Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 13 मिश्रिताभ्यासः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 13 मिश्रिताभ्यासः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 13 मिश्रिताभ्यासः

अभ्यासः I

प्रश्न 1.
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।”

अभ्यासः

(i) एकपदेन उत्तरत-
(क) कः हतोत्साहः अभवत्?
(ख) असफलतायाः कारणात् सुवीरस्य मनसि कस्य भावना जागृता?
(ग) पिपीलकः भित्तौ किं प्राप्नोति?
(घ) सुवीरः पुनः पुनरभ्यासेन किं स्थान प्राप्तवान्?
उत्तरम्:
(क) सुवीरः
(ख) आत्मघातस्य
(ग) मिष्टान्नम्
(घ) विशिष्टम्

(ii) पूर्णवाक्येन उत्तरत-
(क) सुवीरः आत्मघातस्य भावनां निन्दयन् किं चिन्तयति?
(ख) के वसुधायां वसूनि प्राप्नुवन्ति?
उत्तरम्:
(क) सुवीरः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलकः सततप्रयासेन सफलः भवितुं शक्तनोति तर्हि न किमपि असम्भवं जगति।
(ख) परिश्रमशीलाः वीराः वसुधायां वसूनि प्राप्नुवन्ति।

(iii) यथानिर्देशम् उत्तरत-
(क) ‘स: अन्ततः भित्तिम् आरोहति’-अत्र किम् अव्यय-पदम्?
(ख) ‘संसारे’ इति पदस्य किं समानार्थकपदम् अनुच्छेदे प्रयुक्तम्?
(ग) ‘तस्य विवेकः जागृतः अभवत्’-अत्र किं कर्तृपदम्?
(घ) ‘वसुधायां बहूनि वसूनि सन्ति’ – अत्र किं विशेषणपदम्?
उत्तरम्:
(क) अन्ततः
(ख) वसुधायाम्
(ग) विवेकः
(घ) बहूनि

प्रश्न 2.
‘आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति’ एतद्विषयम् अधिकृत्य एकम् लघुम् अनुच्छेद लिखत-
उत्तरम्:
आत्मघातः एकः अपराधः वर्तते। इमम् अपराधं कुर्वन् मानवः अतीव कष्टम् अनुभवति। यः जनः संसारस्य समस्यायाः समाधानं न विचिन्त्य आत्मघातं करोति सः तस्य च परिवारिकाः जनाः कदापि सम्मानं न लभन्ते। तस्य मृत्योः पश्चादपि सा समस्या तथैव तिष्ठति अपितु तस्याः रूपम् अतीव कष्टकर भवति। अतः कदापि आत्मघातं न कृत्वा समस्यायाः समाधानं कुर्यात्।

प्रश्न 3.
‘पठनस्य के लाभाः’ – इति वर्णनं कुर्वन्तः मित्रं प्रति पत्रमेकं लिखत-
उत्तरम्:

छात्रावासः
त्रिभुवन विद्यालयः आरा नगरम्
बिहार प्रदेशः
दिनांक : _________

सेवायाम्
प्रिय मित्र यथार्थ प्रणव!

सप्रेम नमः।

अत्र कुशलं तत्रास्तु। भवतः पत्रम् अद्यैव प्राप्तम्। पत्रेण ज्ञातं यत् गतेषु षण्मासेषु भवतः मनः पठने न उपतिष्ठति। अनेन कारणेन षण्मासिकी परीक्षायां भवान् उत्तमानि अकानि न प्राप्नोत्। मित्रवर! पठनं तु मानवानां धनं उन्नते: च सोपानं वर्तते। अनेन जीवने प्रसन्नता प्रसिद्धिः आनन्दं च सर्वां प्राप्नुवन्ति। अतः ईश्वरं सम्पूज्य रुचिपूर्वकं भवान् पठतु। तदैव भविष्यः कल्याणकारी भविष्यति।
शुभकामनाभिः सह

तव मित्रं
गोविन्दः

प्रश्न 4.
सन्धिच्छेदः सन्धिः वा क्रियताम्-

(i) हतोत्साहः = _________ + _________
(ii) विवेकः + जागृतः = _________
(iii) सः + अन्ततः = _________
(iv) एतद्विचिन्त्य = _________ + _________
उत्तरम्:
(i) हत + उत्साहः
(ii) विवेकोजागृतः
(iii) सोऽन्ततः
(iv) एतत् + विचिन्त्य

प्रश्न 5.
समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-

(i) सुवीरः हतः उत्साहः यस्य सः भूत्वा एकस्मिन् कोणे तिष्ठति।
(ii) तस्य मनसि आत्मघातस्य भावना जागृता।
(iii) सः अभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्।
(iv) वत्स! वीरैः भोग्या वसुन्धरा।
उत्तरम्:
(i) सुवीरः हतोत्साहः भूत्वा एकस्मिन् कोणे तिष्ठति।
(ii) तस्य मनसि आत्मन:घातस्य भावना जागृता।
(iii) सः अभ्यासं कुर्वन् कक्षायां विशिष्टस्थान प्राप्तवान्।
(iv) वत्स! वीरभोग्या वसुन्धरा।

प्रश्न 6.
उचित-प्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

(i) पठनम् अरुचिकरं _________ (मन् + शानच्) छात्राः सफलाः न भवन्ति।
(ii) सततप्रयासेन मन्दोऽपि सफलः _________ (भू + तुमुन्) शक्नोति।
(iii) अस्मिन् वर्षे अहम् कक्षायां विशिष्टं स्थानं _________। (प्र + आप् + क्तवतु)
(iv) पुनः पुनः पतित्वा अपि हतोत्सहितः न _________। (भू + तव्यत्)
उत्तरम्:
(i) मन्यमानाः
(ii) भवितुं
(iii) प्राप्तवान्
(iv) भवितव्यः

प्रश्न 7.
प्रदत्तवाक्यानां वाच्यपरिवर्तनम् कृत्वा लिखत-

(i) सुवीरः एकस्मिन् कोणे तिष्ठति।
(ii) पिपीलक: अन्ततः भित्तिम् आरोहति।
(iii) शिक्षकेण तस्य प्रशंसा क्रियते।
(iv) परिश्रमशीलैः वीरैः एव वसूनि प्राप्यन्ते।
उत्तरम्:
(i) सुवीरेण एकस्मिन् कोणे स्थीयते।
(ii) पिपीलकेन अन्ततः भित्तिः आरुह्यते।
(iii) शिक्षक: तस्य प्रशंसां करोति।
(iv) परिश्रमशीला: वीराः एव वसूनि प्राप्नुवन्ति।

प्रश्न 8.
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

(i) उसका विवेक जागृत हो जाता है।
(ii) उसने वृक्ष पर चढ़ते हुए साँप को देखा।
(iii) हमें पुनः पुनः पाठों का अभ्यास करना चाहिए।
(iv) मुझे पढ़ना अच्छा लगता है।
उत्तरम्:
(i) तस्य विवेको जागृतो भवति।
(ii) सः वृक्षम् आरोहन्तम् सर्पम् अपश्यत्।
(iii) वयं पुनः पुनः पाठानामभ्यासं कुर्याम।
(iv) मह्यं पठनं रोचते।

प्रश्न 9.
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-

(i) बालकः एकस्मिन् कोणे तिष्ठति।
(ii) सः भित्तिम् आरोहन्तं पिपीलकं पश्यति।
(iii) वसुधायां बहूनि वसूनि सन्ति।
(iv) अहम् उत्साहितः भूत्वा तत्रागच्छम्।
उत्तरम्:
(i) बालकः एकं कोणम् उपतिष्ठति।
(ii) सः भित्तिम् आरोहन्तं पिपीलकम् अपश्यत्।
(iii) वसुधायां बहवः वसवः सन्ति।
(iv) अहम् उत्साहितो भूत्वा तत्र अगच्छम्।

अभ्यासः II

प्रश्न 1.
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

(i) एकपदेन उत्तरत-
(क) प्रसादे केषां हानिः भवति?
(ख) ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु किं भवति?
उत्तरम्:
(क) सर्वदुःखानाम्
(ख) वृद्धिः

(ii) पूर्णवाक्येन उत्तरत-
(क) प्रतिकूलपरिस्थिती: विरुध्य के विजयम् अधिगच्छन्ति?
(ख) किं कदापि न कर्तव्यं किम् च न त्याज्यम्?
उत्तरम्:
(क) विपरीत परिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्ययेन प्रतिकूल परिस्थिती: विरुध्य विजयम् अधिगच्छन्ति।
(ख) विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

(iii) निर्देशानुसारम् उत्तरत-
(क) ‘पराजयम्’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ख) ‘तेषाम् दुःखेषु वृद्धिः भवति’ इति वाक्यांशे ‘भवति’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?
(ग) ‘सर्वेषाम्’ इति सर्वनामपदम् अत्र कस्मै प्रयुक्तम्?
(घ) ‘स्वस्य’ इति पदस्य किं पर्यायपदम् अत्र आगतम्?
उत्तरम्:
(क) विजयम्
(ख) वृद्धिः
(ग) दु:खेभ्यः
(घ) आत्मनः

(iv) गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तरम्:
सुखस्य महिमा / प्रसन्नतायाः महत्त्वम्

प्रश्न 2.
प्रसन्नतायाः महत्त्वविषये पञ्चवाक्यमितम् अनुच्छेदं सरलसंस्कृतेन लिखत-
उत्तरम्:
प्रसन्नता जनानां सुखस्य कारणमस्ति। अनया जनाः सुस्वास्थ्य, धनधान्यं कीर्तिञ्च प्राप्नुवन्ति। जीवने दुःखस्य मूलकारणम् क्रोधः कोपश्च वर्तेते। प्रसन्नः जनः कदापि परनिन्दा स्वार्थ परकानि कार्याणि न कृत्वा सदैव परोपकारमेव करोति। अनेन तस्य जीवने ऐश्वर्यस्य आनन्दस्य च वृद्धिः जायते। अतः जनाः कदापि स्वजीवने अहंकारं स्वार्थपरकानि कर्मणि न कुर्युः। केवलं परोपकारम् कृत्वा एव जनैः स्वजीवनलक्ष्यं प्राप्तव्यम्।

प्रश्न 3.
गृहे पितुः रुग्णतायाः कारणेन भवतः/भवत्याः मित्रम् दुःखितः अस्ति। तं सान्त्वयन् पत्रमेकं सरलसंस्कृतेन लिखत-
उत्तरम्:

5/15, ओमालयम्
वजीरपुरम्, नई दिल्ली
तिथि : _________

सेवायाम्,
प्रिय मित्र आनन्द!
सप्रेम नमस्ते।

अद्य भवतः पत्रं प्राप्तम्। ज्ञात्वा दुःखम् अभवत् यत् सम्प्रति भवतः पितुः स्वास्थ्यं उत्तमं नास्ति। तस्य हृदये पीड़ा रक्ते च अतीव शर्करा स्तः। भवता चिन्ता न कर्तव्या। भवान् उत्तमेन चिकित्सकेन तस्य चिकित्सां कारयतु। आयुषः अपि प्रभावो भवति। माम् आशा अस्ति यत् सः शीघ्र स्वस्थो भविष्यति। मम योग्या सेवा अपि लिखतु भवान्।

शुभकामनाभिः सह

तव मित्र
अपूर्वः कौशलः

प्रश्न 4.
अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेदं कुरुत-

(i) हाहाकारेण तु दु:खेषु वृद्धिः + एव भवति। _________
(ii) मनसः प्रसन्नता तु अत्यावश्यकी। _________ + _________
(iii) कः + अपि दु:खं नैव इच्छति। _________
(iv) विषादः कदापि न कर्तव्यः। _________ + _________
(v) वृद्धानां सेवां कृत्वा प्रसन्नो भव। _________ + _________
(vi) वयं सर्वे सुखम् + इच्छामः। _________
उत्तरम्:
(i) वृद्धिरेव
(ii) अति + आवश्यकी
(iii) कोऽपि
(iv) कदा + अपि
(v) सेवाम् + कृत्वा
(vi) सुखमिच्छामः

प्रश्न 5.
रेखांकितपदानां समस्तपदं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-

(i) दुःखानां विनाशः कथं भवति इति ज्ञातव्यम्।
(ii) नीतिषु लाभालाभौ न विचारणीयौ।
(iii) दुखानाम् अभावः मनसः प्रसन्नतायै आवश्यकः।
उत्तरम्:
(i) दु:खविनाशः कथं भवति इति ज्ञातव्यम्।
(ii) नीतिषु लाभः च अलाभः च न विचारणीयौ।
(iii) निर्दु:खं मनसः प्रसन्नतायै आवश्यकः।

प्रश्न 6.
उचितप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

(i) दु:खानां विनाशस्य उपायं ज्ञा + तव्यत्। _________
(ii) प्रियजनस्य रुग्णता दुःखदायिका। _________+ _________
(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्तव्यम्। _________ +_________
(iv) त्वं प्रतिकूलपरिस्थिती वि + रुध् + ल्यप् विजयं प्राप्नुहि। _________
उत्तरम्:
(i) ज्ञातव्यम्
(ii) रुग्ण + तल्
(iii) दृश् + क्त्वा
(iv) विरुद्ध्य।

प्रश्न 7.
प्रदत्तवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखत-

(i) गीतायां श्रीकृष्णः अर्जुनं प्रति कथयति।
(ii) वयं सर्वे सुखम् इच्छामः।
(iii) विनम्रजनः पितरं सेवते।
(iv) पुत्रेण औषधिना पितुः रोगविनाशस्य प्रयत्नं क्रियते।
उत्तरम्:
(i) गीतायां श्रीकृष्णेन अर्जुनं प्रति कथ्यते।
(ii) अस्माभिः सर्वैः सुखम् इष्यते।
(iii) विनम्रजनेन पिता सेव्यते।
(iv) पुत्रः औषधिना पितुः रोगविनाशस्य प्रयत्नं करोति।

प्रश्न 8.
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

(i) हम सभी सुख चाहते हैं।
(ii) मन की प्रसन्नता कभी नहीं छोड़नी चाहिए।
(iii) गीता में श्रीकृष्ण ने अर्जुन से कहा।
(iv) वह प्रियजन की रुग्णता (बीमारी) में सेवा करके प्रसन्न होता है।
उत्तरम्:
(i) वयं सर्वे सुखम् इच्छामः।
(ii) मनसः प्रसन्नता कदापि न त्यक्तव्या/त्यजेत्।
(iii) गीतायां श्रीकृष्णः अर्जुनम् अवदत्।
(iv) सः प्रियजनस्य रुग्णतायां सेवां कृत्वा प्रसीदति।

प्रश्न 9.
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-

(i) मूर्खाः जनाः दु:खं दृष्ट्वा केवलं हाहाकारं करोति।
(ii) दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते।
(iii) रोगं समस्यां वा दृष्ट्वा तस्य समाधानं कुरु।
(iv) विषाद: कदापि न कर्तव्यः।
उत्तरम्:
(i) मूर्खाः जनाः दुःखं दृष्ट्वा केवलं हाहाकारं कुर्वन्ति।
(ii) दुःखानाम् अभावाय मनसः प्रसन्नता अत्यावश्यकी वर्तते।
(iii) रोगं समस्यां वा दृष्ट्वा तेषां समाधानं कुर्यात्।
(iv) विषादः कदापि न कुर्यात्।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *