Skip to content

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 7 प्रत्यभिज्ञानम्

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 51-53)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) क: उमावेषमिवाश्रितः भवति?
(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?
(ग) अस्माकं कुले किमनुचितम्?
(घ) कः दर्पप्रशमनं कर्तुमिच्छति?
(ङ). कः अशस्त्रः आसीत्?
(च) कया गोग्रहणम् अभवत्?
(छ) कः ग्रहणं गतः आसीत्?
उत्तर:
(क) अर्जुनः/बृहन्नला
(ख) बृहन्नलायाः
(ग) आत्मस्तवम्/आत्मप्रशंसा
(घ) राजा
(ङ) भीमसेनः
(छ) सौभद्र:/अभिमन्युः
(च) दिष्ट्या /भाग्येन
(घ) राजा

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) भटः कस्य ग्रहणम् अकरोत्?
(ख) अभिमन्युः कथं गृहीतः आसीत्?
(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
उत्तर:
(क) भटः अभिमन्योः ग्रहणम् अकरोत्।
(ख) अशस्त्रभीमसेनेन रथम् आसाद्य बाहुभ्याम् अभिमन्युः गृहीतः आसीत्।
(ग) अभिमन्युः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति।
(घ) युद्धक्षेत्रे अशस्त्रभीमं दृष्ट्वा अभिमन्युः तम् प्रहारं न करोति भीमसेनः च अभिमन्यु बाहुभ्याम् गृहीतवान्। अतः अभिमन्युः स्वग्रहणे वञ्चितः इव अनुभवति।
(ङ) अभिमन्युः गोग्रहणं सुखान्तं मन्यते यतः अनेन तस्य स्वपितरः दर्शिताः।

प्रश्न: 3.
अधोलिखितवाक्येषु प्रकटितभावं चिनुत
(क) भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
(ख) कथं कथं! अभिमन्यु माहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
(ग) कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
(घ) धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्। (अन्धविश्वासः, शौर्यम्, उत्साहः)
(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
उत्तर:
(क) विस्मयः
(ख) स्वाभिमानः
(ग) क्रोधः
(घ) शौर्यम्
(ङ) आत्मविश्वासः
(च) हर्षः

प्रश्न: 4.
यथास्थानं रिक्तस्थानपूर्तिं कुरुत

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 1
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 2

प्रश्न: 5.
अधोलिखितानि वचनानि कः कं प्रति कथयति यथा- कः के प्रति
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 3
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 4
प्रश्न: 6.
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि
(क) वाचालयतु एनम् आर्यः।
(ख) किमर्थं तेन पदातिना गृहीतः।
(ग) कथं न माम् अभिवादयसि।
(घ) मम तु भुजौ एव प्रहरणम्।
(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि?
उत्तर:
(क) वाचालयतु एनम् आर्यः। — अभिमन्यवे
(ख) किमर्थं तेन पदातिना गृहीतः। — भीमसेनाय
(ग) कथं न माम् अभिवादयसि। — नृपाय
(घ) मम तु भुजौ एव प्रहरणम्। — भीमसेनाय
(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि? — भटाय

प्रश्नः 7.
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत
(क) पार्थं पितरं मातुलं ……… च उद्दिश्य कृतास्त्रस्य तरुणस्य युक्तः ।
(ख) कण्ठश्लिष्टेन ……… जरासन्धं योक्त्रयित्वा तत् असह्यं ……… कृत्वा। (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता ……… रमे। ते क्षेपेण न रुष्यामि, किं ………अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः .. । बाहुभ्याम् आहृतम् (माम्) ……… बाहुभ्याम् एव नेष्यति।
उत्तर:
(क) पार्थं पितरम् मातुलं जनार्दनम् च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहम् नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।

(अ) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत
पदानि — उपसर्गः
यथा- आसाद्य — आ
(क) अवतारितः — …………….
(ख) विभाति — …………….
(ग) अभिभाषय — …………….
(घ) उद्भूताः — …………….
(ङ) उत्सिक्तः — …………….
(च) प्रहरन्ति — …………….
(छ) उपसर्पतु — …………….
(ज) परिरक्षिताः — …………….
(झ) प्रणमति — …………….
उत्तर:
(क) अवतारितः — अव
(ख) विभाति — वि
(ग) अभिभाषय — अभि
(घ) उद्भूताः — उद्
(ङ) उत्सिक्तः — उत्
(च) प्रहरन्ति — प्र
(छ) उपसर्पतु — उप
(ज) परिरक्षिताः — परि
(झ) प्रणमति — प्र

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम् ।

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत
(क) भटः – जयतु महाराजः।
राजा – अपूर्व इव ते हर्षों ब्रूहि केनासि विस्मित:?
भटः – अश्रद्धेयं प्रियं प्राप्त सौभद्रो ग्रहणं गतः।।
राजा – कथमिदानी गृहीतः?
भटः – रथमासाद्य निश्शर्ड्स बाहुभ्यामवतारितः।
राजा – केन?
भटः – यः किल एष नरेन्द्रेण विनियुक्तो महानसे। (अभिमन्युमुद्दिश्य) इत इतः कुमारः।
अभिमन्युः – भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 5

I. एकपदेन उत्तरत
(i) भटः कस्य ग्रहणम् अकरोत्?
(ii) रथम् आसाद्य अभिमन्युः काभ्याम् अवतारितः?
उत्तर:
(i) अभिमन्योः
(ii) बाहुभ्याम्

II. पूर्णवाक्येन उत्तरत
गृहीतः अभिमन्युः किम् अचिन्तयत्?
उत्तर:
गृहीतः अभिमन्युः अचिन्तयत्-“कः खलु एषः। येन भुजैकनियन्त्रितः बलाधिकेनापि न पीडितः अस्मि ”

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘अपूर्व इव ते हर्षः।’ अत्र ‘ते’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) भटाय
(ख) नृपाय
(ग) अभिमन्यवे
(घ) अर्जुनाय
उत्तर:
(क) भटाय

(ii) ‘प्राप्य’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) इतः
(ख) गृहीतः
(ग) आसाद्य
(घ) गतः
उत्तर:
(ग) आसाद्य

(iii) ‘कथमिदानीं गृहीतः’ अत्र क्रियापदं किम्?
(क) कथम्
(ख) इदानीं
(ग) गृहीतः
(घ) मिदानीं
उत्तर:
(ग) गृहीतः

(iv) ‘मुक्तं’ इति पदस्य विपरीतपदं किम्?
(क) ग्रहणं
(ख) विस्मितः
(ग) आसाद्य
(घ) पीडितः
उत्तर:
(क) ग्रहणं

(ख) अभिमन्युः – अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
वल्लभः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो!
अभिमन्युः – अभिमन्युर्नाम?
वल्लभः – रुष्यत्येष मया, त्वमेवैनमभिभाषय।
बृहन्नला – अभिमन्यो!
अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः। किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि
नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवंश गतः। अतएव तिरस्क्रियते।
बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 6

प्रश्ना :
I. एकपदेन उत्तरत
(i) केन अभिमन्युः रुष्यति?
(ii) कुत्र नीचैः अपि नामभिः अभिभाष्यन्ते?
उत्तर:
(i) भीमसेनेन
(ii) विराटनगरे

II. पूर्णवाक्येन उत्तरत
अभिमन्युः बृहन्नलां दृष्ट्वा किम् कथयति?
उत्तर:
अभिमन्युः बृहन्नलां दृष्ट्वा कथयति, “अयम् अपर कः उमावेषम् इव आश्रितः हरः विभाति।”

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्य चित्वा उत्तरत
(i) ‘शोभते’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विभाति
(ख) आश्रितः
(ग) रुष्यति
(घ) आस्ते
उत्तर:
(क) विभाति

(ii) ‘रुष्यति एषः मया’ अत्र ‘मया’ सर्वनामपदम् कस्मै प्रयुक्तम्?
(क) भीमसेनः
(ख) भीमसेनाय
(ग) अभिमन्योः
(घ) अभिमन्येव
उत्तर:
(ख) भीमसेनाय

(iii) ‘सुखमास्ते ते जननी’ अत्र क्रियापदं किम्?
(क) सुखम्
(ख) आस्ते
(ग) ते
(घ) जननी
उत्तर:
(ख) आस्ते

(iv) ‘अनुचितम्’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) बाढ़म्
(ख) प्रकाशम्
(ग) अपवार्य
(घ) अपरः
उत्तर:
(क) बाढ़म्

(ग) अभिमन्युः – कथं कथम्? जननी नाम? किं भवान् मे पिता अथवा पितृव्यः? कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छति?
बृहन्नला – अभिमन्यो! अपि कुशली देवकीपुत्रः केशवः?
अभिमन्युः- कथं कथम्? तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्? (बृहन्नलावल्लभौ परस्परमवलोकयतः)
अभिमन्युः – कथमिदानीं सावज्ञमिव मां हस्यते?
बृहन्नला – न खलु किञ्चित्। प्रश्ना :

I. एकपदेन उत्तरत
(i) सावज्ञमिव कः हसति?
(ii) कौ परस्परम् अवलोकयतः?
उत्तर:
(i) बृहन्नला
(ii) बृहन्नलवल्लभौ

II. पूर्णवाक्येन उत्तरत
बृहन्नला अभिमन्यु किम् पृच्छति?
उत्तर:
बृहन्नला सुभद्रायाः केशवस्य च कुशलक्षेमं पृच्छति।

III. निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘भवान् मे पिता’ अत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) अर्जुनः
(ख) बृहन्नलायै
(ग) अभिमन्युः
(घ) अर्जुनस्य
उत्तर:
(ख) बृहन्नलायै

(ii) ‘माता’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) जननी
(ख) पितृव्यः
(ग) देवकी
(घ) स्त्री
उत्तर:
(क) जननी

(iii) ‘सादरम्’ इति पदस्य विलोमपदं किम्?
(क) सावज्ञम्
(ख) वज्ञम्
(ग) सावज्ञमिव
(घ) कुशली
उत्तर:
(क) सावज्ञम्

(iv) ‘परस्परमवलोकयतः’ अत्र क्रियापदं किम्?
(क) यतः
(ख) परस्परम्
(ग) अवलोकयतः
(घ) लोकयतः
उत्तर:
(ग) अवलोकयतः

(घ) अभिमन्युः – अलं स्वच्छन्दप्रलापेन! अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य, मदृते अन्यत् नाम न भविष्यति।
बृहन्नला – एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः?
अभिमन्युः – अशस्त्रं मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्।
राजा – त्वर्यतां त्वर्यतामभिमन्युः।

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषाम् कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति?
(ii) अभिमन्युः कम् स्मरति?
उत्तर:
(i) पाण्डवानाम्
(ii) स्वपितरम्/अर्जुनम्

II. पूर्णवाक्येन उत्तरत

अभिमन्युः किमर्थम् वञ्चितः इव अनुभवति? निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
उत्तर:
अशस्त्रेषु यौद्धाः न प्रहरन्ति परम् अशस्त्रभीमेन अभिमन्युः गृहीतः। अतः अभिमन्युः स्वयमेव वञ्चितः इव अनुभवति।

(i) ‘अशस्त्रः अयं’ अत्र ‘अयम्’ सर्वनामपदम् कस्मै प्रयुक्तम्?
(क) भीमसेनाय
(ख) अर्जुनाय
(ग) उत्तराय
(घ) अभिमन्यवे
उत्तर:
(क) भीमसेनाय

(ii) ‘गृहीतवान्’ इति पदस्य कर्तृपदं किम्?
(क) अतः
(ख) अयम्
(ग) मां
(घ) अशस्त्रः
उत्तर:
(ख) अयम्

(iii) ‘अहंकारम्’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) आत्मस्तवं
(ख) स्वच्छन्दं
(ग) अनुचितम्
(घ) अन्यत्
उत्तर:
(क) आत्मस्तवं

(iv) ‘अर्जुनं’ इति पदस्य विशेषणपदं किम्?
(क) अशस्त्रं
(ख) पितरम्
(ग) स्मरन्
(घ) माम्
उत्तर:
(ख) पितरम्

(ङ) राजा – एोहि पुत्र! कथं न मामभिवादयसि? (आत्मगतम्) अहो! उत्सिक्तः खल्वयं क्षत्रियकुमारः।
अहमस्य दर्पप्रशमनं करोमि। (प्रकाशम्) अथ केनायं गृहीतः?
भीमसेनः – महाराज! मया।
अभिमन्युः – अशस्त्रेणेत्यभिधीयताम्।
भीमसेनः – शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम तु भुजौ एव प्रहरणम्।
अभिमन्युः – सा तावद् भो:! किं भवान् मध्यमः तातः यः तस्य सदृशं वचः वदति।
भगवान् – पुत्र! कोऽयं मध्यमो नाम?

प्रश्ना :
I. एकपदेन उत्तरत
(i) क्षत्रियकुमारः कीदृशः अस्ति?
(ii) धनुः कैः एव गृह्यते?
उत्तर:
(i) उत्सिक्तः
(ii) दुर्बलैः

II. पूर्णवाक्येन उत्तरत
मध्यमः तातः कः अस्ति?
उत्तर:
मध्यमः तातः भीमसेनः अस्ति।

III. निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘मम तु भुजौ ……..। अत्र मम सर्वनामपदं कस्मै प्रयुक्तम्?
(क) अर्जुनाय
(ख) नृपाय
(ग) भीमसेनाय
(घ) उत्तराय
उत्तर:
(ग) भीमसेनाय

(ii) ‘अहम् अस्य दर्पशमनं करोमि।’ अत्र कर्तृपदं किम्?
(क) अहम्
(ख) अस्य
(ग) करोमि
(घ) राजा
उत्तर:
(क) अहम्

(iii) ‘पुण्यं’ इति पदस्य विलोमपदं किम्?
(क) शान्तं
(ख) पापं
(ग) प्रहरणम्
(घ) शमनं
उत्तर:
(ख) पापं

(iv) ‘आगच्छ’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) गृहीतः
(ख) एहि
(ग) उत्सिक्तः
(घ) प्रकाशम्
उत्तर:
(ख) एहि

II. प्रश्ननिर्माणम्

अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि

(i) सर्वे अभिमन्युम् आलिङ्गन्ति।
(ii) भवान् शङ्काम् व्यपनयतु।
(iii) धनुः तु दुर्बलैः एव गृह्यते।
(iv) अयं. क्षत्रियकुमारः उत्सिक्तः अस्ति।
(v) अशस्त्रः भीमः अभिमन्युम् गृहीतवान्।
(vi) अस्माकं कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति।
प्रश्ना :
(i) के अभिमन्युम् आलिङ्गन्ति?
(ii) कः शङ्काम् व्यपनयतु?
(iii) धनुः तु कैः एव गृह्यतें?
(iv) अयम् क्षत्रियकुमारः कीदृशः अस्ति?
(v) कीदृशः भीमः अभिमन्युम् गृहीतवान्?
(vi) केषाम् कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति?

III. ‘क’ अन्वयः

अधोलिखितश्लोकानाम् अन्वयेषु समुचितपदेन रिक्तस्थानानि पूरयत
(क) योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असा कर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्।।
अन्वयः- कण्ठश्लिष्टेन (i)………………. जरासन्धं (ii)……………….. तत् असह्यं (iii)……………….. कृत्वा (भीमेन) कृष्णः (iv)……….. नीतः।
उत्तर:
कण्ठश्लिष्टेन (i) बाहुना जरासन्धं (ii) योक्त्रयित्वा तत् असह्यं (iii) ……… कर्म कृत्वा (भीमेन) कृष्णः (iv) ……… अतदर्हताम् नीतः।

(ख) न ते क्षेपेण रुष्यामि, रुष्यता भवता रमे।
किमुक्त्वा नापराद्धोऽहं, कथं तिष्ठति यात्विति।।
अन्वयः- रुष्यता (i)………………. रमे। ते (ii)……………….. न रुष्यामि, किम्। (iii)…………………. अहम् नापराद्धः कथं (iv) ……… यातु इति।
उत्तर:
रुष्यता (i) भवता रमे। ते (ii) क्षेपेण न रुष्यामि, किम्। (iii) उक्त्वा (iv) तिष्ठति, यातु इति।

(ग) पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।।
अन्वयः- पादयोः (i)……………….. समुदाचारः (ii)……………….. । बाहुभ्याम् (iii)………………… (माम) बाहुभ्याम् (iv)………………. नेष्यति।
उत्तर:
पादयोः (i) निग्रहोचितः समुदाचारः (ii) क्रियतां । बाहुभ्याम् (iii) आहृतम् (माम्) बाहुभ्याम् (iv) एव नेष्यति।

(घ) न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम्। . दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।।
अन्वयः- क्षिप्ता (i). .. न रुष्यन्ति (it)…. .. च माम् क्षिपन्ति। दिष्ट्या (iii)…….. स्वन्तं येन (iv)………………दर्शिताः।
उत्तर:
क्षिप्ता (i) मया न रुष्यन्ति (ii) हसन्तः च माम् क्षिपन्ति। दिष्ट्या (iii) गोग्रहणं स्वन्तं येन (iv) पितरः दर्शिताः।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

भावार्थ:-गृहीतं क्षुब्धं च अभिमन्यु वीक्ष्य अर्जुनः व्यङ्ग्यात्मकैः (i)……… तम् कथयति यत् तव पिता (ii) ………. मातुलः च (iii)……… शस्त्रविद्यायां निपुणतरुणाय (iv)” ……… पराजयः नोचितः अस्ति।
मञ्जूषा- युद्धे, श्रीकृष्णः, अर्जुनः, वचनैः
उत्तर:
(क) गृहीतं क्षुब्धं च अभिमन्युं वीक्ष्य अर्जुनः व्यङ्ग्यात्मकैः वचनैः तम् कथयति यत् तव पिता अर्जुनः मातुलः च श्रीकृष्णः। शस्त्रविद्यायां निपुणतरुणाय युद्धे पराजयः नोचितः अस्ति।

(ख) ‘मम तु भुजौ एव प्रहरणम्।
भावार्थ:-शस्त्रहीनेन भीमेन (i)……………. निगृहीतः। क्षुब्धं अभिमन्युं दृष्ट्वा (ii)…………….. स्पष्टीकरोतियत् (iii)……………. तु दुबलैः गृह्यते। भीमस्य (iv)………….. एवं प्रहरणम्। किं प्रयोजनम् अन्यैः शस्त्रैः।
मञ्जूषा- भुजौ, अस्त्रं, अभिमन्युः, भीमः
उत्तर:
(ख) शस्त्रहीनेन. भीमेन अभिमन्युः निगृहीतः। क्षुब्धं अभिमन्युं दृष्ट्वा भीमः स्पष्टीकरोति यत् अस्त्रं तु दुबलैः गृह्यते। भीमस्य भुजौ एव प्रहरणम्। किं प्रयोजनम् अन्यैः शस्त्रैः।

(ग) ‘नीतः कृष्णोऽतदर्हताम्।’ भावार्थ:-श्रीकृष्णः जरासन्धं (i)…………………. ऐच्छत् परम् (ii)…………….. जरासन्धस्य (iii)……….. कृत्वा श्रीकृष्णं (iv) ……………. न दत्तः।
मञ्जूषा- अवसरः, हन्तुम्, भीमेन, वधं
उत्तर:
(ग) श्रीकृष्णः जरासन्धं हन्तुम् ऐच्छत् परम् भीमेन जरासन्धस्य वधं कृत्वा श्रीकृष्णं अवसरः न दत्तः ।

(घ) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
भावार्थ:-अभिमन्युः (i). ……. ग्रहणं (ii). …… मन्यते यतः चिरकालात् अनन्तरं (iii)……. अभिमन्युः (iv)……. दृष्ट्वान्।
मञ्जूषा- स्वपितॄन्, धेनूनाम्, सुखान्तं, भाग्येन
उत्तर:
(घ) अभिमन्युः धेनूनाम् ग्रहणं सुखान्तं मन्यते यतः चिरकालात् अनन्तरं भाग्येन अभिमन्युः स्वपितृन् दृष्ट्वान्।

IV. कथाक्रमसंयोजनम

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
(ii) अयमपरः कः विभाति उमावेषमिवाश्रितो हरः।
(iii) अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः।
(iv) पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति।
(v) किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः।
(vi) आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
(vii) शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम एव भुजौ एव प्रहरणम्।
(vii) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
उत्तर:
(i) अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः।
(ii) को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
(iii) अयमपरः कः विभाति उमावेषमिवाश्रितो हरः।
(iv) किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः।
(v) पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति।
(vi) शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम एव भुजौ एव प्रहरणम्।
(vii) आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
(viii) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।

V. प्रसङ्गानुकूलम् उचितार्थम्

I. अधोलिखितवाक्येषु रेखांकितपदानाम् प्रसंगानुसारं शुद्धम् अर्थ लिखत
(i) दिष्ट्या गोग्रहणं स्वन्तं अभवत्।
(क) भाग्येन
(ख) दृष्ट्वा
(ग) दृष्टिः
(घ) अपश्यत्
उत्तर:
(क) भाग्येन

(ii) भवान् शंकाम् व्यपनयतु।
(क) व्यपहरत्
(ख) आनयतु
(ग) नयतु
(घ) दूरीकरोतु
उत्तर:
(घ) दूरीकरोतु

(iii) मम भुजौ एव प्रहरणम्।
(क) प्रहारम्
(ख) प्रहाराम्
(ग) शस्त्रम्
(घ) शास्त्रम्
उत्तर:
(ग) शस्त्रम्

(iv) निग्रहोचितः समुदाचारः क्रियताम्।
(क) सदाचारः
(ख) समान उपचारः
(ग) शिष्टाचारः
(घ) उपचाराः
उत्तर:
(ग) शिष्टाचारः

(v) ते क्षेपेण न रुष्यामि।
(क) निन्दावचनेन
(ख) क्षणेन
(ग) शपथेन
(घ) वचनेन
उत्तर:
(क) निन्दावचनेन

(vi) एषः महाराजः। उपसर्पतु कुमारः।
(क) समीपं गच्छाति
(ख) समीपं गच्छा
(ग) समीपं गच्छतु
(घ) समीपं आगत्य
उत्तर:
(ग) समीपं गच्छतु

VI. पर्यायपदानि/विलोमपदानि

प्रश्नः 1.
अधोलिखितपदानां पर्यायपदानि लिखत
धनञ्जयः, शस्त्रम्, दर्पः, तूणीरः
उत्तरम्
धनञ्जयः — अर्जुनः, पार्थः, कौन्तेयः।
शस्त्रम् — प्रहरणम्, आयुधम्।
दर्पः — अहंकारः, गर्वः, दंभः।
तूणीरः — तरकशः, निषंग, बाणकोशः।

प्रश्नः 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूष चत्वा यथासमक्षं लिखत
पुण्यम्, आगच्छतु, दुर्बलैः, प्रकाशं, दुःखान्तं

पदानि — विलोमशब्दाः
(क) यातु — ………….
(ख) सबलैः — ………….
(ग) आत्मगतं — ………….
(घ) स्वन्तम् — ………….
(ङ) पापं — ………….
उत्तरम्
पदानि — विलोमशब्दाः
(क) यातु — आगच्छतु
(ख) सबलैः — दुर्बलैः
(ग) आत्मगतं — प्रकाशम्
(घ) स्वन्तम् — दुःखान्तम्
(ङ) पापं — पुण्यम्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *