Skip to content

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्

प्रश्न 1.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 34-35)
राहुलः – अभिनव! नमोनमः! चिरात् दृष्टोऽसि?
अभिनव (1) …………..
राहुलः – अभिवादये तरुण! भवता सह मिलित्वा प्रसन्नोऽस्मि।
तरुणः – (2) …………..
राहुलः – भवान् किं करोति?
तरुणः – अहं संस्कृतसाहित्ये स्नातकोत्तरपरीक्षा संपाद्य आगतोऽस्मि।
राहुल – (3) …….
तरुणः – किमर्थम्?
राहुलः – (4) ………
तरुणः – संस्कृतपठनेन सह वैज्ञानिकप्रविधीनाम् उपयोगे न कोऽपि दोषः? अहं तु सर्वाणि वैज्ञानिकोपकरणानि उपयोजयामि।
राहुलः – शोभनम्। (5) ………

मञ्जूषा
(क) भवान् आधुनिकैः वस्त्रैः सज्जः, बहुमूल्यं च चलदूरभाषयन्त्रं धारयन् आधुनिक इव प्रतीयते।
(ख) मम मनसः भ्रान्तिरियम् अपगता यत् संस्कृताध्येतारः रूढिवादिनः भवन्ति।
(ग) अहमपि प्रसन्नोऽस्मि।
(घ) परं भवन्तं दृष्ट्वा तु न प्रतीयते यत् भवान् संस्कृतच्छात्रः।
(ङ) अहं मातुलगृहं गतवान् आसम्। अयं मम मातुलपुत्रः तरुणः। एनम् मिलतु।
उत्तर:
1. (ङ) अहं मातुलगृहं गतवान् आसम्। अयं मम मातुलपुत्रः तरुणः। एनम् मिलतु।
2. (ग) अहमपि प्रसन्नोऽस्मि।
3. (घ) परं भवन्तं दृष्ट्वा तु न प्रतीयते यत् भवान् संस्कृतच्छात्रः।
4. (क) भवान् आधुनिकैः वस्त्रैः सज्जः, बहुमूल्यं च चलदूरभाषयन्त्रं धारयन् आधुनिक इव प्रतीयते।
5. (ख) मम मनसः भ्रान्तिरियम् अपगता यत् संस्कृताध्येतारः रूढिवादिनः भवन्ति।

प्रश्न 2.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 35-36)
माता – पुत्र! त्वम् अधुना किं पठसि?
पुत्रः – (1) ……….
माता – किम् काऽपि परीक्षा अस्ति संस्कृतस्य?
पुत्रः – मातः! (2) ……….
माता -अतीवशोभनम्! अभ्यासं कृत्वा सोत्साहं स्पर्धायां भागग्रहणं कुरु।
पुत्रः – (3) ……….
माता – प्रथमं श्लोकानाम् अर्थान् अवबोध ततः स्मरणं कुरु। एवम् न विस्मरिष्यसि।
पुत्रः – (4) ………..
माता – आगच्छ पुत्र! अहम् सर्वेषां श्लोकानाम् अर्थमपि अवबोधयामि, सस्वरवाचनं चापि शिक्षयामि।
पुत्रः – (प्रसन्नतया) (5)……
(कथयित्वा आलिङ्गति)

मञ्जूषा –
(क) मातः! अतीव स्नेहमयी असि त्वम्। अहं त्वयि भृशं स्निह्यामि।
(ख) परमहं श्लोकान् स्मृत्वा अपि विस्मरामि। न जाने कीदृशी प्रस्तुतिः भविष्यति?
(ग) मातः! माम् श्लोकानाम् अर्थान् अवबोधय।
(घ) परश्वः संस्कृतश्लोकोच्चारण-प्रतियोगिता वर्तते।
(ङ) अहं संस्कृत-श्लोकान् कण्ठस्थीकरोमि।
उत्तर:
1. (ङ) अहं संस्कृत-श्लोकान् कण्ठस्थीकरोमि।
2. (घ) परश्वः संस्कृतश्लोकोच्चारण-प्रतियोगिता वर्तते।
3. (ख) परमहं श्लोकान् स्मृत्वा अपि विस्मरामि। न जाने कीदृशी प्रस्तुतिः भविष्यति?
4. (ग) मातः! माम् श्लोकानाम् अर्थान् अवबोधय।
5. (क) मातः! अतीव स्नेहमयी असि त्वम्। अहं त्वयि भृशं स्निह्यामि।

प्रश्न 3.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 36-37)
मोहनः – नमोनमः पितृव्य! कथमस्ति भवान्?
पितृव्यः – अहम् सम्यक् अस्मि। अपि यूयं स्वस्थाः स्थ?
(1) ……………….
मोहनः – आम् पितृव्या! प्रदूषणस्य स्थितिः तु गभीरा सञ्जाता। अतएव
(2) ……………………
पितृव्यः – अवकाशः! परमनेन किं भविष्यति?
(3) ……………………
मोहनः – इदं तु सत्यम्। सर्वकारः प्रदूषणनिवारणाय अन्यानपि उपायान् करोति।
पितृव्यः – (4)…………………….
‘मोहनः । – आम् पितृव्य! सर्वकारेण तु अनेके उपायाः कृताः। जनाः
सार्वजनिकवाहनानां प्रयोगाय प्रेरिताः, समविषमनियमानां प्रयोगेण वाहनयातायातं न्यूनीकरणीयम् इति निर्देशितम्।
पितृव्यः – वत्स! त्वमपि स्वास्थ्यरक्षणाय तत्परो भव।
(5)………..

मञ्जूषा
(क) प्रदूषणस्य दुष्प्रभावः तु बालैः सह वयस्कानामपि स्वास्थ्ये भवति।
(ख) सर्वकारेण सह सामान्यजनैः अपि प्रदूषणवारणस्य प्रयत्नः करणीयः।
(ग) अपरिहार्यस्थितौ एव गृहात् बहिः गच्छ। यावत् वायौ हानिकारकाणि तत्त्वानि सन्ति, तावत् पर्यन्तं गृहे तिष्ठ।
(घ) देहल्यां पर्यावरणप्रदूषणेन स्थितिः भयङ्करी अस्ति इति श्रुयं मया।
(ङ) विद्यालयेषु अपि त्रिदिवसीयः अवकाशः घोषितः।
उत्तर:
1. (घ) देहल्यां पर्यावरणप्रदूषणेन स्थितिः भयङ्करी अस्ति इति श्रुयं मया।
2. (ङ) विद्यालयेषु अपि त्रिदिवसीयः अवकाशः घोषितः।
3. (क) प्रदूषणस्य दुष्प्रभावः तु बालैः सह वयस्कानामपि स्वास्थ्ये भवति।
4. (ख) सर्वकारेण सह सामान्यजनैः अपि प्रदूषणवारणस्य प्रयत्नः करणीयः।
5. (ग) अपरिहार्यस्थितौ एव गृहात् बहिः गच्छ। यावत् वायौ हानिकारकाणि तत्त्वानि सन्ति, तावत् पर्यन्तं गृहे तिष्ठ।

प्रश्न 4.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 37)
रमेश प्रसादः – अभिवादये महोदय!
प्रधानाचार्यः – नमोनमः, किमागमनप्रयोजनम्?
रमेश प्रसादः – (1)………………………
प्रधानाचार्यः – परं सत्रस्य मध्ये प्रवेशः कथं संभवो भविष्यति?
रमेश प्रसादः – (2)……………………..
प्रधानाचार्यः अस्तु, पश्यामि अहं किं कर्तुं शक्नोमि? भवान् किं करोति? छात्रस्य माता वा किं करोति?
रमेश प्रसादः (3)………………………
प्रधानाचार्यः – सा शिक्षिता अस्ति न वा?
रमेश प्रसादः – (4) ……………………..
प्रधानाचार्यः- इदं तु बहुशोभनम्।
शिक्षिता माता (5) ……………………..

मञ्जूषा
(क) अहं केन्द्रसर्वकारे वित्तविभागे सहायकाधिकारी अस्मि। मम पत्नी एका गृहिणी अस्ति। सा गृहस्य सर्वाणि कार्याणि सम्पादयति।
(ख) शिशोः आचारव्यवहारेण समं शैक्षिकप्रगतेः अपि अवधानं कर्तुं समर्था भवति।
(ग) अहं भवतां विद्यालये स्वपुत्रस्य प्रवेशार्थम् निवेदनं कर्तुम् आगतोऽस्मि।
(घ) अहं स्थानान्तरितो भूत्वा अत्रागतोऽस्मि, अतएव सत्रस्य मध्ये प्रवेशार्थं प्रार्थये।
(ङ) आम् महोदय! ‘सा स्नातकपरीक्षोत्तीर्णा अस्ति।
उत्तर:
1. (ग) अहं भवतां विद्यालये स्वपुत्रस्य प्रवेशार्थम् निवेदनं कर्तुम् आगतोऽस्मि।
2. (घ) अहं स्थानान्तरितो भूत्वा अत्रागतोऽस्मि, अतएव सत्रस्य मध्ये प्रवेशार्थं प्रार्थये।
3. (क) अहं केन्द्रसर्वकारे वित्तविभागे सहायकाधिकारी अस्मि। मम पत्नी एका गृहिणी अस्ति। सा गृहस्य सर्वाणि कार्याणि सम्पादयति।
4. (ङ) आम् महोदय! ‘सा स्नातकपरीक्षोत्तीर्णा अस्ति।
5. (ख) शिशोः आचारव्यवहारेण समं शैक्षिकप्रगतेः अपि अवधानं कर्तुं समर्था भवति।

प्रश्न 5.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 38)
प्रवीरः – मनोज महोदय! चिन्तित इव प्रतीयसे? किं कारणं खलु?
मनोजः – (1) ………………
अहम् तस्य व्यवहारेण उद्विग्नतामनुभवामि।
प्रवीरः – किम् सः आरंभतः एव उद्दण्डः आसीत्?
मनोजः – (2) …………….
न जाने इदानीं सः किमर्थम् एवम् आचरति? इति न जाने।
प्रवीरः – (3) ……………..
मनोजः – कक्षायां पञ्चाशत् छात्राः भवन्ति। किम् एकैकमुपरि ध्यानं संभवमस्ति?
प्रवीरः (4) ……………….
परम् यदि कोऽपि असामान्यमाचरति, तर्हि तस्य व्यवहारोपरि तु अवधानं दातव्यमेव।
मनोजः – शोभनं कथयसि (5) ………………..

मञ्जूषा
(क) किं त्वं तस्य परिवर्तितव्यवहारस्य कारणम् अन्विष्टवान्?
(ख) सर्वेषामुपरि तु व्यक्तिगतावधानं न संभवम्।
(ग) अहं मनोवैज्ञानिकरीत्या तस्य व्यवहारस्य कारणं ज्ञास्यामि।
(घ) द्वित्राभ्यां मासाभ्यां एकः छात्रः उद्दण्ड इव आचरति।
(ङ) न, न, सः तु अतीव विनयशीलः आसीत्।
उत्तर:
1. (घ) द्वित्राभ्यां मासाभ्यां एकः छात्रः उद्दण्ड इव आचरति।
2. (ङ) न, न, सः तु अतीव विनयशीलः आसीत्।
3. (क) किं त्वं तस्य परिवर्तितव्यवहारस्य कारणम् अन्विष्टवान्?
4. (ख) सर्वेषामुपरि तु व्यक्तिगतावधानं न संभवम्।
5. (ग) अहं मनोवैज्ञानिकरीत्या तस्य व्यवहारस्य कारणं ज्ञास्यामि।

प्रश्न 6.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 38-39)
शुभंकरः – माधवि! त्वम् अल्पाहारार्थं किम् आनीतवती असि?
माधवी – (1) ……………
अनुरागः – अहम् ओदनं द्विदलं च आनीतवान् अस्मि।
‘शुभंकरः – मम माता मह्यं रोटिकां तुम्बीफलशाकं च दत्तवती, परम्
(2) ……………………
लताः – मम पार्वे आलुकस्य चिप्सं शीतलपेयं चास्ति।
(3) ……………………..
शुभंकरः – आम्, मां शीतलपेयं रोचते।
आशीषः – (4) ……………………..
किं विस्मृतं त्वया यत् चिप्सादिकं जकयोज्यवस्तूनि स्वास्थ्याय हितकराणि न भवन्ति।
शुभंकरः – यद्वस्तु अस्मभ्यं न रोचते, तत् वयं कथं खादेम?
आशीषः – सर्वदा तथ्यमिदं स्मरणीयं यत् (5) ……………………..

मञ्जूषा
(क) अद्यैव शिक्षिका संतुलिताहारविषये पाठितवती।
(ख) मम अल्पाहारपात्रे रोटिका, पनसशाकं चास्ति।
(ग) मह्यं न रोचते रोटिका, शाकं च।
(घ) रुचिकर भोजनं सर्वदा स्वास्थ्यप्रदं न भवति।
(ङ) किं तुभ्यं रोचते?
उत्तर:
1. (ख) मम अल्पाहारपात्रे रोटिका, पनसशाकं चास्ति।
2. (ग) मह्यं न रोचते रोटिका, शाकं च।
3. (ङ) किं तुभ्यं रोचते?
4. (क) अद्यैव शिक्षिका संतुलिताहारविषये पाठितवती।
5. (घ) रुचिकर भोजनं सर्वदा स्वास्थ्यप्रदं न भवति।

प्रश्न 7.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 39-40)
आचार्यः – प्रणव! किं त्वं स्वजीवनलक्ष्यं निर्धारितवान्?
प्रणवः – आम् गुरवः। (1) …………
आचार्यः – शोभनम्, तर्हि चिकित्सको भूत्वा जनसेवां करिष्यसि।
(2)………………..
प्रणवः – महोदय! चिकित्साक्षेत्रे बहुधनार्जनस्यापि अवसरः प्राप्यते।
(3)………………..
आचार्यः – किम् धनार्जनाय विदेशगमनमेव तव जीवनोद्देश्यम्?
(4)………………..
प्रणवः – आचार्य! किं स्वप्रतिभायाः उपयोगं कृत्वा सुविधाकांक्षा नोचिता?
आचार्यः’ – अनुचिता नास्ति सुविधानां च इच्छा, परं।
(5)………………..

मञ्जूषा
(क) स्वदेशं प्रति स्वकर्तव्यस्य उपेक्षा न करणीया।
(ख) अहं चिकित्साविज्ञानं पठिष्यामि।
(ग) भारते अध्ययनं कृत्वा विदेश पलायिष्यसे? किमिदम् उचितम्?
(घ) उत्तम जीवनलक्ष्यम्।
(ङ) अहं तु चिकित्सको भूत्वा विदेशे जीवनं यापयिष्यामि, इति मम मनसि बलवती इच्छा अस्ति।
उत्तर:
1. (ख) अहं चिकित्साविज्ञानं पठिष्यामि।
2. (घ) उत्तम जीवनलक्ष्यम्।
3. (ङ) अहं तु चिकित्सको भूत्वा विदेशे जीवनं यापयिष्यामि, इति मम मनसि बलवती इच्छा अस्ति।
4. (ग) भारते अध्ययनं कृत्वा विदेश पलायिष्यसे? किमिदम् उचितम्?
5. (क) स्वदेशं प्रति स्वकर्तव्यस्य उपेक्षा न करणीया।

प्रश्न 8.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 40-41)
प्रवीरः – श्वः अस्माकं समावर्तनसंस्कारः (farewel ceremony) अस्ति। न जाने कथं द्रुतगत्या वर्षाणि व्यतीतानि।
अतुलः – (1)………………..
प्रवीरः – अहं तु अभियन्त्रविज्ञानं पठिष्यामि।
देवेशः – मया तु चिकित्साविज्ञानं पठिष्यते।
नीलिमा – (2)…………………….
वैष्णवी – अहं “मधुबनीचित्रकला” इत्यस्य प्रशिक्षणं प्राप्य कुटीरोद्योगं चालयिष्यामि। मां चित्रांकनम् अतीव रोचते।
अतुलः (3) ……………..
मण्डनः – अस्मिन् कीदृशम् आश्चर्यम्? (4) …………….
देवेश – त्वमपि मण्डन! तव गणितक्षेत्रे दक्षतां दृष्ट्वा त्वयि भविष्यस्य गणितज्ञं पश्यामि अहम्। त्वं कृषिकार्यं करिष्यसि?
मण्डनः – (5)…………..
अवनीशः – सम्यक् कथितम्। अधुना तु सर्वकारेण भूमिस्वास्थ्यपत्रम् (soil health card) अपि प्रदीयते, येन
भूमिस्वास्थ्यपरीक्षणं भवति।
सर्वे – भूमेः अपि स्वास्थ्यस्य परीक्षणम्? (हसन्ति)
अवनीशः – अथ किम? भूमेः अपि स्वास्थ्यपरीक्षणं कर्तव्यम्।

मञ्जूषा
(क) द्वादशकक्षानन्तरं त्वं कस्मिन् क्षेत्रे भविष्यनिर्माणं करिष्यसि?
(ख) अथ किम्? वैज्ञानिकरीत्या कृषिकार्यं कृत्वा अहं देशस्य कृषिसम्पदः विकासे योगदानं करिष्यामि।
(ग) अहो महदाश्चर्यम्! कक्षायाः सर्वाधिका मेधाविनी छात्रा चित्रकलाक्षेत्रे भविष्यनिर्माणं करिष्यति?
(घ) अहं वस्त्रालंकरणविज्ञानं पठिष्यामि।
(ङ) अहमपि कृषिविज्ञानं पठित्वा कृषिकार्यं करिष्यामि।
उत्तर:
1. (क) द्वादशकक्षानन्तरं त्वं कस्मिन् क्षेत्रे भविष्यनिर्माणं करिष्यसि?
2. (घ) अहं वस्त्रालंकरणविज्ञानं पठिष्यामि।
3. (ग) अहं वस्त्रालंकरणविज्ञानं पठिष्यामि।
4. (ङ) अहमपि कृषिविज्ञानं पठित्वा कृषिकार्यं करिष्यामि।
5. (ख) अथ किम्? वैज्ञानिकरीत्या कृषिकार्यं कृत्वा अहं देशस्य कृषिसम्पदः विकासे योगदानं करिष्यामि।

प्रश्न 9.
अधोलिखितं संवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 41-42)
(विद्यालयात् गृहम् आगच्छति अभिषेक:)
अभिषेकः – मातः! गृहात् बहिः अवकरः प्रक्षिप्तः अस्ति। कः प्रक्षिप्तवान् अवकरम्?
माताः – (1)………………
किमभवत्? त्वं किमर्थं पृच्छसि?
अभिषेकः – मातः! किं गृहाभ्यन्तरं मार्जनेन एव स्वच्छताकार्य समाप्यते खलु?
माताः – (2) ………….
अभिषेकः – मातः! मार्गमुभयतः अवकराणां पर्वत इव दृश्यते, तस्य मालिन्यम्
अस्माकं श्वासे अवरोधं जनयति। एते (3) …………
अतएव अस्माभिः अस्माकं परिवेशः स्वच्छः करणीयः।
माताः – त्वं सुष्ठु भणसि। परं किमहमेकाकिनी एव मार्गस्य परिष्करणं करवाणि?
अभिषेकः – (4) ………….
माताः – शोभनं वत्स! परं सद्यः एव तव मनसि स्वच्छतायाः संकल्पः कथम् उद्भूतः?
अभिषेकः – (5) ………….

मञ्जूषा
(क) अवकराः अनेकान् रोगान् अपि जनयन्ति।
(ख) वयम् आरम्भं कुर्मः। शनैः शनैः अन्ये अपि अस्मिन् पुनीतकर्मणि सहयोगिनः भविष्यन्ति।
(ग) अद्य विद्यालये स्वच्छतायाः महत्त्वविषये आचार्या पाठितवती।
(घ) सर्वे स्वगृहमेव परिष्कुर्वन्ति।
(ङ) अहमेव गृहस्य मार्जनं कृत्वा अवकरं बहिः प्रक्षिप्तवती।
उत्तर:
1. (ङ) अहमेव गृहस्य मार्जनं कृत्वा अवकरं बहिः प्रक्षिप्तवती।
2. (घ) सर्वे स्वगृहमेव परिष्कुर्वन्ति।
3. (क) अवकराः अनेकान् रोगान् अपि जनयन्ति।
4. (ख) वयम् आरम्भं कुर्मः। शनैः शनैः अन्ये अपि अस्मिन् पुनीतकर्मणि सहयोगिनः भविष्यन्ति।
5. (ग) अद्य विद्यालये स्वच्छतायाः महत्त्वविषये आचार्या पाठितवती।

प्रश्न 10.
स्वस्य भ्रात्रा, भगिन्या, अथवा मित्रेण सह संवादं पञ्चवाक्यैः स्वशब्दैः लिखत। (पृष्ठ 42)
उत्तर:
भ्रातुः भगिन्या सह संवादम्
1. भ्राता – अद्य अहम् विद्यालयं गन्तुम् न शक्नोमि।
2. भगिनी – कथम् विद्यालयं न गच्छसि?
3. ‘भ्राता – मम उदरे पीड़ा वर्तते।
4. भगिनी – तदा तु त्वम् औषधं गृह्यताम्।
5. भ्राता – मया औषधम् तु पूर्वम् एव गृहीतम्।
6. भगिनी – अधुना विश्रामम् कुरु।
7. भ्राता – आम्, अहम् विश्रामम् कर्तुम् इच्छामि।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *