूषा-भुवि,              जगतः,              अस्ति,               जगति

उत्तरम्:
(i) जगतः
(ii) अस्ति
(iii) जगति
(iv) भुवि

प्रश्न 3.
निम्न श्लोकानि पठित्वा मञ्जूषायाः सहायतया तेषां भावार्थं लिखत-(निम्न श्लोकों को पढ़कर मंजूषा की सहायता से उनके भावार्थ लिखिए-)
1. प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी।
क्षणमपि न जीव्यतेऽनेन विना, सर्वातिशायिमूल्यः पवनः॥
भावार्थ:- अस्य श्लोकस्य भावोऽस्ति यत् (i) …………………….. एव सम्पूर्ण जगत् प्राणयति सम्पूर्णा च सृष्टिः (ii) …………………….. भवति। संसारे पवनः अतीव मूल्यवान् वियते तं विना (iii) ……………………..:::::: अपि (iv) …………………….. न शक्यते।

मञ्जूषा-चैतन्ययुक्ता,              पवनः,              क्षणम्जी,               वितु

उत्तरम्:
(i) पवनः
(ii) चैतन्ययुक्ताः
(iii) क्षणम्
(iv) जीवितु

2. तप्तैर्वाताधातैरवितुं लोकान् नभसि मेघाः,
आरक्षिविभागजना इवे समये नैव दृश्यनते॥
भावार्थ : – अस्य भावोऽस्ति यत् ग्रीष्म-ऋतौ जनाः (i) …………………….. वायुराघातैः रक्षार्थं आकाशे (ii) …………………….. परं ते मेघाः आरक्षि विभागस्य (iii) …………………….. इव जनान् उचिते (iv) …………………….. कदापि न दृश्यन्ते।

मजूषा- तप्यमानैः,              जनाः,              पश्यन्ति,               समये

उत्तरम्:
(i) तप्यमानैः
(ii) पश्यन्ति
(iii) जनाः
(iv) समये

3. निदाघतापतप्तस्य, याति तालु हि शुष्कताम्।
पुंसो भयार्दितस्येव, स्वेदवज्जायते वपुः॥
भावार्थः – अस्य श्लोकस्य भवोऽस्ति यत् अस्मिन् निदाघतापेन (i) …………………….. जनस्य तालुः हि (ii) …………………….. प्राप्नोति। एवमेव (iii) …………………….. आर्तस्य जनस्य इव (iv) …………………….. शरीरः स्वेदयुक्त जातः।

मजूषा- सम्पूर्णः,              शुष्कताम्,              तप्तस्य,               भयात्

उत्तरम्:
(i) तप्तस्य
(ii) शुष्कताम्
(iii) भयात्
(iv) सम्पूर्णः

4. एकेन शुष्कवृक्षेण ह्यमानेन वनिना।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा॥
भावार्थः – अर्थात् यथा वह्निना एकेन (i) …………………….. दाह्यमानेन (ii) …………………….. तत् सर्वं वनं ज्वलति तथा (iii) …………………….. कुपुत्रेण सर्वं (iv) …………………….. अपि ज्वलति (नाशयति)।

मञ्जूषा- एव,              शुष्कवृक्षेण,              एकेन,               कुलम्

उत्तरम्:
(i) शुष्कवृक्षेण
(ii) एव
(iii) एकेन
(iv) कुलम्

5. सुपर्यावरणे नास्ति जगतः
सुस्थितिः सखे।
जगति जायमानानां सम्भवं
सम्भवो भुवि॥
भावार्थः – अस्य भावोऽस्ति यत् हे मित्र उत्तमेन …………………….. (i) एव संसारस्य …………………….. (ii) स्थितिः भवति यतः …………………….. (iii) प्राणीनां सुनिवासम् एव …………………….. (iv) वास्तविकं निवासं वर्तते।

मञ्जूषा- धरायां,              संसारे,              पर्यावरणेन,               उत्तमा

उत्तरम्:
(i) पर्यावरणेन
(ii) उत्तमा
(iii) संसारे
(iv) धरायां

प्रश्न 4.
रेखाङकित पदानां स्थानेषु प्रश्ननिर्माणं कृत्वा लिखत-(रेखांकित पदों के स्थान पर प्रश्ननिर्माण करके लिखिए-)
1. प्रचण्डोष्मणा पीडित: वैभव: गृहात् निष्क्रामति।
2. निखिला सृष्टि: चैतन्यमयी अस्ति।
3. शरीरात् स्वेदधाराः प्रस्रवन्ति।
4. शुक्लमहोदयैः रचितः श्लोकः स्मृतिपथम् आयाति।
5. आरक्षिविभागजनाः समये नैव दृश्यन्ते।
6. याति तालुः हि शुष्कताम्।
7. मार्ग इत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते।
8. आगच्छन्तु नदीतीरं गच्छामः।
9. बालाः यत्र-तत्र अवकरभाण्डारं दृष्ट्वा वार्तालापं कुर्वन्ति।
10. अन्यत् च अवकरं प्रक्षिप्तम् अस्ति।
11. वयं तु शिक्षिताः अपि अशिक्षित इवाचरामः।
12. एतत् तु सर्वथा अशोभनम्।
13. धेनुः शाकफलानाम् आवरणैः सह प्लास्टिकस्यूतम् अपि खादति।
14. बालाः कदलीफलानि क्रित्वा धेनुम् आवयन्ति।
15. पर्यावरणेन सह पशवः अपि रक्षणीयाः।
उत्तरम्:
1. प्रचण्डोष्मणा पीडितः कः गृहात् निष्क्रामति?
2. निखिला सृष्टिः कीदृशी अस्ति?
3. शरीरात् काः प्रस्रवन्ति?
4. कै रचित्: श्लोकः स्मृतिपथम् आयाति?
5. के समये नैव दृश्यन्ते?
6. याति तालुः हि काम्?
7. मार्ग इत्यादीनां निर्माणाय के कर्त्यन्ते?
8. आगच्छन्तु कुत्र गच्छामः?
9. बालाः यत्र-तत्र कम्/किम् दृष्टवा वार्तालाप कुर्वन्ति?
10. अन्यत च किम् प्रक्षिप्तम् अस्ति?
11. वयं तु कीदृशाः अपि अशिक्षित इवाचराम:?
12. एतत् तु सर्वथा कीदृशम्?
13. का शाकफलानाम् आवरणैः सह प्लास्टिकस्यूर्तम् अपि खादति?
14. बालाः कानि क्रित्वा धेतुम् आह्वयन्ति?
15. पर्यावरणेन सह के अपि रक्षणीया:?

प्रश्न 5.
निम्न वाक्यानि पठित्वा कथाक्रमानुसारं तानि लिखत-(निम्नलिखित वाक्यों को पढ़कर उन्हें घटनाक्रमानुसार लिखिए-)
(क)
1. रोजलिन् उपरितः अवकरं मार्गे क्षिपति।
2. उत्तमेन पर्यावरणेन जगतः उत्तमा स्थितिः अस्ति।
3. बालाः मार्गे कदलीफलानि क्रीत्वा धेनुं भोजयन्ति।
4. छात्रा: नदीजले निमज्जिताः भूत्वा गायन्ति।
5. ते छात्राः शिक्षकाणां सहयोगेन प्लास्टिक विषये चिन्तयितुम् इच्छन्ति।
6. सा रोजलिन् नीचैः आगत्य अवकरं संगृह्य अवकर कण्डोले क्षिपति।
7. वैभवः प्रचण्डग्रीष्मेण पीडितः भूत्वा गृहात् बहिः निर्गच्छति।
8. विनयः अपि स्वेदधारा विषये परमिन्दरं कथयति।

(ख)
1. बालाः मार्गे शाकफलानामावरणैः सह प्लास्टिकस्यूतं खादन्तीं धेनुं पश्यन्ति।
2. विनयस्य स्मृतौ शुक्लमहोदयस्य एकं श्लोकम् आगच्छति।
3. जलविहारः सर्वेभ्यः रोचते।
4. अधुना विविध निर्माणकार्यार्थं वृक्षाः कर्त्यन्ते।
5. छात्रा: कदलीफलानि क्रीत्वा गाम् आहूय प्लास्टिकात् दूरं नयन्ति फलानि च खादयन्ति।
6. ते सर्वे धेनुं प्लास्टिक खादनात् रोद्धं विचारयन्ति।
7. वैभव: प्रचण्ड उष्मणा पीडित: गृहात् बहिः आगच्छत्।
8. परमिन्दरः शान्तिं प्राप्तुं नदीतीरे गन्तुं मित्राणि वदति।
उत्तरम्:
(क)
1. वैभवः प्रचण्डग्रीष्मेण पीडितः भूत्वा गृहात् बहिः निर्गच्छति।
2. विनयः अपि स्वेदधारा विषये परमिन्दरं कथयति।
3. रोजलिन् उपरितः अवकरं मार्गे क्षिपति।
4. सा रोजलिन् नीचैः आगत्य अवकरं संगृह्य अवकर कण्डोले क्षिपति।
5. बालाः मार्गे कदलीफलानि क्रीत्वा धेनुं भोजयन्ति।
6. ते छात्राः शिक्षकाणां सहयोगेन प्लास्टिक विषये चिन्तयितुम् इच्छन्ति।
7. छात्रा: नदीजले निमज्जिताः भूत्वा गायन्ति।
8. उत्तमेन पर्यावरणेन जगतः उत्तमा स्थितिः अस्ति।

(ख)
1. वैभव: प्रचण्ड उष्मणा पीडित: गृहात् बहिः आगच्छत्।
2. विनयस्य स्मृतौ शुक्लमहोदयस्य एकं श्लोकम् आगच्छति।
3. अधुना विविध निर्माणकार्यार्थं वृक्षाः कर्त्यन्ते।
4. परमिन्दरः शान्तिं प्राप्तुं नदीतीरे गन्तुं मित्राणि वदति।
5. बालाः मार्गे शाकफलानामावरणैः सह प्लास्टिकस्यूतं खादन्तीं धेनुं पश्यन्ति।
6. ते सर्वे धेनुं प्लास्टिक खादनात् रोद्धं विचारयन्ति।
7. छात्राः कदलीफलानि क्रीत्वा गाम् आहूय प्लास्टिकात् दूरं नयन्ति फलानि च खादयन्ति।
8. जलविहारः सर्वेभ्यः रोचते।

प्रश्न 6.
निम्न पदानां पर्यायाः चीयन्ताम्-(निम्न पदों के पर्यायवाची चुनिए-)
NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः Q6
NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः Q6.1
उत्तरम्:
1. ग्रीष्मेण
2. कुपुत्रेण
3. धेनुः
4. शिक्षिताः
5. दुःखितः
6. क्षतिः
7. देहः
8. भोजयन्ति
9. सृष्टिः
10. कृत्यम्।
11. देयाः
12. शरीरात्
13. प्राप्ताः
14. नभसि
15. कण्डोले

पाठ का परिचय (Introduction of the Lesson)
प्रस्तुत पाठ स्वच्छता तथा पर्यावरण सुधार को ध्यान में रखकर सरल संस्कृत में लिखा गया एक संवादात्मक पाठ है। हम अपने आस-पास के वातावरण को किस प्रकार स्वच्छ रखें तथा यह भी ध्यान रखें कि नदियों को प्रदूषित न करें, वृक्षों को न काटें, अपितु अधिकाधिक वृक्षारोपण करें और धरा को शस्यश्यामला बनाएँ। प्लास्टिक का प्रयोग कम करके पर्यावरण संरक्षण में योगदान करें। इन सभी बिन्दुओं पर इस पाठ में चर्चा की गई है। पाठ का प्रारंभ कुछ मित्रों की बातचीत से होता है, जो सायंकाल में दिन भर की गर्मी से व्याकुल होकर घर से बाहर निकले हैं

पाठ-शब्दार्थ एवं सरलार्थ |
(क) (ग्रीष्मर्ती सायंकाले विद्युदभावे प्रचण्डोष्मणा पीडितः वैभवः गृहात् निष्क्रामति)
वैभवः – अरे परमिन्दर्! अपि त्वमपि विद्युदभावेन पीडितः बहिरागत:?
परमिन्दर् – आम् मित्र! एकत: प्रचण्डातपकाल: अन्यतश्च विद्युदभावः परं बहिरागत्यापि पश्यामि यत् वायुवेगः तु सर्वथाऽवरुद्धः। सत्यमेवोक्तम् ।
प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी।
क्षणमपि न जीव्यतेऽनेन विना, सर्वातिशायिमूल्यः पवनः॥
विनयः – अरे मित्र! शरीरात् न केवलं स्वेदबिन्दवः अपितु स्वेदधारा: इव प्रस्रवन्ति स्मृतिपथमायाति शुक्लमहोदयैः रचितः श्लोकः।
तप्तैर्वाताघतैरवितुं लोकान् नभसि मेघाः,
आरक्षिविभागजना इव समये नैव दृश्यनते॥
सरलार्थ : (ग्रीष्म ऋतु में शाम को बिजली के न रहने पर भयानक गर्मी से दु:खी वैभव घर से निकलता है।)
वैभव – अरे परमिन्दर्! क्या तुम भी बिजली के अभाव (न रहने) से परेशान बाहर आए हो?
परमिन्दर् – हाँ मित्र! एक ओर से भयानक गर्मी का समय है और दूसरी ओर बिजली की कमी है परन्तु बाहर आकर देखता हूँ कि हवा की गति भी पूरी तरह से रुकी हुई है। सच ही कहा गया है-
सारा संसार हवा से ही साँस ले रहा है, सारी दुनिया (हवा से ही) चेतना युक्त है। इसके बिना क्षण भर भी जिया नहीं जाता है, हवा सबसे अधिक मूल्यवान (महँगी) है|
विनय – अरे मित्र! शरीर से न केवल पसीने की बूंदें बल्कि मानो पसीने की धारें बहती हैं। माननीय शुक्ल जी के द्वारा लिखा गया यह श्लोक याद आ रहा है।
तपते हुए वायु के प्रहार से परेशान लोगों को आकाश में बादल, पुलिस विभाग के लोगों की तरह (उचित) समय पर नहीं दिखाई देते हैं।

शब्दार्थ : ग्रीष्मतौ-गर्मी के मौसम में। विद्युदभावे-बिजली के न होने पर। प्रचण्ड-उष्मणा-तेज गर्मी से। निष्क्रामति-निकलता है। पीडितः-परेशान। एकतः-एक ओर। प्रचण्डातपकाल:-तेज गर्मी का समय। अन्यतः-दूसरी ओर। वायुवेगः-हवा का झोंका। सर्वथा-पूरी तरह से। अवरुद्धः-रुक गया है। प्राणिति-प्राण (साँस) लेता है। निखिला-सारी। चैतन्यमयी-चेतना से युक्त। जीव्यते-जिया जाता है। सर्वातिशायिमूल्यः-सबसे अधिक मूल्यवान। स्वेदबिन्दवः-पसीने की बूंदें। स्वेदधाराः-पसीने की धराएँ। प्रस्रवन्ति-बहती हैं। आयाति-आता है। तप्तैः-तपे हुए। वाताघातैः-हवा के झोंको से। नभसि-आकाश में। आरक्षिविभागजनाः-पुलिस विभाग के लोग। समये-समय पर। दृश्यन्ते-दिखाई देते हैं।

(ख) परमिन्दर् – आम् अद्य तु वस्तुतः एव
निदाघतापतप्तस्य, याति तालु हि शुष्कताम्।
पुंसो भयार्दितस्येव, स्वेदवन्जायते वपुः॥
जोसेफः – मित्राणि यत्र-तत्र बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, विशेषतः मैट्रोमार्गाणां, उपरिगमिसेतूनाम् मार्गेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते। तर्हि अन्यत् किमपेक्ष्यते अस्माभिः? वयं तु विस्मृतवन्तः एव-
एकेन शुष्कवृक्षेण दह्यमानेन वनिना।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा॥
पमिन्दर् – आम् एतदपि सर्वथा सत्यम्! आगच्छन्तु नदीतीरं गच्छामः! तत्र चेत् काञ्चित् शान्तिं प्राप्तु शक्ष्येम।
सरलार्थ :
परमिन्दर् – हाँ, आज तो वास्तव में ही
गर्मी की धूप में तपे हुए व्यक्ति का तालू निश्चय से सूख जाता है। भयभीत मनुष्य के समान ही शरीर मानो पसीने से भर जाता है।
जोसेफ – मित्रो! जहाँ-जहाँ बहुमंजिला भवनों के, भूमिगत (Under Ground) रास्तों के, विशेष रूप से मेट्रो के रास्तों के ऊपर से जाने वाले पुलों (Over Bridges) के रास्ते आदि | के निर्माण के लिए वृक्ष काटे जाते हैं तो हम और दूसरी दूसरी क्या अपेक्षा (आशा) करें? हम तो भूल ही गए हैं-
एक सूखे वृक्ष के अग्नि के द्वारा जलने से वह सारा वन वैसे ही जल जाता है, जैसे कुपुत्र (बुरे पुत्र) से सारा वंश (जल जाता है)।
परमिन्दर् – हाँ, यह भी पूरी तरह सच है। आओ नदी के किनारे चले हैं। वहाँ शायद कोई शान्ति प्राप्त हो सकेगी।

शब्दार्थ : वस्तुतः-वास्तव में। यातिप्राप्त होता है। तालु-तालु। हि-निश्चय से। शुष्कताम्-सूखेपन को। इव-के समान। काञ्चित्-कुछ। स्वेदवत्-पसीने की तरह। वपुः-शरीर। बहुभूमिक भवनानाम्-बहुमंजिले भवनों के। कर्त्यनते-काटे जाते हैं। अपेक्ष्यते-आशा की जाती है। विस्मृतवन्तः- भूल गए। शुष्कवृक्षेण-सूखे पेड़ से।

(ग) (नदीतीरं गन्तुकामाः बालाः यत्र-तत्र अवकरभाण्डारं दृष्ट्वा वार्तालापं कुर्वन्ति)
जोसेफः – पश्यन्तु मित्राणि यत्र-तत्र प्लास्टिकस्यूतानि अन्यत् चावकरं प्रक्षिप्तमस्ति। कथ्यते यत् ।
स्वच्छता स्वास्थ्यकरी परं वयं तु शिक्षिताः अपि अशिक्षित इवाचरामः अनेन प्रकारेण…
वैभवः – गृहाणि तु अस्माभिः नित्यं स्वच्छानि क्रियन्ते परं किमर्थं स्वपर्यावरणस्य स्वच्छतां प्रति ‘ध्यानं न दीयते।
विनयः – पश्य-पश्य उपरितः इदानीमपि अवकरः मार्गे क्षिप्यते। (आहूय) महोदये! कृपां कुरु मार्गे भ्रमभ्यः । एतत् तु सर्वथा अशोभनं कृत्यम्।
अस्मद्सदृशेभ्यः बालेभ्यः भवतीसदृशैः एवं संस्कारा देयाः।।
रोजलिन् – आम् पुत्र! सर्वथा सत्यं वदसि! क्षम्यन्ताम्। इदानीमेवागच्छामि।
सरलार्थ : (नदी के किनारे जाने वाले बच्चे जहाँ-तहाँ कूड़े की ढेर को देखकर बातचीत करते हैं।)
जोसेफ – देखो मित्रो, जहाँ-तहाँ प्लास्टिक के लिफाफे और दूसरे कूड़े पड़े हैं। कहा जाता है। कि साफ-सफाई स्वास्थ्य बढ़ाने वाली है परन्तु हम सब शिक्षित भी अशिक्षित की तरह व्यवहार करते हैं। इस तरह से…..
वैभव – घर तो हमारे प्रतिदिन साफ किए जाते हैं परन्तु क्यों नहीं स्वच्छ पर्यावरण की स्वच्छता की ओर ध्यान दिया जाता है।
विनय – देखो-देखो, ऊपर से अब (इस समय) भी कूड़ा रास्ते में फेंका जा रहा है। (बुलाकर) देवी जी! रास्ते में चलने वालों पर कृपा करो (रुको)। यह तो पूरी तरह से बुरा काम है। आप जैसी महिलाओं द्वारा हमारे समान बच्चों को इस प्रकार के संस्कार देने चाहिए?
रोजलिन् – हाँ बेटा! पूरी तरह ठीक कहते हो। क्षमा करना। अभी आ रही हूँ।

शब्दार्थ : नदीतीरम्-नदी के किनारे। गन्तुकामाः-जाने के इच्छुक। यत्र-तत्र-जहाँ-तहाँ। अवकर भाण्डारम्-कूड़े के ढेर को। अन्यत्-दूसरे। अवकरम्-कूड़े को। प्रक्षिप्तम् अस्ति-फेंका गया है। स्वास्थ्यकरी-स्वास्थ्य बढ़ाने वाली। आचरामः-आचरण करते हैं। स्वच्छानि-साफ-सुथरे। स्वच्छताम् प्रति-सफाई की ओर। उपरितः-ऊपर से। अवकरः-कूड़ा। क्षिप्यते-फेंका जा रहा है। आहूय-बुलाकर। मार्गे भ्रमद्भ्यः -रास्ते में घूमने से। अशोभनम्-शोभा रहित। कृत्यम्-काम है। अस्मद् सदृशेभ्यः-हमारे जैसों के लिए। भवती सदृशैः-आप जैसी से। एवम्-ऐसे। संस्काराः-संस्कार। देयाः-दिए जाने चाहिए। क्षम्यन्ताम्-क्षमा करें।

(घ) (रोजलिन् आगत्य बालैः साक स्वक्षिप्तमवकरम् मार्गे विकीर्णमन्यदकरं चापि संगृह्य अवकरकण्डोले पातयति)
बालाः – एवमेव जागरूकतया एव प्रधानमंत्रिमहोदयानां स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
विनयः – पश्य पश्य तत्र धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति। यथाकथञ्चित् निवारणीया एषा (मार्गे कदलीफलविक्रेतारं दृष्ट्वा बालाः कदलीफलानि क्रीत्वा धेनुमाहवयन्ति भोजयन्ति च, मार्गात् प्लास्टिकस्यूतानि चापसार्य पिहिते अवकरकण्डोले क्षिपन्ति)
सरलार्थः – (रोजलिन् आकर बच्चों के साथ अपने द्वारा फेंके गए कूड़े को और रास्ते में बिखेर हुए दूसरे कूड़े को भी इकट्ठा करके कूड़ेदान में डालती है।)
बच्चे – ऐसी ही जागरूकता से प्रधानमंत्री महोदय का स्वच्छता अभियान भी गति प्राप्त करेगा।
विनय – देखो-देखो वहाँ गाय साग-फलों के छिलकों के साथ प्लास्टिक की थैली को भी खा रही है। इसे किसी भी तरह से रोकना चाहिए। (रास्ते में केले बेचनेवाले को देखकर बच्चे केलों को खरीदकर गाय को बुलाते हैं और खिलाते हैं और रास्ते से प्लास्टिक की थैलियों को हटाकर ढके हुए कूड़ेदान में डालते हैं।)

शब्दार्थ: स्वक्षिप्तम्-अपने फेंके हुए। अवकरम्-कूड़े को। विकीर्णम्-बिखरे हुए। अन्यत्-अवकरम्-दूसरे कूड़े को। संगृह्य-इकट्ठा करके। अवकर कण्डोले-कूड़ादान में। पातयति-डालते हैं। जागरूकतया-जागरूकता से। गतिम्-गति को प्राप्स्यति-प्राप्त करेगा। शाकफलानामावरणैः सह-सब्जी-फलों के छिलकों के साथ। स्यूतम्-थैली को। यथाकथञ्चित्-जैसे-कैसे करके (जिस किसी प्रकार से)। निवारणीया-रोकी जानी चाहिए। कदलीफल विक्रेतारम्-केला बेचनेवाले को। क्रीत्वा-खरीदकर। आह्वयन्ति-बुलाते हैं। भोजयन्ति-खिलाते हैं। स्यूतानि-प्लास्टिक की थैलियों को। अपसार्य-हटाकर के। पिहिते-ढके हुए। क्षिपन्ति-डालते हैं।

(ङ) परमिन्दर् – प्लास्टिकस्य मृत्तिकायां लयाभवात् अस्माकं पर्यावरणस्य कृते महती क्षतिः भवति। पूर्व तु कापसेन, चर्मणा, लौहेन, लाक्षया, मृत्तिकया, काष्ठेन वा निर्मितानि वस्तूनि एव प्राप्यन्ते स्म। अधुना तत्स्थाने प्लास्टिकनिर्मितानि वस्तूनि एव प्राप्यन्ते।
वैभवः – आम् घटिपट्टि का, अन्यानि बहुविधानि पात्राणि, कलमेत्यादीनि सर्वाणि तु प्लास्टिकनिर्मितानि भवन्ति।
जोसेफः – आम् अस्माभिः पित्रोः शिक्षकाणां सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः। पर्यावरणेन सह पशवः अपि रक्षणीयाः। (एवमेवालपन्तः सर्वे नदीतीरं प्राप्ताः, नदीजले
निमज्जिताः भवन्ति गायन्ति च-
सुपर्यावरणेनास्ति जगतः
सुस्थितिः सखे।
जगति जायमानानां सम्भवः
सम्भवो भुवि॥
सर्वे – अतीवानन्दप्रदोऽयं जलविहारंः।
सरलार्थ :
परमिन्दर् – प्लास्टिक का मिट्टी में न मिलने से हमारे पर्यावरण को बहुत हानि होती है। पहले तो कपास (रुई) से, चमड़े से, लोहे से, लाख से, मिट्टी से अथवा लकड़ी से बनी हुई वस्तुएँ (चीजें) ही मिलती थीं। अब उसकी जगह पर प्लास्टिक से बनी हुई चीजें ही मिलती हैं।
वैभव – हाँ, घड़ी की पट्टी, दूसरे बहुत प्रकार के बर्तन, कलम आदि सभी तो प्लास्टिक से ही बनी हुई होती हैं।
जोसेफ – हाँ, हमें माता-पिता-शिक्षकों के सहयोग से प्लास्टिक के अनेक पक्षों पर विचार करना चाहिए। पर्यावरण के साथ पशु भी रक्षित किए जाने चाहिए। (इसी प्रकार से बातचीत करते हुए सभी नदी के किनारे पहुँच गए, नदी के पानी में डुबकी लगाते हैं और गाते हैं।)
हे मित्र! अच्छे पर्यावरण से संसार की अच्छी स्थिति है (होती है)। संसार में उत्पन्न हुओं का अच्छा रहना ही वास्तव में धरती पर रहना है।
सब – यह जल क्रीडा (खेल) बहुत आनंददायक है।

शब्दार्थ : मृत्रिकायाम्-मिट्टी में। लयाभावात्-न मिलने से। क्षतिः-हानि। लाक्षया-लाख से। प्राप्यन्ते स्म-प्राप्त होते थे। घटिपट्टिका-घड़ी की पट्टी। बहुविधानि-बहुत प्रकार के। कलम-इत्यादीनि-कलम आदि। पित्रो:-माता-पिता के। विचारणीयाः-सोचने योग्य हैं (सोचने चाहिए)। आलपन्तः-बातचीत करते हुए। प्राप्ताः-पहुँच गए। निमज्जिताः-डुबकी लगाते। सुपर्यावरणेन-अच्छे पर्यावरण से। जगत:-संसार में। सुस्थितिः-अच्छी स्थिति। जगति-संसार में। जायमानानाम्-उत्पन्न हुओं का। सम्भवः-उत्पन्न होना। भुवि-धरती पर। सम्भवः-अच्छा निवास होता है।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *