NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 10 जटायोः शौर्यम्

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 74-76)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) आयतलोचना का अस्ति?
(ख) सा कं ददर्श?
(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर:
(क) सीता
(ख) जटायुम् / गृध्रम्।
(ग) शुभाम्
(घ) तीक्ष्णनखाभ्याम्
(ङ) दश

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) “जटायो! पश्य” इति का वदति?
(ख) जटायुः रावणं किं कथयति?
(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
(ङ) जटायुः केन वामबाहु दंशति?
उत्तर:
(क) “जटायो! पश्य” इति वैदेही (सीता) वदति।
(ख) जटायुः रावणं कथयति यत् परस्त्रीस्पर्शात् नीचां मतिं निवर्तय धीरः तत् न समाचरेत् यत् अस्य परः विर्गहयेत्।
(ग) क्रोधवशात् रावणः वैदेहीं वामेन अङ्केन संपरिष्वज्य जटायुं तलेन आशु अभिजघान।
(घ) पतगेश्वरः रावणस्य मुक्तामणिविभूषितम् चापं सशरं बभञ्ज।
(ङ) जटायुः तुण्डेन वामबाहु दंशति।

प्रश्न 3.
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत
यथा- गुण + णिनि — गुणिन् (गुणी)
दान + णिनि — दानिन् (दानी)
(क) कवच + णिनि — ……………
(ख) शर + णिनि — ……………
(ग) कुशल + णिनि — ……………
(घ) धन + णिनि — ……………
(ङ) दण्ड + णिनि — ……………
उत्तर:
(क) कवच + णिनि — कवचिन् (कवची)
(ख) शर + णिनि — शरिन् (शरी)
(ग) कुशल + णिनि — कुशलिन् (कुशली)
(घ) धन + णिनि — धनिन् (धनी)
(ङ) दण्ड + णिनि — दण्डिन् (दण्डी)

(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः, पतगेश्वरः, सरथः, कवची, शरी
यथा —
रावणः — जटायुः
युवा — वृद्धः
………….. …………
………….. …………
उत्तर:

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

प्रश्न: 4.
‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत-
‘क’ — ‘ख’
कवची — अपतत्
आशु — पक्षिश्रेष्ठः
विरथः — पृथिव्याम्
पपात — कवचधारी
भुवि — शीघ्रम्
पतगसत्तमः — रथविहीनः
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
कवची — कवचधार
आशु — शीघ्रम्
विरथः — रथविहीनः
पपात — अपतत्
भुवि — पृथिव्याम्
पतगसत्तमः — पक्षिश्रेष्ठः

प्रश्न: 5.
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
मन्दम् पुण्यकर्मणा हसन्ती अनार्य अनतिक्रम्य देवेन्द्रेण प्रशंसेत् दक्षिणेन युवा
पदानि — विलोमशब्दाः
(क) विलपन्ती — ……………
(ख) आर्य — ……………
(ग) राक्षसेन्द्रेण — ……………
(घ) पापकर्मणा — ……………
(ङ) क्षिप्रम् — ……………
(च) विगर्हयेत् — ……………
(छ) वृद्धः — ……………
(ज) वामेन — ……………
(झ) अतिक्रम्य — ……………
उत्तर:
पदानि — विलोमशब्दाः
(क) विलपन्ती — हसन्ती
(ख) आर्य — अनार्य
(ग) राक्षसेन्द्रेण — देवेन्द्रेण
(घ) पापकर्मणा — पुण्यकर्मणा
(ङ) क्षिप्रम् — मन्दम्
(च) विगर्हयेत् — प्रशंसेत्
(छ) वृद्धः — युवा
(ज) वामेन — दक्षिणेन
(झ) अतिक्रम्य — अनतिक्रम्य

प्रश्न: 6.
(अ) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत
(क) शुभाम् — ………………
(ख) खगाधिपः — ………………
(ग) हतसारथिः — ………………
(घ) वामेन — ………………
(ङ) कवची — ………………
उत्तर:
(क) शुभाम्- वृक्षे स्थितः जटायुः रावणं शुभाम् गिरम् अकथयत्।
(ख) खगाधिपः- खगाधिपः जटायुः विलपन्ती वैदेहीं अपश्यत्।
(ग) हतसारथिः- हतसारथिः रावणः भूमौ अपतत्।
(घ) वामेन- वामेन हस्तेन दानं न करणीयम्।
(ङ) कवची- रावणः कवची शरी च आसीत्।

(आ) उदाहरणमनुसृत्य समस्त पद रचयत
यथा- त्रयाणां लोकानां समाहारः — त्रिलोकी
(क) पञ्चानां वटानां समाहारः — ……………
(ख) सप्तानां पदानां समाहारः — ……………
(ग) अष्टानां भुजानां समाहारः — ……………
(घ) चतुर्णां मुखानां समाहारः — ……………
उत्तर:
समास विग्रह — समस्त पद
(क) पञ्चानां वटानां समाहारः — पञ्चवटी
(ख) सप्तानां पदानां समाहारः — सप्तपदी
(ग) अष्टानां भुजानां समाहारः — अष्टभुजम्
(घ) चतुर्णा मुखानां समाहारः — चतुर्मुखम्

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम्

अधोलिखितश्लोकान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् 1

प्रश्ना:
I. एकपदेन उत्तरत
(i) दु:खिता का आसीत्?
(ii) का विलापं करोति स्म?
उत्तर:
(i) वैदेही/सीता
(ii) सीता

II. पूर्णवाक्येन उत्तरत
सीता कम् ददर्श?
उत्तर:
सीता वनस्पतिगतम् गृधं ददर्श।

III. यथानिर्देशम् उत्तरत
(i) ‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) तदा
(ग) करुणा
(घ) गृधं
उत्तर:
(क) सा

(ii) ‘गधं’ इति पदस्य विशेषणपदं किम्?
(क) आयत
(ख) लोचना
(ग) वनस्पतिगतं
(घ) वाचः
उत्तर:
(ग) वनस्पतिगतं

(iii) ‘सा तदा ………।’ अत्र ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्।
(क) सीता
(ख) सीतायै
(ग) सीतां
(घ) सीताय
उत्तर:
(ख) सीतायै

(iv) ‘हसन्ती’ इति पदस्य विलोमपदं किम्?
(क) विलपन्ती
(ख) रुदती
(ग) विलपती
(घ) विलापं
उत्तर:
(क) विलपन्ती

(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) अस्मिन् श्लोके सम्बोधनपदम् किम्?
(ii) ‘पश्य जटायो’ इति का वदति?
उत्तर:
(i) आर्य जटायो!
(ii) सीता/वैदेही

II. पूर्णवाक्येन उत्तरत
पापकर्मणा राक्षसेन्द्रेण किम् कृतम्?
उत्तर:
पापकर्मणा राक्षसेन्द्रेण सीता अनाथवत् अपहृता।

III. यथानिर्देशम् विकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत
(i) ‘माम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) रावणाय
(ख) सीता
(ग) सीतायै
(घ) जटायुः
उत्तर:
(ग) सीतायै

(ii) श्लोके क्रियापदम् किम् अस्ति?
(क) करुणं
(ख) अनेन
(ग) पश्य
(घ) अनाथवत्
उत्तर:
(ग) पश्य

(iii) ‘देवेन्द्रेण’ इति पदस्य विलोमपदं किम्?
(क) पापकर्मणा
(ख) राक्षसेन्द्रेण
(ग) दानवेन्द्रेण
(घ) अनेन
उत्तर:
(ख) राक्षसेन्द्रेण

(iv) ‘दानवपतिना’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) राक्षसेन्द्रेण
(ख) पापकर्मणा
(ग) ममार्य उत्तराणि
(घ) जटायो
उत्तर:
(क) राक्षसेन्द्रेण

(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥

प्रश्ना:
I. एकपदेन उत्तरत
(i) कः शब्दम् शुश्रुवे?
(ii) जटायुः कस्याः शब्दम् अशृणोत्।
उत्तर:
(i) जटायुः
(ii) सीतायाः

II. पूर्णवाक्येन उत्तरत
जटायुः किम् अपश्यत्?
उत्तर:
जटायुः रावणम् निरीक्ष्य क्षिप्रं वैदेहीं च ददर्श।

II. निर्देशानुसारम् विकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत
(i) ‘शीघ्रम्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) क्षिप्रम्
(ख) निरीक्ष्य
(ग) अथ
(घ) शुश्रुवे
उत्तर:
(क) क्षिप्रम्

(ii) ‘जटायुः’ इति पदस्य विशेषणपदं किम्?
(क) अथ
(ख) शब्दम्
(ग) सुप्तः
(घ) अवसुप्तः
उत्तर:
(घ) अवसुप्तः

(iii) ‘जटायुरथ शुश्रुवे।’ अत्र क्रियापदं किम्?
(क) जटायु
(ख) रथ
(ग) शुश्रुवे
(घ) अथ
उत्तर:
(ग) शुश्रुवे

(iv) ‘मन्दम्’ इति पदस्य विलोमपदं किम्?
(क) अथ
(ख) क्षिप्रम्
(ग) निरीक्ष्य
(घ) ददर्श
उत्तर:
(ख) क्षिप्रम्

(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) वैदेहीम् आदाय कः गच्छति?
(ii) कः वृद्धः अस्ति?
उत्तर:
(i) रावणः
(ii) जटायुः

II. पूर्णवाक्येन उत्तरत
जटायुः रावणं किम् कथयति?
उत्तर:
जटायुः रावणम् कथयति, “अहम् वृद्धः, त्वम् युवा धन्वी, सरथः, कवची, शरी (तथापि) वैदेहीं आदाय कुशली न गमिष्यसि।”

III. यथानिर्देशं शुद्धम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
(i) ‘मे’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?
(क) रावणाय
(ख) सीतायै
(ग) जटायोः
(घ) जटायुः
उत्तर:
(ग) जटायोः

(ii) ‘धनुर्धरः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) कवची
(ख) धन्वी
(ग) शरी
(घ) कुशली
उत्तर:
(ख) धन्वी

(iii) ‘युवा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) वृद्धः
(ख) धन्वी
(ग) रथी
(घ) शरी
उत्तर:
(क) वृद्धः

(iv) श्लोके क्रियापदं किम्?
(क) आदाय
(ख) गमिष्यसि
(ग) कवची
(घ) कुशली
उत्तर:
(ख) गमिष्यसि

(ङ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायु क्रोधमूछितः॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) क्रोधमूछितः कः?
(ii) हतसारथिः कः?
उत्तर:
(i) रावणः
(ii) रावणः

II. पूर्णवाक्येन उत्तरत
कीदृशः रावणः जटायुम् अभिजघान?
उत्तर:
भग्नधन्वा, विरथः, हताश्वः हतसारथिः चः रावणः जटायुं तलेन अभिजघान।

III. निर्देशानुसारं उचितम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
(i) ‘घोटक’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विरथो
(ख) सारथि
(ग) धन्वा
(घ) अश्वः
उत्तर:
(घ) अश्वः

(ii) ‘सरथः’ इति पदस्य विलोमपदम् किम्?
(क) भग्न
(ख) तलेन
(ग) हतसारथिः
(घ) विरथो
उत्तर:
(घ) विरथो

(iii) श्लोके क्रियापदं किम्?
(क) धन्वा
(ख) भग्न
(ग) क्रोधः
(घ) अभिजघान
उत्तर:
(घ) अभिजघान

(iv) ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जटायोः
(ख) सीतायै
(ग) रावणाय
(घ) रावणः
उत्तर:
(ग) रावणाय

II. प्रश्ननिर्माणम्

अधोलिखितेषु कथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् उत्तराणि
प्रश्ना :
(i) कीदृशी वैदेही जटायुम् अपश्यत्?
(ii) रावणः वैदेहीम् आदाय कुत्र अपतत्?
(iii) खगाधिपः कस्य गात्रे व्रणान् अकरोत्?
(iv) जटायुः काभ्याम् महद्धनुः भग्नं कृतवान्?
(v) जटायुः केन रावणस्य दश वामबाहून् व्यपाहर?
उत्तर:
(i) विलंपन्ती वैदेही जटायुम् अपश्यत्।।
(ii) रावणः वैदेहीम् आदाय भुवि अपतत्।
(iii) खगाधिपः रावणस्य गात्रे व्रणान् अकरोत्।
(iv) जटायुः चरणाभ्याम् महद्धनुः भग्नं कृतवान्।
(v) जटायुः तुण्डेन रावणस्य दश वामबाहून् व्यपाहरत्।

III. ‘क’ अन्वयः

अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानानाम् पूर्ति कुरुत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।।
अन्वयः- तदा सा (i)………….. करुणा वाचो (ii)………….. आयतलोचना (iii) गृधं …… (iv) ………….
उत्तर:
तदा सा (i) सुदुःखिता करुणा वाचो (ii) विलपन्ती आयतलोचना (iii) वनस्पतिगतं गृधं (iv) ददर्श।

(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा।।
अन्वयः- आर्य (i)………….अनेन (ii)…………… राक्षसेन्द्रेण (iii)…………. अनाथवत् ह्रियमाणाम् (iv)……………. पश्य।
उत्तर:
आर्य (i) जटायो! अनेन (ii) पापकर्मणा राक्षसेन्द्रेण (iii) अकरुणं अनाथवत् ह्रियमाणाम् (iv) माम् पश्य।

(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः।।
अन्वयः- अथ (i)………. जटायुः तं (ii)………. शुश्रुवे। क्षिप्रं (iii)………….. निरीक्ष्य सः (iv)…………… च ददर्श।
उत्तर:
अथ (i) अवसुप्तः जटायुः तं (ii) शब्दं शुश्रुवे। क्षिप्रं (iii) रावणं निरीक्ष्य सः (iv) वैदेहीं च ददर्श।

(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि।।
अन्वयः- अहम् (i)……………….. त्वम् युवा धन्वी (ii)……………….. कवची शरी च अपि मे (iii)………………… आदाय (iv)……………… न गमिष्यसि।
उत्तर:
अहम् (i) वृद्धः त्वम् युवा धन्वी (ii) सरथः कवची शरी च अपि मे (iii) वैदेहीं आदाय (iv) कुशली न गमिष्यसि।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत:

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना॥

भावार्थ:-लंकापतिना (i)………… नीयमाना, सुदुःखिता, (ii) ………. करुणया वदन्ती च विशाललोचना (iii) ……….. वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराजं (iv) ………….. अपश्यत्।
मञ्जूषा- जटायुम्, रजटायुम्, रावणेन, विलपन्ती, सीता
उत्तर:
(क) लंकापतिना रावणेन नीयमाना, सुदुःखिता, विलपन्ती करुणया वदन्ती च विशाललोचना सीता वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराजं जटायुम् अपश्यत्।

(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

भावार्थ:-रावणेन नीयमाना सीता वने (i)……. वीक्ष्य तम् सहायतार्थम् अकारयति (ii)……… यत् अनेन (iii)………. निर्दयतापूर्वकं (iv) ……. नीयमानाम् माम् पश्य।
मञ्जूषा- अनाथवत्, राक्षसेन्द्रेण, कथयति, जटायु
उत्तर:
(ख) रावणेन नीयमाना सीता वने जटायुं वीक्ष्य तम् सहायतार्थम् अकारयति कथयति च यत् अनेन राक्षसेन्द्रेण निर्दयतापूर्वकं अनाथवत् नीयमानाम् माम् पश्य।

(ग) तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान्यतगसत्तमः॥

भावार्थ:-सीतायाः रक्षणार्थम् गृध्रराजः (i) ……… सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः (ii)……… स्वतीक्ष्णनखाभ्यां (iii)……………….रावणस्य शरीरे अनेके (iv)……………… अकरोत्।
मञ्जूषा- व्रणान्, चरणाभ्याम्, जटायुः, रावणेन
उत्तर:
(ग) सीतायाः रक्षणार्थम् गृध्रराजः रावणेन सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः जटायुः स्वतीक्ष्णनखाभ्यां चरणाभ्याम् रावणस्य शरीरे अनेके व्रणान् अकरोत्।

(घ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायु क्रोधमूच्छितः॥

भावार्थ:-जटायुः रावणस्य (i)………चरणाभ्याम् भग्नम् अकरोत्। तदा (ii)…………. भग्नधन्वा, हताश्वः हतसारथिः च (iii)……… रावणः तलेन (iv)………… शीघ्रं आक्रान्तवान्।
मञ्जूषा- रथविहीनः, धनुः, जटायुम्, क्रोधितः
उत्तर:
(घ) जटायुः रावणस्य धनुः चरणाभ्याम् भग्नम् अकरोत्। तदा रथविहीनः भग्नधन्वा, हताश्वः हतसारथिः च क्रोधितः रावणः तलेन जटायुम् शीघ्रं आक्रान्तवान्।

IV. प्रसङ्गानुकूलम् उचितार्थम्

I. रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत –
(i) अरिन्दमः दशवामबाहून् व्यपाहरत्।
(क) उत्खातवान्
(ख) अपहरत्
(ग) व्यापादितम्
(घ) विदीर्णम्
उत्तर:
(क) उत्खातवान्

(ii) जटायुः रावणस्य महद्धनुः बभञ्ज।
(क) विभाजितम्
(ख) भग्नं कृतवान्
(ग) पतितः
(घ) घटितः
उत्तर:
(ख) भग्नं कृतवान्

(ii) रावणः तलेन जटायुम् अभिजघान।
(क) अभिवदति
(ख) अपसार्य
(ग) हतवान्
(घ) कथितम्
उत्तर:
(ग) हतवान्

(iv) परदाराभिमर्शनात् नीचां मतिं निवर्तय।
(क) वारणं कुरु
(ख) निवारणं
(ग) वारयितुम्
(घ) निर्माणं कुरु
उत्तर:
(क) वारणं कुरु

(v) रावणः धन्वी कवची शरी च आसीत्।
(क) कृपणः
(ख) क्रूरः
(ग) कवचधारी
(घ) क्रोधित:
उत्तर:
(ग) कवचधारी

V. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
अधोलिखितपदानाम् पर्यायपदानि लिखत
क्षिप्रं, वैदेही, गात्रे, भुवि
उत्तर:
क्षिप्रं – शीघ्रम्, सत्वरं, अविलम्बम्।
वैदेहीं – सीतां, जानकी, मैथिलीम्।
गात्रे – शरीरे, देहे, वदने।
भुवि – वसुधायाम्, धरायाम्, भूतले।

प्रश्न: 2.
‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) युवा — प्रदाय
(ख) आदाय — वृद्धः
(ग) वामेन — अनतिक्रम्य
(घ) अतिक्रम्य — दक्षिणेन
(ङ) अनार्य — आर्य
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) युवा — वृद्धः
(ख) आदाय — प्रदाय
(ग) वामेन — दक्षिणेन
(घ) अतिक्रम्य — अनतिक्रम्य
(ङ) अनार्य — आर्य

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *