Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः

We have given detailed NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः Questions and Answers come in handy for quickly completing your homework.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः

इदानीं यावत् भवद्भिः संस्कृतभाषायाः वर्णानां ज्ञानं तु प्राप्तमेव। अतः सर्वप्रथमं वयमेतेषां संयोजनविच्छेदयोः अभ्यासं कुर्मः
तद्यथा-
व् + अ + र् + ण् + अ + व् + इ + च् + आ + र् + अः – वर्णविचारः
क् + आ + र + य् + अ + द् + अ + क् + ष् + त् + आ – कार्यदक्षता
प् + र् + इ + य् + अ + व् + आ + द + इ + त् + आ – प्रियवादिता
ज् + ञ् + आ + न् + अ + प् + र् + आ + प् + त् + इ: – ज्ञानप्राप्तिः

प्रश्न 1.
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 1
उत्तराणि:
(i) स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – सूक्तिसौरभम्
(ii) प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: – प्रत्याहारः
(iii) अ + न् + उ + द् + आ + त् + त् + अः – अनुदात्तः
(iv) इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् – इक्षुदण्डम्
(v) म् + अ + ञ् + ज् + ऊ + ष् + आ – मञ्जूषा
(vi) ज् + ञ् + आ + न् + ए + च + छ् + उः – ज्ञानेच्छु

अधुना वर्णविच्छेदस्य अभ्यासं कुर्मः
धनञ्जयः – ध् + अ + न् + अ + ञ् + ज् + अ + य् + अ:
प्रयच्छति – प् + उ + अ + य् + अ + च + छ + अ + त् + इ
स्वार्थान्ध – स् + व् + आ + र् + थ् + आ + न् + ध् + अः

चिरञ्जीवः – च् + इ + र् + अ + ञ् + ज् + ई + व् + अः

प्रश्न 2.
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 2
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 3
उत्तराणि:
(i) विद्यालयः – व् + इ + द + य् + आ + ल् + अ + य् + अः
(ii) पुत्रप्रीत्या – प् + उ + त् + र् + अ + प् + र् + ई + त् + य् + आ

(iii) आज्ञापयति – आ + ज् + ञ् + आ + प् + अ + य् + अ + त् + इ
(iv) प्रभृति – प् + र् + अ + भ् + ऋ + त् + इ
(v) प्रतीक्षा – प् + र् + अ + त् + ई + क् + ष् + आ
(vi) अश्रद्धेयम् – अ + श् + र् + अ + द् + ध् + ए + य् + अ + म्
(vii) सुरक्षितम् – स् + उ + र् + अ + क् + ष + इ + त् + अ + म्

अत्र वयं पश्यामः यत् स्वर-व्यञ्जनानां संयोजनेन शब्दनिर्माणं भवति। अत्र एतदपि ध्यातव्यं यत्-
‘स्वयं राजन्ते इति स्वराः’
अर्थात् स्वराणाम् उच्चारणाय अन्यवर्णस्य आवश्यकता न भवति परं व्यञ्जनानाम् उच्चारणाय स्वराः सदैव अपेक्ष्यन्ते।
स्वराणामपरं नाम अस्ति अच् इति।
व्यञ्जनानां चापरं नाम अस्ति हल् इति।
स्वरेण विरहितस्य व्यञ्जनवर्णस्य लेखनाय हलन्तचिह्नम् (्) इति प्रयुज्यते। अत्र वर्णविन्यासं कर्तुं सदैव ध्यातव्यं यत् किमप व्यञ्जनवर्णं हलन्तचिह्नन विना न लेखनीयम्। किं भवन्तः जानन्ति यत् सर्वेषाम् वर्णानाम् उच्चारणाय मुखे विशिष्टस्थानं वर्तते।
मयंकः – मोहन! इति उच्चारणक्रमे ‘म’ इति वर्णस्य उच्चारणे ओष्ठः अपरम् ओष्ठं स्पृशति परं ‘ह’, ‘न’ इति पदयोः उच्चारणे ओष्ठः न स्पृश्यते इति एतदनुभूयते। अध्यापिका – आम्। यतः हकारस्य उच्चारणस्थानं कण्ठः नकारस्य च दन्ताः।

तन्वी – आम्। मम नाम्नि अपि तरकारस्य उच्चारणे जिह्वा दन्तान् स्पृशति।

शान्तिः – आम्। मम नाम्नि अपि शकारस्य उच्चारणं तालुना, परं नकारतकारयोः उच्चारणं मुखस्य सहायतया भवति (सर्वे छात्राः शिक्षिका प्रति) महोदये! एतत् तु न कदापि विचारितम् यत् कथमस्माकं जिह्वा जानाति यत् कस्य वर्णस्य उच्चारणं मुखस्य केन भागेन कर्तव्यम्।
शिक्षकः (विहस्य) एतत् तु अतीव वैज्ञानिकं रहस्यम् यं ज्ञात्वा वयं सकार-शकार-षकार इति वर्णानाम् उच्चारणे अवबोधने च त्रुटिकर्तृन् बोधयितुं क्षमाः उच्चारणदोषं च मार्जयितुमपि समर्थाः। अधुना उच्चारणस्थानानाम् अभ्यासं कुर्मः।

प्रश्न 1.
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 4
उत्तराणि:
(i) ट् मूर्धा ओ कण्ठोष्ठाः य् तालुः ण् मूर्धा / नासिका
(ii) थ् दन्ताः ज् तालुः ग् कण्ठः उ ओष्ठौ
(iii) ए कण्ठतालुः, न् दन्ताः / नासिका, ऋ मूर्धा व् दन्तोष्ठाः

प्रश्न 2.
एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-

च्, ल्, ए, म्, आ, ष्, य, उ
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 5

प्रश्न 3.
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 6
उत्तराणि:
(i) ओष्ठ्यः – उ, प् दन्तयः – लु, स्
(ii) तालव्यः – इ, य् कण्ड्यः – आ, क्
(iii) कण्ठोष्ठ्यः – ओ, औ नासिक्यः – ङ्, म्

प्रश्न 4.
प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-

(i) जाड्यम् – (मूर्धन्यवर्णः)
(ii) वर्तते – (दन्तोष्ठ्य)
(iii) स्वीकरोतु – (तालव्यवर्णः)
(iv) विहितम् – (कण्ठ्यवर्णः)
(v) प्रतिज्ञा – (ओष्ठ्यवर्ण:)
(vi) उत्थाय – (दन्त्यवर्ण:)
(vii) पाषाणतले – (ओष्ठ्य वर्ण:)
(viii) प्राणिनाम् – (नासिक्यवर्ण:)
(ix) आश्रमे – (कण्ठतालव्यः)
(x) लतासु – (दन्त्यवर्ण:)
उत्तराणि:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 7

प्रश्न 5.
वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-

(i) अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)
(ii) इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
(iii) ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
(iv) लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
(v) उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
(vi) ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
(vii) एदैतोः कण्ठतालु। (ए, ऐ)
(viii) ओदौतोः कण्ठोष्ठम्। (ओ, औ)
(ix) वकारस्य दन्तोष्ठम्। (व)
(x) नासिकाऽनुस्वारस्य। (अनुस्वार)

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *