NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 3 गोदोहनम्

Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 23-24)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
(ग) कुम्भकारः घटान् किमर्थं रचयति?
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तर:
(क) काशीविश्वनाथमन्दिरं
(ख) त्रिंशत् सेटकपरिमितम्
(ग) जीविकाहेतोः
(घ) मोदकानि
(ङ) चन्दनः

प्रश्न: 2.
पूर्णवाक्येन उत्तरं लिखत
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
(ख) कालः कस्य रसं पिबति?
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
(घ) मल्लिकया किं दृष्टा धेनौः ताडनस्य वास्तविकं कारणं ज्ञातम्?
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत?
उत्तर:
(क) मल्लिका चन्दनः च मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवां एव अकुरुताम्।
(ख) क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तत् रसं कालः पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुम् प्रयतते तदा कुम्भकारः वदति, “नाहं पापकर्म करोमि। त्वाम् आभूषणविहीनां कर्तुम् न इच्छामि, नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।”
(घ) मासपर्यन्तं दोहनं न कृतम् अतएव दुग्धं शुष्कं जातम्। दुग्धहीना धेनुः पीडम् अनुभवति। एतत् दृष्ट्वा मल्लिकया धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।
(ङ) चन्दनस्य बहुधनलोभः एव मासपर्यन्तं अदोहनस्य कारणम् आसीत्।

प्रश्न: 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तर:
(क) मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) कानि पूजानिमितानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) का पादाभ्याम् ताडयित्वा चन्दनं रक्तरञ्जितं करोति?

प्रश्न: 4.
मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।
यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति …………….. विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं …………….. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ……………. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् …………… भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न …….. एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ……………. आसीत्।
उत्तर:
धर्मयात्रायाः
गृहव्यवस्थायै
मङ्गलकामनाम्
कल्याणकारिणः
उत्पादयेत्
समर्थकः

प्रश्नः 5.
घटनाक्रमानुसारं लिखत
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तर:
(क) मल्लिका पूजार्थं मोदकानि रचयति।
(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुम् मासपर्यन्तं दोहनं न करोति।
(ङ) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(च) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

प्रश्न: 6.
अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 1
उत्तर:
कः/का — कं/काम्
(क) उमा — चन्दनम्
(ख) चन्दनः — उमाम्
(ग) चन्दनः — देवेशम्
(घ) देवेशः — मल्लिकाम्
(ङ) चन्दनः — मल्लिकाम्

प्रश्नः 7.
पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत
(क) शिवास्ते = …………. + ………….
(ख) मनः हरः = …………. + ………….
(ग) सप्ताहान्ते = …………. + ………….
(घ) नेच्छामि = …………. + ………….
(ङ) अत्युत्तमः = …………. + ………….
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 2

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत
(क) करणीयम् = ……… + …..
(ख) वि+की+ल्यप = ………
(ग) पठितम् = ……… + …..
(घ) ताडय्+क्त्वा = ………
(ङ) दोग्धुम् = ……… + …..
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 3

Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम्

अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
(क) (मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति)

(ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।)

चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका – (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि।
चन्दनः – किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?
मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।
चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।
मल्लिका – भो! अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।
चन्दनः – सखिभिः सह! न मया सह! (विषादं नाटयति)।
मल्लिका – आम्! चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्था, धेनो: दुग्धदोहनव्यवस्थाञ्च परिपालय।

प्रश्नाः
I. एकपदेन उत्तरत
(i) धर्मयात्रायै का गमिष्यति?
(ii) सुगन्धः कीदृशः अस्ति?
उत्तर:
(i) मल्लिका
(ii) मनोहरः

II. पूर्णवाक्येन उत्तरत
(i) मल्लिका कथम् शिवस्तुतिं करोति?
(ii) मल्लिकया सह का-का गमिष्यन्ति?
उत्तर:
(i) मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति।
(ii) मल्लिकया सह चम्पा, गौरी, माया, मोहनी, कपिलाद्याः सर्वाः गमिष्यन्ति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘न मया सह’ अत्र वाक्यांशे ‘मया’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चन्दनस्य
(ख) चन्दनाय
(ग) चन्दनः
(घ) चन्दनम्
उत्तर:
(ख) चन्दनाय

(ii) ‘मोदकानि’ इति पदस्य विशेषणपदं किम्?
(क) हस्तनिर्मितानि
(ख) परम्
(ग) इदम्
(घ) जिह्वा
उत्तर:
(क) हस्तनिर्मितानि

(iii) ‘प्रविशति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) प्रसन्नमना
(ख) चन्दनः
(ग) मोदकगन्धम्
(घ) अनुभवन्
उत्तर:
(ख) चन्दनः

(iv) ‘असमर्थः’ इति पदस्य पर्यायपदम् किम्?
(क) अक्षमः
(ख) तर्हि
(ग) विषादम्
(घ) विरम उत्तराणि
उत्तर:
(क) अक्षमः

(ख) चन्दन: – अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।
चन्दनः – मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति)
उमा – मातुलानि! मातुलानि!
चन्दनः – उमे! अहं तु मातुलः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय! किं ते प्रियं करवाणि?
उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशत-सेटकमितं
दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।
चन्दनः – (प्रसन्नमनसा) त्रिशत-सेटककपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।
उमा – धन्यवादः मातुल! याम्यधुना। (सा निर्गता)
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 4

प्रश्नाः
I. एकपदेन उत्तरत
(i) कस्याः पन्थानः शिवाः सन्तु?
(ii) कस्याः मातुलानि गङ्गास्नानार्थं काशीं गता?
उत्तर:
(i) मल्लिकायाः
(ii) उमायाः

II. पूर्णवाक्येन उत्तरत
(i) दुग्धदोहनं कृत्वा चन्दनः किम् करिष्यति?
(ii) महोत्सवः कदा कुत्र च भविष्यति?
उत्तर:
(i) दुग्धदोहनं कृत्वा चन्दनः स्वप्रातराशस्य प्रबन्धं करिष्यति।
(ii) पितामहस्य गृहे मासान्तरम् महोत्सवः भविष्यति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘गच्छामि’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) अधुना
(ख) यामि
(ग) निर्गता
(घ) अपेक्षते।
उत्तर:
(ख) यामि

(ii) ‘परिपालयिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) चन्दनः
(ग) सर्वम्
(घ) सर्वमपि
उत्तर:
(क) अहम्

(iii) ‘किं ते प्रियं करवाणि’ अत्र ‘ते’ सर्वनाम पदं कस्यै प्रयुक्तम्?
(क) उमा
(ख) मल्लिका
(ग) उमायै
(घ) चन्दनाय
उत्तर:
(ग) उमायै

(iv) ‘आगता’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) गता
(ख) अस्ति
(ग) सन्तु
(घ) भव
उत्तर:
(क) गता

(ग) कुम्भकारः- (घटरचनायां लीनः गायति)
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गरं सर्वं यथैष मृत्तिकाघटः।
चन्दनः – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि?
देवेश – कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि।
चन्दनः – साधु! परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।
देवेशः – क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि।
मल्लिका – (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।
देवेशः – पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
उभौ – धन्योऽसि तात! धन्योऽसि।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 5

प्रश्नाः
I. एकपदेन उत्तरत
(i) कुम्भकारः किमर्थं घटान् रचयति?
(ii) जीवन कीदृशं भवति?
उत्तर:
(i) जीविकाहेतोः
(ii) भगुरं

II. पूर्णवाक्येन उत्तरत
(i) किम् ज्ञात्वा कुम्भकारः घटान् रचयति?
(ii) घटमूल्यार्थं मल्लिका कस्मै किम् दातुम् इच्छति।
उत्तर:
(i) यथा मृत्तिकाघटः तथा एव सर्वं जीवनं भगुरम् अस्ति एतत् ज्ञात्वा अपि कुम्भकारः जीविकाहेतोः घटान् रचयति।
(ii) घटमूल्यार्थम् मल्लिका कुम्भकाराय स्वाभूषणं दातुम् इच्छति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘नाहं पापकर्म करोमि” अत्र ‘करोमि’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) नाहं
(ख) पाप
(ग) कर्म
(घ) अहम्
उत्तर:
(घ) अहम्

(ii) ‘त्वाम्’ इति सर्वनामपदम् कस्यै प्रयुक्तम्?
(क) मल्लिकायै
(ख) मल्लिका
(ग) उमायै
(घ) चन्दनाय
उत्तर:
(क) मल्लिकायै

(iii) ‘ग्रहीतुम्’ इति पदस्य विपरीतार्थकम् पदं किम्? ।
(क) क्षम्यतां
(ख) दातुम्
(ग) दास्यसि
(घ) हेतोः
उत्तर:
(ख) दातुम्

(iv) ‘चेत्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) यदि
(ख) तर्हि
(ग) परं
(घ) विना
उत्तर:
(क) यदि

(घ) (मासानन्तरं सन्ध्याकालः। एकत्र रिक्ताः नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः)
चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ।
मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्।
चन्दनः – (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दनश्च पात्रेण सह पतति) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति)(नन्दिनी चं पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति) हा! हतोऽस्मि। (चीत्कारं कुर्वन् पतति) (सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति)
मल्लिका – (चीत्कारं श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं रक्तरञ्जितः?
चन्दनः – धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्।
(मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु, धेनुः दुग्धहीना एव इति अवगच्छति।)

प्रश्नाः
I. एकपदेन उत्तरत
(i) धेनोः नाम किम् अस्ति?
(ii) पात्रेण सह कः पतति?
उत्तर:
(i) नन्दिनी
(ii) चन्दनः

II. पूर्णवाक्येन उत्तरत
(i) मल्लिका कथम् दोग्धुम् प्रयतते?
(ii) चन्दनः किम् कृत्वा मल्लिकाम् आह्वयति?
उत्तर:
(i) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(ii) धेनुम् प्रणम्य मङ्गलाचरणं च विधाय चन्दनः मल्लिकाम् आह्वयति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘ग्रामवासिनः’ इति पदस्य विशेषणपदं किम्?
(क) अन्ये
(ख) दुग्धक्रेतारः
(ग) अपरत्र
(घ) आसीनाः
उत्तर:
(क) अन्ये

(ii) ‘पश्यन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) चन्दनम्
(ख) अन्योन्यं
(ग) सर्वे
(घ) आश्चर्येण
उत्तर:
(ग) सर्वे

(iii) ‘शीघ्रम्’ इति पदस्य समानार्थकम् पदं किम्?
(क) झटिति
(ख) चीत्कारं
(ग) कुर्वन्
(घ) पुनः पुनः
उत्तर:
(क) झटिति

(iv) ‘त्वं रक्तरञ्जितः’ अत्र ‘त्वं’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चन्दनः
(ख) चन्दनाय
(ग) मल्लिकायै
(घ) उमायै
उत्तर:
(ख) चन्दनाय

II. प्रश्ननिर्माणम्

अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि
(i) प्रसन्नः सः धेनोः बहुसेवां करोति।
(ii) द्वावेव धेनोः सेवायां निरतौ भवतः।
(iii) ग्रामप्रमुखस्य गृहे महोत्सवः भविष्यति।
(iv) मल्लिका तु धर्मयात्रायै गता।
(v) तव मातुलानि तु काशीं गता।
प्रश्ना :
(i) प्रसन्नः सः कस्याः बहुसेवां करोति?
(ii) द्वावेव धेनोः कस्याम् निरतौ भवतः?
(iii) कस्य गृहे महोत्सवः भविष्यति?
(iv) का तु धर्मयात्रायै गता?
(v) तव मातुलानि तु कुत्र गता?

III. ‘क’ अन्वयः

निम्नलिखितश्लोकानाम् अन्वयेषु समुचितपदैः रिक्तपूर्तिः कुरुत

1. कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।
विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्।।

अन्वयः- यत् अद्यतनीयं
(i)……………… तत् अद्यैव (ii)………….. यस्य गतिः (iii) ………….. ध्रुवं (iv) …………..लभते।
उत्तर:
यत् अद्यतनीयं
(i) कार्यं तत् अद्यैव
(ii) विधीयताम्। यस्य गतिः
(iii) विपरीते (अस्ति) सः ध्रुवं

2. सुविचार्य विधातव्यं कार्यं कल्याणकाक्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः।।

अन्वयः- (i)……………… कार्यं (ii)……………… विधातव्यम्। यः (iii)………….. एतत् (iv) …. करोति सः विषीदति।
उत्तर:
(i) कल्याणकाक्षिणा कार्य
(ii) सुविचार्य (एव) विधातव्यम्। यः
(iii) मानवः एतत्
(iv) अविचार्य करोति सः विषीदति।

3. आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्।।

अन्वयः- क्षिप्रम् (i)……………… आदानस्य (ii) कर्तव्यस्य च ……………… (ii) तद्रसं ……………… (iv)………………. पिबति।
उत्तर:
क्षिप्रम् (i) अक्रियमाणस्य आदानस्य
(ii) प्रदानस्य कर्तव्यस्य च
(iii) कर्मणः तद्रसं
(iv) काल: पिबति।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थान् मञ्जूषातः उचितपदानि चित्वा पूरयत
(i) आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥
भावार्थ:-श्लोकस्य भावः अस्ति यत् कोऽपि कार्यम् (i)………….. समये (ii) ………………भवति, तदा (iii) ….. कार्यस्य (iv)……. नश्यति।
मञ्जूषा – आनन्दं, न, उचिते, तस्य
उत्तर:
श्लोकस्यं भावः अस्ति यत् कोऽपि कार्यम् उचिते समये न भवति, तदा तस्य कार्यस्य आनन्दं नश्यति।

(ii) ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भगुरं सर्वं यथैष मृत्तिकाघटः॥
भावार्थ:-कुम्भकारः संसारस्य (i)……………….. जानाति यथा (ii)……………….. घटः नश्यति तथैव मानवस्य जीवनम् अपि (iii)……….अस्ति। अतः सः तु केवलम्
(iv)……….एव घटान् रचयति।
मञ्जूषा- जीविकाहेतोः, नश्वरता, मृत्तिकायाः, क्षणभङ्गुरम्
उत्तर:
कुम्भकारः संसारस्य नश्वरता जानाति यथा मृत्तिकायाः घटः नश्यति तथैव मानवस्य जीवनम् अपि क्षणभङ्गुरम् अस्ति। अतः सः तु केवलम् जीविकाहेतोः एव घटान् रचयति।

(iii) सुविचार्य विधातव्यं कार्यं कल्याणकाक्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः॥
भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् स्वकल्याणं (i)…. मानवः स्वकार्याणि (ii) …………… विचार्य एव कुर्यात्। । यः मानवः अविवेकेन (iii)……………… कार्यं करोति सः जीवने केवलं (iv)……………….. एव आप्नोति।
मञ्जूषा- दुःखम्, इच्छन्, सम्यक्रूपेण, अविचार्य
उत्तर:
अस्य श्लोकस्य भावः अस्ति यत् स्वकल्याणं इच्छन् मानवः स्वकार्याणि सम्यक्पे ण विचार्य एव कुर्यात्। । यः मानवः अविवेकेन अविचार्य कार्यं करोति सः जीवने केवलं

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
(ii) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(iii) यदि अधुनैव मूल्यं आवश्यकं तर्हि गृहाण एतत् आभूषणम्।
(iv) अधुना दुग्धदोहनं विहांय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
(v) दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
(vi) तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि।
(vii) अहम् स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि।
(viii) अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यन्तं दोहनम् न कृतम्।
उत्तरम्
(i) तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपता नियन्त्रयितुम् अक्षमः अस्मि।
(ii) अहम् स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि।
(iii) दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
(iv) अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
(v) यदि अधुनैव मूल्यं आवश्यकं तर्हि गृहाण एतत् आभूषणम्।
(vi) नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
(vii) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(viii) अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यत्तं दोहनं त कृतम्।

V. प्रसङ्गानुकूलम् उचितार्थम्

I. रेखाङ्कितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत
(i) अहम् जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि।
(क) असमर्थः
(ख) आगतः
(ग) आश्चर्यः
(घ) अनवरत
उत्तर:
(क) असमर्थः

(ii) उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।
(क) सहायः
(ख) सम्पूर्णम्
(ग) सम्पूर्णः
(घ) सहायकः
उत्तर:
(ख) सम्पूर्णम्

(iii) मङ्गलाचरणं विधाय चन्दनः मल्लिकाम् आह्वयति।
(क) विधि
(ख) विधाता
(ग) कृत्वा
(घ) कर्तव्यः
उत्तर:
(ग) कृत्वा

(iv) सः ध्रुवं कष्टं लभते।
(क) निश्चितम्
(ख) निश्चयम्
(ग) अनिश्चयम्
(घ) नक्षत्रम्
उत्तर:
(क) निश्चितम्

VI. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
‘क’ स्तम्भे लिखितानां पर्यायपदानि ‘ख’ स्तम्भे लिखितानि सन्ति। तानि यथासमक्ष लिखत
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(i) निरतौ — द्रुतम्
(ii) रिक्ताः — संलग्नौ
(iii) अनुमतिम् — शून्याः
(iv) क्षिप्रम् — आज्ञा
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(i) निरतौ — द्रुतम्
(ii) रिक्ताः — संलग्नौ
(iii) अनुमतिम् — शून्याः
(iv) क्षिप्रम् — आज्ञा

प्रश्न: 2.
अधोलिखितपदानां मञ्जूषात: चित्वा विलोमपदानि लिखत
मञ्जूषा –सरसम्, गता, आगच्छामि, प्रसीदति

पदानि — विलोमपदानि
(i) आगता — …………..
(ii) शुष्कम् — …………..
(iii) यामि — …………..
(iv) विषीदति — …………..
उत्तरम्
पदानि — विलोमपदानि
(i) आगता — गता
(ii) शुष्कम् — सरसम्
(iii) यामि — आगच्छामि
(iv) विषीदति — प्रसीदति

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *