NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 6 भ्रान्तो बालः

Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 42-43)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) कः तन्द्रालुः भवति?
(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत्?
(ग) के मधुसंग्रहव्यग्राः अवभवन्?
(घ) चटकः कया तृणशलाकादिकम् आददाति?
(ङ) चटकः कस्य शाखायां नीड रचयति?
(च) बालकः कीदृशं श्वानं पश्यति?
(छ) श्वानः कीदृशे दिवसे पर्यटति?
उत्तर:
(क) बालकः
(ख) उद्याने
(ग) मधुकराः
(घ) चञ्चवा
(ङ) वटदुमस्य
(च) पलायमानम्
(छ) निदाघदिवसे

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) बालः कदा क्रीडितुं अगच्छत्?
(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?
(ग) मधुकरः बालकस्य आह्वान केन कारणेन तिरस्कृतवान्?
(घ) बालकः कीदृशं चटकम् अपश्यत्?
(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
(च) खिन्नः बालकः श्वानं किम् अकथयत्?
(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?
उत्तर:
(क) बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ख) बालस्य मित्राणि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा अभवन्।
(ग) मधुसंग्रहव्यग्रः मधुकरः बालकस्य आह्वानं तिरस्कृतवान्।
(घ) बालकः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्।
(ङ) “एतत् शुष्कं तृणं त्यज, स्वादूनि भक्ष्यकवलानि ते दास्यामि।” इति बालकः चटकाय क्रीडनार्थं लोभं दत्तवान्।
(च) खिन्नः बालकः श्वानं अकथयत्, “अस्मिन् निदाघदिवसे किं पर्यटसि? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम्। अहम् अपि क्रीडासहायं त्वाम् एव अनुरूपं पश्यामि।”
(छ) भग्नमनोरथः बालः अचिन्तयत्, “अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नः भवति। कोऽपि वृथा कालक्षेपं न सहते। एतेभ्यः नमः यैः मे तन्द्रालुतायाम् कुत्सा समापादिता।”

प्रश्न: 3.
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
उत्तर:
हिंदी भाषया भावार्थ-बालक जब कुत्ते से खेलने के लिए कहता है कि गर्मी में क्यों घूमते हो? मेरे साथ खेलो तो कुत्ता अपने स्वामी के प्रति कर्त्तव्यपरायणता दिखाता हुआ कहता है कि जिस स्वामी के घर में पुत्र के समान मेरा पोषण होता है। उसकी रक्षा करने से मुझे नहीं हटना चाहिए। अपने स्वामी की रक्षा करना मेरा कर्त्तव्य है।

प्रश्न: 4.
“भ्रान्तो बालः” इति कथायाः सारांशं हिंदीभाषया आङ्ग्लभाषया वा लिखत।
उत्तर:
कोई भ्रमित बालक विद्यालय न जाकर खेलने में अपना समय बिताता है। विद्यालय जाते हुए मित्रों को देखकर वह आलसी अकेला ही एक बाग में गया। वहाँ भौंरे को बुलाता है, मधुसंचय में व्यस्त भौरे भी उसका साथ देने से इन्कार कर देते हैं। तो बालक चिड़िया को स्वादिष्ट भोजन का लोभ देता है। घोंसले के निर्माण में व्यस्त चिड़िया और स्वामी की रक्षा करता हुआ कुत्ता भी बालक का साथ नहीं देते। बालक सोचता है कि इस संसार में सभी अपने कार्यों में व्यस्त है। वह भी व्यर्थ समय गँवाना छोड़कर विद्यालय जाता है और महान् विद्वता, प्रसिद्धि और सम्पत्ति प्राप्त करता है।

प्रश्नः 5.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) स्वादूनि भक्ष्यकवलानि ते दास्यामि।
(ख) चटकः स्वकर्मणि व्यग्रः आसीत्।
(ग) कुक्कुरः मानुषाणां मित्रम् अस्ति।
(घ) स महती वैदुषीं लब्धवान्।
(ङ) रक्षानियोगकरणात मया न भ्रष्टव्यम् इति।
उत्तर:
(क) कीदृशानि भक्ष्यकवलानि ते दास्यामि?
(ख) चटकः कस्मिन् व्यग्रः आसीत्?
(ग) कुक्कुरः केषाम् मित्रम् अस्ति?
(घ) सः कीदृशीं लब्धवान्?
(ङ) कस्मात् मया न भ्रष्टव्यम् इति?

प्रश्नः 6.
“एतेभ्यः नमः” इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
उत्तर:
देवेभ्य नमः।
गणेशाय नमः।
मात्रे नमः।
पित्रे नमः।
शिवाय नमः।

प्रश्न: 7.
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत
“क’ स्तम्भ — ‘ख’ स्तम्भ
(क) दृष्टिपथम् — (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः — (2) विद्यायाः व्यसनी
(ग) विद्याव्यसनी — (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् — (4) पुस्तकानां दासाः
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) दृष्टिपथम् — दृष्टेः पन्थाः
(ख) पुस्तकदासाः — पुस्तकानां दासाः
(ग) विद्याव्यसनी — विद्यायाः व्यसनी
(घ) पुष्पोद्यानम् — पुष्पाणाम् उद्यानम्

(अ) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत विशेषणम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः 1
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः 2

परियोजनाकार्यम

(क) एकस्मिन् स्फोरकपत्रे (chart-paper) एकस्य उद्यानस्य चित्र निर्माय संकलय्य वा पञ्चवाक्येषु तस्य वर्णनं कुरुत।
(ख) “परिश्रमस्य महत्त्वम्” इति विषये हिन्दी भाषया आङ्ग्लभाषया वा पञ्चवाक्यानि लिखत।
उत्तर:
(क) उद्यानस्य चित्रवर्णनम्
(i) चित्रे उद्यानस्य दृश्यम् दृश्यते।
(ii) उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(iii) अत्र बालाः कन्दुकेन क्रीडन्ति।
(iv) जनाः अत्र आगत्य व्यायामम् अपि कुर्वन्ति।
(v) क्रीडन्तः बालकाः आनन्दम् अनुभवन्ति।

(ख) परिश्रम का महत्त्व परिश्रम ही मनुष्य की वास्तविक पूजा-अर्चना है। परिश्रम के बिना सफलता प्राप्त नहीं होती। परिश्रमी व्यक्ति अपने कर्म के द्वारा अपनी इच्छाओं की पूर्ति करता है। जीवन में परिश्रम से मनुष्य अपनी तकदीर को भी बदल देता है। संसार में मेहनती मनुष्यों को सम्मान मिलता है। सफलता, समृद्धि और प्रसिद्धि की एकमात्र कुंजी परिश्रम ही है।

Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्रयाम् आधारितम् अवबोधनकार्यम्

अधोलिखित गद्याशान् पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

(क) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्। सः अचिन्तयत्-“विरमन्तु एते वराकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिन एव मम वयस्याः सन्तु इति।

प्रश्ना:
I. एकपदेन उत्तरत
(i) बालः एकाकी एव कुत्र प्राविशत्?
(ii) बालः कीदृशः आसीत्?
उत्तर:
(i) उद्यानम्
(ii) भ्रान्तः

II. पूर्णवाक्येन उत्तरत
बालकस्य वयस्याः किमर्थं त्वरमाणाः अभवन् ?
उत्तर:
बालकस्य वयस्याः पूर्वदिनपाठान् स्मृत्वा विद्यालय-गमनाय त्वरमाणाः अभवन्

III. निर्देशानुसारम् उचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘अगच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भ्रान्तः
(ख) कश्चन्
(ग) बालः
(घ) पाठशाला
उत्तर:
(ग) बालः

(ii) ‘क्रीडाभिः’ इति पदस्य अर्थे किं पदम् प्रयुक्तम्?
(क) केलिभिः
(ख) किमपि
(ग) तन्द्रालु
(घ) क्रीडितुम्
उत्तर:
(क) केलिभिः

(iii) ‘तेन सह केलिभिः ………..’ अत्र ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्।
(क) बालकस्य
(ख) बालाय
(ग) बालः
(घ) मित्राय
उत्तर:
(ख) बालाय

(iv) ‘वराकाः’ इति पदस्य विशेष्यपदं किम्?
(क) अहम्
(ख) पुस्तक
(ग) पुस्तकदासाः
(घ) एते उत्तराणि
उत्तर:
(ग) पुस्तकदासाः

(ख) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत्। तथापि, सः मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत् – “वयं हि मधुसंग्रहव्यग्रा” इति। तदा स बालः ‘अलं भाषणेन अनेन मिथ्यागवितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टि: चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च-“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु “मया वटदुमस्य शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रोः अभवत्।

प्रश्ना:
I. एकपदेन उत्तरत
(i) मधुकरः कस्मिन् व्यग्रः आसीत्?
(ii) बालकः मधुकरं किमर्थं आह्वयत्?
उत्तर:
(i) मधुसंग्रहे
(ii) क्रीडितुम्

II. पूर्णवाक्येन उत्तरत
बालकः चटकाय किम् अकथयत्?
उत्तर:
बालक चटकाय अकथयत्, “मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। त्यज शुष्कमेतत् तृणं स्वादूनि भक्ष्यकवलानि ते दास्यामि।”

III. यथानिर्देशम् उत्तरत
(i) ‘तृणं’ इति पदस्य विशेषणपदं किम्?
(क) स्वादूनि
(ख) शुष्कम्
(ग) त्यज
(घ) भक्ष्य
उत्तर:
(ख) शुष्कम्

(ii) ‘आंगच्छ’ इति पदस्य समानार्थकपदं किम्? ।
(क) एहि
(ख) त्यज
(ग) यामि
(घ) व्रजन्तम्
उत्तर:
(क) एहि

(iii) ‘आह्वयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सः
(ख) मधुकरं
(ग) तं
(घ) अथ
उत्तर:
(क) सः

(iv) ‘वयं’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) मधुकरेभ्यः
(ख) मधुकरं
(ग) मधुकराय
(घ) मधुकरः
उत्तर:
(क) मधुकरेभ्यः

(ग) सर्वैः एवं निषिद्धः स बालो भग्नमनोरथः सन्- ‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति। न कोऽपि मामिव वृथा कालक्षेपं सहते। नम एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।’ ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथां सम्पदं च अलभत।

प्रश्ना :
I. एकपदेन उत्तरत
(i) अस्मिन् जगति प्रत्येकं कस्मिन् निमग्नः भवति?
(ii) सर्वैः निषिद्धः बालकः कीदृशः अभवत्?
उत्तर:
(i) स्व-स्वकृत्ये
(ii) भग्नमनोरथः

II. पूर्णवाक्येन उत्तरत
विद्याव्यसनी भूत्वा सः बालकः किम् लब्धवान्।
उत्तर:
विद्याव्यसनी. भूत्वा सः बालकः महती वैदुषी प्रथाम् सम्पदं च लब्धवान्।

III. निर्देशानुसारम् उत्तरत
(i) ‘घृणा’ इति पदस्य पर्यायपदं किम्?
(क) तन्द्रा
(ख) सम्पदं
(ग) प्रथा
(घ) कुत्सा
उत्तर:
(घ) कुत्सा

(ii) ‘अहम्’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) करोमि
(ख) लेभे
(ग) भवति
(घ) सहते
उत्तर:
(क) करोमि

(iii) ‘कः अपि अहम् इव’ अत्र ‘अहम्’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) बालकाय
(ख) बालकं
(ग) बालकस्य
(घ) बालकः
उत्तर:
(ग) बालकस्य

(iv) ‘प्रेम’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) कुत्सा
(ख) तन्द्रा
(ग) निमग्नः
(घ) त्वरितं
उत्तर:
(क) कुत्सा

(घ) यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥ इति।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः 3

प्रश्नाः
I. एकपदेन उत्तरत
(i) स्वामी कुक्कुरम् कथम् पोषयति?
(ii) रक्षानियोगकारणत् केन न भ्रष्टव्यम्?
उत्तर:
(i) पुत्रप्रीत्या
(ii) कुक्कुरेन

II. पूर्णवाक्येन उत्तरत
इदम् श्लोकं कः कम् कथयति?
उत्तर:
इदम् श्लोकं कुक्कुरः बालकं कथयति।

III. निर्देशानुसारम् उत्तरत
(i) ‘मा’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) बालकस्य
(ख) स्वामिनः
(ग) कुक्कुरस्य
(घ) चटकस्य
उत्तर:
(ग) कुक्कुरस्य

(ii) ‘पतितव्यम्’ इति पदस्य स्थाने किं पदं प्रयुक्तम्?
(क) पुत्रप्रीत्या
(ख) नियोग
(ग) भ्रष्टव्यम्
(घ) ईषदपि
उत्तर:
(ग) भ्रष्टव्यम्

(iii) श्लोके प्रथमे पंक्तौ क्रियापदं किम्?
(क) पुत्रप्रीत्या
(ख) पोषयति
(ग) गृहे
(घ) तस्य
उत्तर:
(ख) पोषयति

(iv) ‘प्रभूतं’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) ईषत्
(ख) मीषद्
(ग) भ्रष्टव्यम्
(घ) नियोग
उत्तर:
(क) ईषत्

II. प्रश्नानमर्माणम्

अधोलिखित कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
‘उत्तराणि
(i) भ्रान्तः बालः क्रीडितुं निष्क्रान्तः।
(ii) बालकस्य मित्राणि विद्यालयगमनाय त्वरमाणाः आसन्।
(iii) पक्षिणः मानुषेषु न उपगच्छन्ति।
(iv) कुक्कुरः मानुषाणां मित्रम् अस्ति।
(v) प्रीतः बालः कुक्कुरम् सम्बोधयामास।
(vi) बालकः पुष्पोद्याने मधुकर अपश्यत्।
प्रश्नाः
(i) भ्रान्तः बालः किमर्थं निष्क्रान्तः?
(ii) कस्य मित्राणि विद्यालयगमनाय त्वरमाणाः आसन्?
(iii) के मानुषेषु न उपगच्छन्ति?
(iv) कुक्कुरः केषाम् मित्रम् अस्ति?
(v) कीदृशः बालः कुक्कुरम् सम्बोधयामास?
(vi) बालकः कुत्र मधुकरं अपश्यत्?

III. ‘क’ अन्वयः

अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानानां पूर्तिं समुचितपदैः कुरुतः
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य। रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।।
अन्वयः-यो (i)……. पुत्रप्रीत्या पोषयति। (ii)……. स्वामिनः गृहे रक्षानियोगकारणत् मया (iii)……………….. अपि (iv)……………… भ्रष्टव्यम्।
उत्तर:
यो (i) मां पुत्रप्रीत्या पोषयति। (ii) तस्य स्वामिनः गृहे रक्षानियोगकारणात् मया (iii) ईषद् अपि (iv) न भ्रष्टव्यम्।

III. ‘ख’ भावार्थः

निम्नलिखितश्लोकस्यः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत
(क) यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।

भावार्थ:-स्वस्वामिनं प्रति कर्त्तव्यनिष्ठा प्रदर्शितः (i)…… भ्रान्तं बालं कथयति यत् तस्य (ii)…………. गृहे पुत्रस्य सदृशं (iii)………… तस्य रक्षणम् एव कुक्कुरस्य परमं . (iv)………………… अस्ति ।
मञ्जूषा- पोषयति, स्वामी, कुक्कुरः, कर्त्तव्यं |
उत्तर:
स्वस्वामिनं प्रति कर्तव्यनिष्ठा प्रदर्शितः कुक्कुरः भ्रान्तं बालं कथयति यत् तस्य स्वामी गृहे पुत्रस्य सदृशं पोषयति तस्य रक्षणम् एव कुक्कुरस्य परमं कर्त्तव्यं अस्ति।

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति।
(ii) ततः प्रभृति सः विद्याव्यसनी भूत्वा महती वैदुषी प्रथां सम्पदं च अलभत।
(iii) अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।
(iv) भ्रान्तः कश्चन् बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(v) तन्द्रालुः बाल: लज्जया तेषाम् दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।
(vi) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
(vii) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीड़ितुम् द्वित्रिवारम् आह्वयत्।
(viii) ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत-“वयं हि मधुसंग्रहव्यग्रा” इति।
उत्तर:
(i) भ्रान्तः कश्चन् बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ii) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
(iii) तन्द्रालुः बालः लज्जया तेषाम् दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।
(iv) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्तिवारम् आह्वयत्।
(v) ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत्-“वयं हि मधुसंग्रहव्यग्रा” इति।
(vi) कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति।
(vii) अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।
(viii) ततः प्रभृति सः विद्याव्यसनी भूत्वा महतीं वैदुषी प्रथा सम्पदं च अलभत।

V. प्रसङ्गानुकूलम् उचितार्थम्

I. रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत
(i) कोऽपि वयस्येषु उपलभ्यमानः न आसीत्।
(क) मित्रेषु
(ख) बालकेषु
(ग) खगेषु
(घ) चटकासु
उत्तर:
(क) मित्रेषु

(ii) तन्द्रालुः बालः उद्यानं प्रविवेश।
(क) अलसः
(ख) सरलः
(ग) सुन्दरः
(घ) उत्तमः
उत्तर:
(क) अलसः

(iii) मधुकरं दृष्ट्वा बालकः तम् आह्वयत्।
(क) मधु
(ख) मक्षिका
(ग) भ्रमरं
(घ) चटकं
उत्तर:
(ग) भ्रमरं

(iv) बालकः पलायमानं श्वानम् अवलोकयत्।
(क) सिंहम्
(ख) मूषकम्
(ग) बिडालम्
(घ) कुक्कुरम्
उत्तर:
(घ) कुक्कुरम्

(v) सर्वैः निषिद्धः बालः भग्नमनोरथः अभवत्।
(क) खण्डितकामः
(ख) पूर्णकामः
(ग) पूर्णमनोरथः
(घ) स्वीकृतः
उत्तर:
(क) खण्डितकामः

VI. पर्यायपदानि/विलोमपदानि

प्रश्नः 1.
अधोलिखितपदानां पर्यायपदानि लिखत
पाठशाला, पुष्पं, उद्यान, मधुकरः
उत्तर:
पाठशाला — विद्यालयः, शिक्षालयः, विद्यापीठः।
पुष्पं — सुमनम्, कुसुमम्, प्रसूनम्।
उद्यानं — वाटिका, उपवनं, कुसुमाकरः
मधुकरः — भ्रमरः, मिलिंदः, अलिः।

प्रश्नः 2.
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां विलोमपदानि दत्तानि। तानि चित्वा पदानां समक्षं लिखत
“क’ स्तम्भः — ‘ख’ स्तम्भः
(क) स्वामिनः — प्रेम
(ख) कुत्सा — भृत्यस्य
(ग) अनुरूपम् — स्वीकृतः
(घ) निषिद्धः — अननुरूपम्
(ङ) शुष्कं — आर्द्रम्
उत्तर:
“क’ स्तम्भः — ‘ख’ स्तम्भः
(क) स्वामिनः — भृत्यस्य
(ख) कुत्सा — प्रेमम्
(ग) अनुरूपम् — अननुरूपम्
(घ) निषिद्धः — स्वीकृतः
(ङ) शुष्कं — आर्द्रम्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *