NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 11 पर्यावरणम्

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 80-83)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) मानवः कुत्र सुरक्षितः तिष्ठति?
(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
(ग) आर्षवचनं किमस्ति?
(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्त:?
(ङ) लोकरक्षा कया सम्भवति?
(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर:
(क) पर्यावरणकुक्षौ
(ख) वने
(ग) धर्मो रक्षति रक्षितः
(घ) धर्मस्य
(ङ) प्रकृतिरक्षया
(च) मातृगर्भ
(छ) प्राणिनाम्

प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
(ख) स्वार्थान्धः मानवः किं करोति?
(ग) पर्यावरणे विकृते जाते किं भवति?
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
(ङ) लोकरक्षा कथं संभवति?
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:
(क) पृथ्वी, जलं तेजः, वायुः आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।
(ख) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
(ग) पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याः च जायन्ते।
(घ) वृक्षारोपणम् कृत्वा, विषाक्तं जलं नद्याम् न पातथित्वा ध्वनिप्रदूषणं च न कृत्वा अस्माभिः पर्यावरणस्य .. रक्षा करणीया।।
(ङ) प्रकृतिरक्षया एव लोकरक्षा संभवति।
(च) परिष्कृतम् पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्री च ददाति।

प्रश्न: 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) वनवृक्षाः निर्विवेकं छिद्यन्ते।
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
(ग) प्रकृतिः जीवनसुखं प्रददाति।
(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
प्रश्नाः
(क) के निर्विवेकं छिद्यन्ते?
(ख) कस्मात् शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः किम् प्रददाति?
(घ) अजातश्शिशुः कस्मिन् सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

प्रश्नः 4.
उदाहरणमनुसृत्य पदरचनां कुरुत
(क) यथा- जले चरन्ति इति – जलचराः
स्थले चरन्ति इति – ……….
निशायां चरन्ति इति – ……….
व्योम्नि चरन्ति इति – ……….
गिरौ चरन्ति इति – ……….
भूमौ चरन्ति इति – ……….
उत्तर:
स्थले चरन्ति इति – स्थलचराः
निशायां चरन्ति इति – निशाचराः
व्योम्नि चरन्ति इति – व्योमचराः
गिरौ चरन्ति इति – गिरिचराः
भूमौ चरन्ति इति – भूचराः

(ख) यथा- न पेयम् इति – अपेयम्
न वृष्टि इति – ……….
न सुखम् इति – ……….
न भावः इति – ……….
न पूर्णः इति – ……….
उत्तर:
न वृष्टि इति – अनावृष्टि
न सुखम् इति – असुखम्
न भावः इति – अभावः
न पूर्णः इति – अपूर्णः

प्रश्नः 5.
उदाहरणमनुसृत्य पदनिर्माणं कुरुत
यथा- वि + कृ + क्तिन् = विकृतिः
(क) प्र + गम् + क्तिन् = ………..
(ख) दृश् + क्तिन् = ………..
(ग) गम् + क्तिन् = ………..
(घ) मन् + क्तिन् = ………..
(ङ) शम् + क्तिन् = ………..
(च) भी + क्तिन् = ………..
(छ) जन् + क्तिन् = ………..
(ज) भज् + क्तिन् = ………..
(झ) नी + क्तिन् = ………..
उत्तर:
प्र + गम् + क्तिन् = प्रगति:
दृश् + क्तिन् = दृष्टि:
गम् + क्तिन् = गति:
मन् + क्तिन् = मतिः
शम् + क्तिन् = शान्तिः
भी + क्तिन् = भीतिः
जन् + क्तिन् = जातिः
भज् + क्तिन् = भक्तिः
नी + क्तिन् = नीतिः

प्रश्न: 6.
निर्देशानुसारं परिवर्तयत यथा- स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।
(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर:
(क) सन्तप्तानाम मानवानाम मङगलं कतः?
(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षः निर्विवेकम् छिद्यते।
(घ) गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।
(ङ) सरितः निर्मलं जलं प्रयच्छन्ति।

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत। यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
(क) ……………
(ख) ……………
(ग) ……………
(घ) ……………
(ङ) ……………
उत्तर:
(क) अहम् पर्यावरणरक्षणाय कृतसंकल्पः अस्मि।
(ख) एतर्थं स्थाने स्थाने वृक्षाः रोपणीयाः।
(ग) वृक्षकर्तनं रोद्धव्यम्।
(घ) ‘जलम् एव जीवनम्’ अतः जलसंरक्षणम् अपि कर्त्तव्यम्।
(ङ) पर्यावरणरक्षणाय जनजागरणम् अपि करणीयम्।

प्रश्नः 7.
उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत यथा- संरक्षणाय
उत्तर:

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् 1

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत
यथा- तेजोवायुः – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
(i) पत्रपुष्पे — ……………
(ii) लतावृक्षौ — ……………
(iii) पशुपक्षी — ……………
(iv) कीटपतङ्गौ — ……………
उत्तर:
(i) पत्रम् च पुष्पम् च
(ii) लता च वृक्षः च
(iii) पशुः च पक्षी च
(iv) कीटः च पतङ्गः च

उत्तरम्
परियोजनाकार्यम्
(क) विद्यालयप्राङ्गणे स्थितस्य उद्यानस्य वृक्षाः पादपाश्च कथं सुरक्षिताः स्युः तदर्थं प्रयत्नः करणीयः इति सप्तवाक्येषु लिखत।

(ख) अभिभावकस्य शिक्षकस्य वा सहयोगेन एकस्य वृक्षस्य आरोपणं करणीयम्। (यदि स्थानम् अस्ति।) तर्हि विद्यालय-प्राङ्गणे, नास्ति चेत् स्वस्मिन प्रतिवेशे, गहे वा।) कृतं सर्वं दैनन्दिन्यां लिखित्वा शिक्षकं दर्शयत।
उत्तर:
(क)
(i) विद्यालयप्राङ्गणे स्थितस्य उद्यानस्य वृक्षाः पादपाः च अस्माभिः सुरक्षिताः स्युः।
(ii) विद्यालयस्य प्राङ्गणे फलदायकाः उपयोगिनः च वृक्षाः पादपाः च रोपणीयाः।

(iii) छात्रैः रोपिताः वृक्षाः पादपाः च प्रतिदिनं जलेन सिञ्चिताः।
(iv) छात्रैः वृक्षाः पादपाः च स्वमित्रवत् स्नेहन रक्षितव्याः।
(v) कोऽपि पशुः तान् न नाशयितुम् समर्थः भवेत्।
(vi) यथासमये उर्वरकपदार्थानाम् प्रयोगः अपि करणीयः।
(vii) ध्यातव्यम् यत् कोऽपि वृक्षच्छेदनं कर्तुम् समर्थः न भवेत्।

(ख) यह प्रेक्टिकल (क्रियात्मक) है। छात्रों से वृक्षारोपण करवाना

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम्

अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत

(क) प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः, सुखसाधनैः च तर्पयति।
पृथिवी, जलम्, तेजः, वायुः, आकाश: च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्।

प्रश्ना :
I. एकपदेन उत्तरत
(i) का सर्वान् सुखसाधनैः तर्पयति?
(ii) प्रकृतिः केषाम् संरक्षणाय यतते?
उत्तर:
(i) प्रकृतिः
(ii) प्राणिनां

II. पूर्णवाक्येन उत्तरत
प्रकृतेः प्रमुखानि तत्त्वानि कानि सन्ति?
उत्तर:
पृथिवी, जल, वायुः, तेजः, आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘पुष्णाति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सर्वान्
(ख) इयम्
(ग) विविधैः
(घ) प्रकारैः
उत्तर:
(ख) इयम्

(ii) ‘तानि एव’ अत्र ‘तानि’ सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) जलाय
(ख) पर्यावरणाय
(ग) प्रमुखतत्त्वेभ्यः
(घ) प्रमुखतत्त्वानि
उत्तर:
(ग) प्रमुखतत्त्वेभ्यः

(iii) ‘आपः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वायुः
(ख) तेजो
(ग) जलम्
(घ) परितः
उत्तर:
(ग) जलम्

(iv) ‘प्राणिनाम्’ इति पदस्य विशेषणपदं किम्?
(क) सर्वेषां
(ख) प्रकृतिः
(ग) यतते
(घ) संरक्षणाय
उत्तर:
(क) सर्वेषां

(ख) अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।

प्रश्ना:
I. एकपदेन उत्तरत
(i) विविधाः विहगाः कलकूजितैः किम् ददाति?
(ii) कीदृशाः ऋषयः वने निवसन्ति स्म?
उत्तर:
(i) श्रोत्ररसायनं
(ii) लोकमङ्गलाशंसिनः

II. पूर्णवाक्येन उत्तरत
के निर्मलं जलं प्रयच्छन्ति?
उत्तर:
सरितः गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा उत्तरत
(i) ‘समुपहरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सरितः
(ख) लताः
(ग) वृक्षाः लताः च
(घ) फलानि
उत्तर:
(ग) वृक्षाः लताः च

(ii) ‘लोकमङ्गलशंसिनः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम्
(ख) वने
(ग) उपलभ्यते
(घ) ऋषयः
उत्तर:
(घ) ऋषयः

(iii) ‘खगाः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) विहगाः
(ख) सरितः
(ग) विविधाः
(घ) यतः
उत्तर:
(क) विहगाः

(iv) ‘मलिनं’ इति पदस्य विलोमपदं किम्?
(क) कल्पं
(ख) निर्मलं
(ग) रसायनं
(घ) अमृत
उत्तर:
(ख) निर्मलं

(ग) परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् 2

प्रश्नाः
I. एकपदेन उत्तरत
(i) नदीजलम् सर्वथा कीदृशम् जायते?
(ii) स्वार्थान्धः मानवः किम् नाशयति?
उत्तर:
(i) अपेयम्
(ii) पर्यावरणम्

II. पूर्णवाक्येन उत्तरत
विषाक्तजलेन किम् भवति?
उत्तर:
विषाक्तजलेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशः जायते। नदीजलम् अपि सर्वथा अपेयं भवति।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘वस्तूनि’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) बहुमूल्यानि
(ख) स्वल्प
(ग) लाभाय
(घ) नाशयन्ति
उत्तर:
(क) बहुमूल्यानि

(ii) ‘वनपश्वश्च’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) शरणरहिता
(ख) उपद्रवं
(ग) विदधति
(घ) ग्रामेषु
उत्तर:
(ग) विदधति

(iii) ‘अवर्षणः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वृक्षाः
(ख) अवृष्टिः
(ग) रहिता
(घ) नाशो
उत्तर:
(ख) अवृष्टिः

(iv) ‘पेयं’ इति पदस्य विलोमपदं किं प्रयुक्तम्?
(क) ऽपेयं
(ख) अपेयं
(ग) थाऽपेयं
(घ) पेय उत्तराणि
उत्तर:
(ख) अपेयं

II. प्रश्ननिर्माणम्

अधोलिखितकथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
प्रश्नाः
(i) प्रकृतिः केषाम् संरक्षणाय यतते?
(ii) प्रकृतिः कैः सर्वान् तर्पयति?
(iii) प्रकृतिः काभिः रक्षणीया?
(iv) कदा ऋषयः वने वसन्ति स्म?
(v) कीदृशः मानवः पर्यावरणम् नाशयति?
(vi) किमर्थम् जनाः बहुमूल्यानि वस्तूनि नाशयन्ति?
(vii) के निर्मलं जलं यच्छन्ति?
(viii) कया लोकरक्षा सम्भवति?
उत्तर:
(i) प्रकृतिः प्राणिनां संरक्षणाय यतते।
(it) प्रकृतिः सुखसाधनैः सर्वान् तर्पयति।
(iii) प्रकृतिः अस्माभिः रक्षणीया।
(iv) प्राचीनकाले ऋषयः वने वसन्ति स्म।
(v) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
(vi) स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(vii) सरितः निर्मलं जलं यच्छन्ति।
(viii) प्रकृतिरक्षया लोकरक्षा सम्भवति।

III. प्रसङ्गानुकूलम् उचितार्थम्

I. अधोलिखितवाक्येषु रेखांकितपदानां कृते उचितं अर्थ चित्वा लिखत
(i) अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(क) अनुत्पन्नजातकः
(ख) अजातशत्रुः
(ग) जातकाः
(घ) प्रसन्नशिशुः
उत्तर:
(क) अनुत्पन्नजातकः

(ii) विविधाः विहगाः कलकूजितैः श्रौत्ररसायनं ददति।
(क) श्रोतव्यम्
(ख) श्रोतुम्
(ग) कर्णाभूषणम्
(घ) कर्णामृतम्
उत्तर:
(घ) कर्णामृतम्

(iii) लोकमङ्गलाशंसिनः ऋषयः वने वसन्ति स्म।
(क) लोककल्याणकामाः
(ख) लोकमङ्गलम्
(ग) लोकशासकाः
(घ) समाजसुधारकाः
उत्तर:
(क) लोककल्याणकामाः

(iv) जलप्लावनैः मानवाः सन्तप्ताः भवन्ति।
(क) जलप्रवाहेन
(ख) जलं वहति
(ग) जलपूर्णः
(घ) जलौधैः
उत्तर:
(घ) जलौधैः

(v) यन्त्रागाराणां जलं नद्यां निपात्यते।
(क) यन्त्रालयानाम्
(ख) यन्त्रैः निर्मितं
(ग) यन्त्रैः चालितं
(घ) यन्त्रस्य आगारम्
उत्तर:
(क) यन्त्रालयानाम्

IV. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
अधोलिखितपदानाम् पर्यायपदानि लिखत
जलम्, वायुः, आकाशः, तेजः
उत्तर:
जलम् — वारिः, नीरः, तोयः।
वायुः समीरः, पवनः, अनिलः
आकाशः — व्योमः, गगनः, अम्बरः।
तेजः — अनलः, अग्निः, पावकः।

प्रश्न: 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
दानवः, पृथिवी, मलिनं, उत्थानः, शीतलं
पदानि — विलोमशब्दाः
(क) निर्मलं — …………
(ख) मानवः — …………
(ग) आकाशः — …………
(घ) नाशः — …………
(ङ) ऊष्णं — …………
उत्तर:
पदानि — विलोमशब्दाः
(क) निर्मलं — मलिनम्
(ख) मानवः — दानवः
(ग) आकाशः — पृथिवी
(घ) नाशः — उत्थानः
(ङ) ऊष्णं — शीतलम्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *