Skip to content

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 2 स्वर्णकाकः

Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 11-13)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) माता काम् आदिश?
(ख) स्वर्णकाकः कान् अखाद?
(ग) प्रासादः कीदृशः वर्तते?
(घ) गृहमागत्य तया का समुद्घाटिता?
(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?
उत्तर:
(क) पुत्रीम्
(ख) ताण्डुलान्
(ग) स्वर्णमयः
(घ) मञ्जूषा
(ङ) बृहत्तमाम्

(अ) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
(ख) बालिकया पूर्वं कीदृशः काकः न दृष्टः आसीत्?
(ग) निर्धनायाः दुहिता मञ्जूषायां कानि अपश्यत्?
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्।
उत्तर:
(क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
(ख) बालिकया पूर्वं स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
(ग) निर्धनायाः दुहिता मञ्जूषां महार्हाणि हीरकाणि अपश्यत्।
(घ) बालिका वृक्षस्योपरि स्वर्णमयम् प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(ङ) गर्विता बालिका स्वर्णमयं सोपानम् अयाचत् परम् ताम्रमयं सोपानम् च प्राप्नोत्।

प्रश्न: 2.
(क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत
(i) पश्चात् — …………..
(ii) हसितुम् — …………..
(iii) अधः — …………..
(iv) श्वेतः — …………..
(v) सूर्यास्तः — …………..
(vi) सुप्तः — …………..
उत्तर:
शब्दः — विलोमपदम्
(i) पश्चात् — पूर्वम्
(ii) हसितुम् — रोदितुम्
(iii) अधः — उपरि
(iv) श्वेतः — कृष्णः
(v) सूर्यास्तः — सूर्योदयः
(vi) सुप्तः — प्रबुद्धः

(ख) सन्धिं कुरुत
(i) नि + अवसत् — ………………….
(ii) सूर्य + उदयः — ………………….
(iii) वृक्षस्य + उपरि — ………………….
(iv) हि + अकारयत् — ………………….
(v) च + एकाकिनी — ………………….
(vi) इति + उक्त्वा — ………………….
(vii) प्रति + अवदत् — ………………….
(viii) प्र + उक्तम् — ………………….
(ix) अत्र + एव — ………………….
(x) तत्र + उपस्थिता — ………………….
(xi) यथा + इच्छम्– ………………….
उत्तर:
सन्धि-विच्छेद — सन्धियुक्ताः शब्दाः
(i) नि + अवसत् — न्यवसत्
(ii) सूर्य + उदयः — सूर्योदयः
(iii) वृक्षस्य + उपरि — वृक्षस्योपरि
(iv) हि + अकारयत — ह्यकारयत्
(v) च + एकाकिनी — चैकाकिनी
(vi) इति + उक्त्वा — इत्युक्त्वा
(vii) प्रति + अवदत् — प्रत्यवदत्
(viii) प्र + उक्तम् — प्रोक्तम्
(ix) अत्र + एव — अत्रैव
(x) तत्र + उपस्थिता — तत्रोपस्थिता
(xi) यथा + इच्छम् — यथेच्छम्

प्रश्न: 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) ग्रामे निर्धना स्त्री अवसत्।
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
(घ) बालिका निर्धनमातुः दुहिता आसीत्।।
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
उत्तर:
(क) ग्रामे का अवसत्?
(ख) कम् निवारयन्ती बालिका प्रार्थयत्?
(ग) कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
(घ) बालिका कस्याः दुहिता आसीत्?
(ङ) लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?

प्रश्न: 4.
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत)
(क) वि + लोकृ + ल्यप्
(ख) नि + क्षिप् + ल्यप्
(ग) आ + गम् + ल्यप्
(घ) दृश् + क्त्वा
(ङ) शी + क्त्वा
(च) लघु + तमप्
उत्तर:
प्रकृति + प्रत्ययः — संयोग
(क) वि + लोक + ल्यप् — विलोक्य
(ख) नि + क्षिप् + ल्यप् — निक्षिप्य
(ग) आ + गम् + ल्यप् –आगत्य
(घ) दृश् + क्त्वा — दृष्ट्वा
(ङ) शी + क्त्वा — शयित्वा
(च) लघु + तमप् — लघुतमः

प्रश्नः 5.
प्रकृतिप्रत्यय-विभागं कुरुत
(क) रोदितुम् — …………
(ख) दृष्ट्वा — …………
(ग) विलोक्य — …………
(घ) निक्षिप्य — …………
(ङ) आगत्य — …………
(च) शयित्वा — …………
(छ) लघुतमम् — …………
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 2
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 3

प्रश्न: 6.
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 4
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 5

प्रश्न: 7.
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत
यथा-मूषकः बिलाद् बहिः निर्गच्छति। (बिल)
(क) जनः ………………….. बहिः आगच्छति। (ग्राम)
(ख) नद्यः ……………… निस्सरन्ति। (पर्वत)
(ग) …………………….. पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः …….. …………. विभेति। (सिंह)
(ङ) ईश्वरः ………………. त्रायते। (क्लेश)
(च) प्रभुः भक्तं ……………….. निवारयति। (पाप)
उत्तर:
(क) जनः ग्रामात् बहिः आगच्छति।
(ख) नद्यः पर्वतेभ्यः निस्सरन्ति।
(ग) वृक्षात् पत्राणि पतन्ति।
(घ) बालकः सिंहात् बिभेति।
(ङ) ईश्वरः क्लेशात् त्रायते।
(च) प्रभुः भक्तं पापात् निवारयति।

Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम् |

अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामादबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 6

प्रश्नाः
I. एकपदेन उत्तरत
(i) कः तण्डुलमूल्यं दास्यति?
(ii) स्वर्णकाकः कया न पूर्वं दृष्टः?
उत्तर:
(i) स्वर्णकाकः
(ii) बालिकया

II. पूर्णवाक्येन उत्तरत
बालिका किमर्थं रोदितुम् आरब्धा?
उत्तर:
काकं तण्डुलान् खादन्तं हसन्तम् च विलोक्य बालिका रोदितुम् आरब्धा।

III. प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत
(i) ‘तं तण्डुलान् खादन्तं…।’ अत्र ‘तं’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) स्वर्णं
(ख) वृद्धायै
(ग) बालिकायै
(घ) काकाय
उत्तर:
(घ) काकाय

(ii) ‘प्रार्थयत्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) काकः
(ग) बालिका
(घ) तं
उत्तर:
(क) सा

(iii) ‘स्वर्णपक्षः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) बालिका
(ख) वृद्धा
(ग) काकः
(घ) माता
उत्तर:
(ग) काकः

(iv) ‘हसितुम्’ इति पदस्य विलोमपदं किम्?
(क) रोदितुम्
(ख) रोदी
(ग) दृष्टः
(घ) हसन्तम्
उत्तर:
(क) रोदितुम्

(ख) चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः अवदत्-“पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्?” बालिका अवदत्-ताम्रस्थाल्याम् एव अहं- “निर्धना भोजनं करिष्यामि।” तदा सा आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं “परिवेषितम्।” न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽवदत्-बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः “त्वं शीघ्रमेव स्वगृहं गच्छ।”

प्रश्ना :
I. एकपदेन उत्तरत
(i) कस्याः माता एकाकिनी वर्तते?
(ii) का स्वादु भोजनम् खादितवती?
उत्तर:
(i) बालिकायाः
(ii) बालिका

II. पूर्णवावधेन उत्तरत
बालिका भवने किमर्थं विस्मयं गता?
उत्तर:
चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा बालिका विस्मयं गता।

III. निर्देशानुसारं शुद्धम् उत्तर:प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘विलोक्य’ इति पदस्य कः अर्थः?
(क) अभ्रमत्
(ख) अकथयत्
(ग) दृष्ट्वा
(घ) गत्वा
उत्तर:
(ग) दृष्ट्वा

(ii) ‘करिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) काकः
(ग) बालिका
(घ) निर्धना
उत्तर:
(क) अहम्

(iii) ‘त्वं शीघ्रमेव गृहं गच्छ।’ अत्र ‘त्वं’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) काकाय
(ख) बालिकायै
(ग) वृद्धायै
(घ) बालिकाय
उत्तर:
(ख) बालिकायै

(iv) ‘धनिका’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) निर्धना
(ख) गता
(ग) श्रान्तां
(घ) सर्वदा
उत्तर:
(क) निर्धना

(ग) तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत्-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्-“स्वर्णमयेन सोपानेन अहम् आगच्छामि” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 7

प्रश्ना :
I. एकपदेन उत्तरत
(i) काकः गर्वितबालिकायै कीदृशम् सोपानम् प्रायच्छत्?
(ii) अपरा वृद्धा कीदृशी आसीत्?
उत्तर:
(i) ताम्रमयं
(ii) लुब्धा

II. पूर्णवाक्येन उत्तरत
बालिका काकं निर्भर्त्सयन्ती किम् प्रावोचत्?
उत्तर:
काकं निर्भर्त्सयन्ती बालिका प्रावोचत्-“भो नीचकाक! अहम् आगता। मह्यं तण्डुलमूल्यं प्रयच्छ।

III. निर्देशानुसारं उचितं उत्तर:विकल्पेभ्यः चित्वा लिखत
(i) ‘अकारयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तां
(ख) स्वर्णकाकः
(ग) भोजनम्
(घ) ताम्रभाजने
उत्तर:
(ख) स्वर्णकाकः

(ii) ‘अहम् त्वत्कृते…।’ अस्मिन् वाक्ये ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकम्
(ख) बालिकायै
(ग) वृद्धायै
(घ) स्वर्णकाकाय
उत्तर:
(घ) स्वर्णकाकाय

(iii) ‘बालिकया’ इति पदस्य विशेषणपदं किम्?
(क) गर्वितया
(ख) प्रोक्तम्
(ग) अपरा
(घ) स्वर्णमयेन
उत्तर:
(क) गर्वितया

(iv) ‘वायसः’ इति पदस्य पर्यायः कः?
(क) पुत्री
(ख) माता
(ग) वृद्धा
(घ) काकः
उत्तर:
(घ) काकः

II. अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् उत्तराणि

(i) ग्रामे निर्धना वृद्धा न्यवसत्।
(ii) सूर्यातपे तण्डुलान् खगेभ्यो रक्षा
(ii) माता पुत्रीम् आदिदेश।
(iv) स्वर्णकाकः तया पूर्वं न दृष्टः।
(v) ग्रामात् बहिः पिप्पलवृक्षः आसीत्।
(vi) वृक्षस्य उपरि स्वर्णमयः प्रासादः वर्तते।
(vii) बालिकया लोभस्य फलं प्राप्तम्।
(viii) बालिका स्वर्णभवनं आरोहत।
(ix) काकेन तिस्रः मञ्जूषाः समुत्क्षिप्ताः।
(x) प्रहर्षिता बालिका निद्राम् अपि न लेभे।
प्रश्नाः
(i) ग्रामे कीदृशी वृद्धा न्यवसत्?
(ii) सूर्यातपे तण्डुलान् केभ्यः रक्ष?
(iii) माता काम् आदिदेश?
(iv) स्वर्णकाकः कया पूर्वं न दृष्टः?
(v) कस्मात् बहिः पिप्पलवृक्षः आसीत्?
(vi) कस्य उपरि स्वर्णमयः प्रासादः वर्तते?
(vii) कया लोभस्य फलं प्राप्तम्?
(viii) बालिका कुत्र आरोहत?
(ix) काकेन कति मञ्जूषाः समुत्क्षिप्ताः?
(x) प्रहर्षिता बालिका काम् अपि न लेभे?

III. कथाक्रमसंयोजनम्

घटनाक्रमानुसार अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिदेश।
(ii) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
(iii) तस्याः एका दुहिता विनम्रा मनोहरा चासीत्।
(iv) सूर्योदयात्प्राग् ग्रामाद् बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्।
(v) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः।
(vi) स्वर्णपक्षः काकः प्रोवाच, मा शुचः।
(vii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।
(viii) तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा।
उत्तर:
(i) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
(ii) तस्याः एका दुहिता विनम्रा मनोहरा चासीत्।
(iii) एकदा माता स्थाल्यां तुण्डलान् निक्षिप्य पुत्रीम् आदिदेश।
(iv) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्व दृष्टः।
(v) तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा।
(vi) स्वर्णपक्षः काकः प्रोवाच, मा शुचः।
(vii) सूर्योदयात्प्राग् ग्रामाद् बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्।
(viii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।

IV. प्रसङ्गानुकूलम् उचितार्थम्

I. रेखांकितपदानाम् प्रसङ्गानुसार शुद्धं अर्थं चित्वा लिखत

(i) वृद्धायाः दुहिता विनम्रा आसीत्। ..
(क) पुत्री
(ख) पुत्र
(ग) दुग्धं
(घ) धेनुः
उत्तर:
(क) पुत्री

(ii) सूर्यातपे तण्डुलान् खगेभ्यः रक्षा
(क) चणकान्
(ख) ओदनं
(ग) अक्षतान्
(घ) शाकान्
उत्तर:
(ग) अक्षतान्

(iii) तत्र स्वर्णमयः प्रासादः आसीत्।
(क) भवनम्
(ख) मिष्ठान्नम्
(ग) प्रसाद
(घ) प्राप्तम्।
उत्तर:
(क) भवनम्

(iv) काकेन गवाक्षात् कथितम्।
(क) ग्रामात्
(ख) कक्षात्
(ग) वातायनात्
(घ) भवनात्
उत्तर:
(ग) वातायनात्

(v) बालिकां विलोक्य काकः प्राह।
(क) उवाच
(ख) अहसत्
(ग) प्राप्नोत्
(घ) प्राप्तम्
उत्तर:
(क) उवाच

(vi) यथेच्छ एकाम् मञ्जूषां गृहाण।
(क) गृहाणि
(ख) ग्रहणं कुरु
(ग) गुहां
(घ) गृहम्
उत्तर:
(ख) ग्रहणं कुरु

V. पर्यायपदानि/विलोमपदानि
प्रश्न 1.
अधोलिखितपदानां पर्यायपदानि लिखत
दुहिता, स्त्री, प्रासादः, खगः
उत्तर:
दुहिता — सुता, तनुजा, पुत्री।
स्त्री — महिला, ललना, नारी।
प्रासाद: — राजभवनः, महलः हर्म्यम्।
खगः — पक्षी, खेचरः, विहगः।

प्रश्न 2.
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां विलोमपदानि दत्तानि। तानि चित्वा पदानां समक्षं लिखत
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) धनिका — अधः
(ख) पुरा — सुप्तः
(ग) प्रबुद्धः — निर्धना
(घ) उपरि — पश्चात्
(ङ) श्वेतः — कृष्णः
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) धनिका — निर्धना
(ख) पुरा — पश्चात्
(ग) प्रबुद्धः — सुप्तः
(घ) उपरि — अधः
(ङ) श्वेतः — कृष्णः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *