Skip to content

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 3 अनुच्छेदलेखमन्

श्रवण – भाषण – कौशल – विकासार्थम्

1. जन्तुशाला
जन्तूनां शाला जन्तुशाला इति कथ्यते। जन्तुशालायाम् अनेके पशवः पक्षिणः च भवन्ति। जनाः इमान् पक्षिणः पशून् च द्रष्टुम् दूरतः आगच्छन्ति। जन्तुशालायाः सर्वाः व्यवस्थाः प्रशासनेन क्रियते। बालकाः जन्तुशाला गत्वा प्रसन्नाः भवन्ति।

2. स्वच्छता स्वच्छता जीवने आवश्यकी भवति। सामान्यतया जनाः स्वगृहं स्वच्छीकुर्वन्ति, परं मार्गस्य प्रतिवेशस्य च स्वच्छतायाः विषये अवधानं न यच्छन्ति। अस्माकं प्रधानमंत्री नरेन्द्रमोदी राष्ट्रपितुः गान्धिनः जन्मदिवसे स्वच्छताभियानस्य आरम्भं कृतवान्। अधुना बालकाः अपि स्वच्छताविषये जागरूकाः सन्ति। ते स्वगृह विद्यालयं च यथाशक्ति स्वच्छं कर्तुं प्रयन्ते।

3. वृक्षो रक्षति रक्षितः
वृक्षाः जीवनस्य आधाराः भवन्ति। वृक्षैः, नदीभिः, पर्वतैः च सुशोभिता इयं प्रकृतिः मानवानां कृते उपयोगिनी भवति। परं स्वार्थरताः मानवाः विकास प्रति अन्धधावनशीलाः निर्ममभावेन वृक्षान् कृन्तन्ति। अस्माभिः सर्वैः तथ्यमिदं ध्यातव्यं यत् यदा वयं वृक्षाणां रक्षणं करिष्यामः तदा वृक्षाः अस्माकं रक्षा करिष्यन्ति। वृक्षाणाम् अवदानविषये श्लोकोऽयं दर्शनीयः अपि-

पत्रपुष्पफलच्छायामूलवल्कलदारुभिः।
गन्धनिर्यासभस्मास्थिततोक्यैः कामान् वितन्वते।।

4. हीमादासः
हीमादासः असमराज्यस्य एकस्मिन् अतिनिर्धने कृषकपरिवारे जन्म अलभत्। अस्याः जन्म जनवरीमासस्य नवम्यां तिथौ द्विसहस्रतमे (2000) वर्षे अभवत्। दारिद्र्यात् सुविधानाम् अभावे सा नियमित प्रशिक्षणमपि न प्राप्नोत् तथापि सा हतोत्साहिता नाभवत्। आई.ए.ए.एफ विंशतिवर्षेभ्यः निम्नवर्गे या धावनप्रतियोगिता अभवत् तस्यां सा स्वर्णपदकं प्राप्य भारतवर्ष गौरवान्वितम् अकरोत्। वस्तुतः आदर्शरूपा प्रेरणास्वरूपा च सा सर्वस्मै युववर्गाय।

5. सहिष्णुता
वयं प्रतिदिनं समाचारेषु यातायातमार्गेषु वर्धमानां हिंसाम् अधिकृत्य सामाचारान् शृणुमः। अतीव दुःखदायिनी एषा स्थितिः यतः अद्यत्वे जनेषु सहिष्णुतायाः अभावः जातः। वस्तुतः सहिष्णुतायाः अभावे मानवस्य दुर्गतिः एव भवति। समाजस्य विघटनस्य कारणमपि धार्मिक-सहिष्णुतायाः अभावः एवास्ति। यदि अस्माकं मनसि ‘वयं सर्वे सदृशाः स्मः’ इति भावना भवेत् तदा प्रकृत्या एव वयं सहनशीलाः भविष्यामः। क्रोधं संयम्य उचितानुचितं विचार्य एव कोऽपि निर्णयः कर्तव्यः।

6. संस्कृतशिक्षणम्
प्राचीनकाले संस्कृतं व्यवहारस्य भाषासीत् परम् अधुना एषा तथा न दृश्यते मन्यते। संस्कृतभाषा जनभाषा भवेद् एतदर्थ ‘संस्कृतभारती’ नामक संस्थानं संस्कृतभाषायाः प्रचाराय प्रसाराय च प्रयतते। अत्र अनेकाः परियोजनाः प्रचाल्यन्ते यासु बालानां कृते वयस्कानां कृते च संस्कृतसम्भाषण-शिक्षणस्य रुचिकरी व्यवस्था क्रियते। ‘वदतु संस्कृतम्’, ‘संस्कृतव्यवहार-साहस्री’, ‘भाषाप्रवेशः’, ‘गीतसंस्कृतम्’ शिशुसंस्कृतम् इत्यादीनि अनेकानि बालोपयोगीनि पुस्तकानि अपि अनेन संस्थानेन प्रकाशितानि। सान्द्रमुद्रिकाः ध्वनिमुद्रिकाः अपि इतः प्राप्तुं शक्यन्ते। एवं संस्कृतभाषाधिग्रहणाय सर्वथा उपयुक्तमेतत् स्थानम्।

7. मम धर्मः
अहं मानवः अस्मि। मानवता मम गुणः धर्म: च। धर्मस्य दृष्ट्या अहं केवलं भारतीयः एव अस्मि। विस्तरेण यदि कथयामि तर्हि भारतीय-परम्परानुसारं धर्मः जीवनव्यवहारः भवति। एवं भ्रातृत्वं, पितृत्वं, शिक्षकत्वं, छात्रत्वं सहयोगित्वं मित्रत्वञ्चादयः मे अनेके धर्माः। एतैः सर्वैः धमैंः उपेतः अहम् एकः भारतीयः एतदेव सत्यम्। भारतस्य उन्नत्यर्थं प्रयतिष्ये भारतीयां संस्कृतिम् च उन्नेष्यामि एष मम सङ्कल्पः।

8. पुस्तकम्
पुस्तकानि मानवस्य सर्वोत्तममित्राणि। कुपितं मित्रम् अस्माभिः सह कपटं कर्तुं शक्नोति परं पुस्तकानि सदैव अस्मांक कल्याणाय सज्जानि भवन्ति, अतः अस्माभिः एतादृशं हितकरं मित्रं कदापि न त्याज्यम्। प्रत्यक्षम् अप्रत्यक्षं सर्वविधं ज्ञानं पुस्तकैः प्राप्तुं शक्यते। अत एव कथितमति–’सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः।’ अतः पुस्तकमेलकानि अपि भवन्ति यत्र वयं विविधविषयाणां पुस्तकानि एकस्मिन्नेव स्थाने प्राप्तुं क्षमाः, अतः अस्माभिः सदैव स्वाध्यायपरैः भवितव्यम्।

9. स्वाध्यायः
विद्यालये पठितस्य पाठस्य यदा गृहे वयं पुनः अध्ययनं कुर्मः तद्विषये चिन्तनं कुर्मः अभ्यास वा कुर्मः तत्कर्म ‘स्वाध्याय’ इति कथ्यते। अद्यत्वे छात्राणां मूलसमस्या स्वाध्यायस्य अभावः अस्ति। विद्यालये पञ्च-षट्-होरापर्यन्तम् अध्यापकैः विविधविषयानवगत्य छात्र: गृहं प्राप्नोति तदा च अन्यशिक्षकेभ्यः व्यक्तिगतरूपेणापि पाठनस्य प्रबन्धं पितरौ कुरुतः। एवं छात्रेभ्योऽपि इदमेव प्रतीयते यद वयं प्रात:कालात आरभ्य सायं यावत् पठामः एव, अतः अधुना मनोरञ्जनाय अन्यत् किमपि कर्तव्यम्। एवं स्वाध्यायस्य अभावे विषयवस्तु हृदयङ्गमः एव न भवति अपितु परीक्षाचिन्ताकारणं सिध्यति अतः
आवश्यकता तु इयमस्ति यत् पठितं विषयं प्रतिदिनं स्वाध्यायेन हदयङ्गम करणीयम्।

10. मयूरः
मयूरः अस्माकं राष्ट्रियपक्षी अस्ति। एषः मूलतः वन्यपक्षी अस्ति। बहुरङ्गः मयूरः अतिसुन्दरः प्रतिभाति। वर्षाकालं वसन्तर्तुं च प्राप्य एष: सुन्दरम् आकर्षकञ्च नृत्यं करोति। एतस्य नृत्यं दृष्ट्वा केकारवञ्च श्रुत्वा जनाः मुदिताः भवन्ति। भारतवत् म्याँमारस्य, श्रीलङ्कायाश्चापि राष्ट्रियपक्षी मयूरः अस्ति। देवानां सेनापते: कार्तिकेयस्य वाहनम् अपि मयूरः एवास्ति। मयूरपिच्छं विना श्रीकृष्णस्य शृङ्गारः अपूर्ण: मन्यते। अस्माभिः मयूरप्रजाति: रक्षणीया।

11. आतङ्कवादः
हिंसात्मकक्रियाभिः स्वकीय-वर्चस्वस्थापनाय भयोत्पादनम् अथवा भस्य वातावरण निर्माणम् एव आतङ्कवाद: उच्यते। एषः केनापि एकेन जनेन समूहेन वा भवितुं शक्यते। अयम् असामाजिकतत्त्वैः असंवैधानिक-क्रियाभिः स्वकीयेच्छां पूरयितुं विभिन्नस्तरेषु सञ्चाल्यमानः भवति। अनेन समान्यजीवनं सङ्कटापन्नं भवति। आतङ्कवादेन गृहे, समाजे, देशे, विदेशेषु च असुरक्षायाः भावः भयञ्च उत्पद्यते। जनसम्म यत्र कुत्रपि, कदापि, किमपि भवितुं क्यते। आतङ्कवादिसङ्घटनानां मुख्य लक्ष्यं भयोत्पादनमेव। आतङ्कवादस्य समूलनाशाय सर्वेषां राष्ट्राणां सहयोगः परमावश्यकः अस्ति।

1. अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
(i) भूकम्पविभीषिका
(ii) पर्वतारोहणम्
(iii) पर्यावरणसंरक्षणम्
(iv) गृहाकार्य कियत् उपयोगी?
(v) मम जीवनलक्ष्यम्
(vi) हास्योपचारः
(vii) ग्राम्यजीवनम्
(viii) जलसंरक्षणस्य उपायाः
(ix) विद्यालयस्य उन्नत्यै छात्राणां सहयोगः
(x) क्रीडाप्रतियोगिता।
उत्तरम्:
(i) भूकम्पविभीषिका
भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पन्नम् इत्यादि वैपरीत्यम् एव भूकम्पः। भूकम्पः यदा सम्भवति तदा तरङ्गाणा: संख्या भूमिः कम्पिता भवति। भूकम्पस्य केन्द्र परितः एते तरङ्गाः प्रसरन्ति। भूकम्पस्य परिणामतः भूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते। भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव। सेस्मोग्राफ उपेकरेणन भूकम्पत: उत्पन्न शक्तिः मापयितुं शक्यते। एतान् मानचित्रम् बृहत् भूकम्पवलयं दर्शयति। प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर उपकरणे आश्रमस्थानं अतिक्रान्तः

(ii) पर्वतारोहणम्
पर्वतयात्रा लोकेभ्यः अतीव आनन्ददायिनी भवति। ये जनाः पर्वतेषु न वसयिन्त तेभ्यः पर्वतयात्रा अत्यधिक-रम्या रुचिकरी च अस्ति। गत सप्ताह अहम् अपि स्वमित्रैः सह शिमलायात्रार्थं गृहात् निर्गतः। तत्र प्राप्त वयम् विषम-मार्गम् आरोढुं तत्परा: आस्म। अयं मार्गः प्रतिपदं पाद-स्खलनोन्मुखः आसीत्। अयम् उत्तरोत्तरं आरोहम् एव याति स्म। मध्ये कुत्रापि अवरोहः नासीत्। पादक्षेपे एकस्य अपि पलाशस्य असावधानता पादभङ्ग जयनेत्। अवपतनात् नासाभंग, दन्तभंगः, मस्तकभंगो वा भवेत्। वयम् अतिसावधानतया दीर्घ निःश्वसन्तः शनैः शनैः ऊर्ध्वं गच्छामः स्म। प्रदोषकाले पर्वतम् अधस्तात् प्रकाश वर्त्तकाः द्राद् दूरं दीपमालेव अदृश्यन्त। अधुना अपि स्मर्यमाणाः पर्वताः माम् आह्वयन्तः इव प्रतीयन्ते।

(iii) पर्यावरणसंरक्षणम्
अस्मान् परितः यानि पञ्यमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवहीयते। इत्युक्ते मनुष्यः यत्र निवसति, यत् खादति, यत् वस्त्र धारयति, यज्जलं पिबति, यस्य पवनस्य सेवनं करोति, तत्सर्व पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवल भारतस्य, अपितु, समस्तविश्वस्य समस्या वर्तते। निरंतरं वर्धमानं प्रदूषणं सर्वेषाम् चिन्तियाः विषयः जनः। यतः प्रदूषण अधिकाः मनुष्याः रूग्णाः भवन्ति। अनेन प्रकृत्याः हानिः भवति, जीवनामपि हानिः भवति। पर्यावरणस्य रक्षा अस्माभिः सर्वेः करणीया। स्थाने-स्थाने विविधाः वृक्षाः रोपणीयाः। तेषां च संवर्धनमपि अवश्य कर्त्तव्यम्। वृक्षारोपणं सर्वेषां नैतिकं कर्तव्यम् अस्ति। जल प्रदूषण निवारणार्थं जलशुद्धिः करणीया। अवकरः मार्ग न क्षेपणीयः। यदि सर्वे नागरिकाः पर्यावरण विषये कृतसंकल्पाः भवन्ति तर्हि किमपि दुष्करं नास्ति।

(iv) गृहकार्य कियत् उपयोगी?
विद्यालये शिक्षकः स्वविषयं पूर्वतः एव सम्यक् पाठित्वा कक्षायाम् आयाति। कठिनम् अपि विषयम् उदाहरणैः सह सरलीकृत्य उपस्थापयति। अध्यापन समये शिक्षकः पुनः पुनः प्रश्नान् करोति, तेन सर्वेऽपि छात्राः सावधानाः तिष्ठन्ति। छात्राः अपि प्रश्नान् पृच्छन्ति। सः तान् सम्यक् समादयतो। शिक्षकः प्रतिदिनं छात्राय गृहकार्यम् अपि ददाति। परस्मिन् दिने छात्राणां गृहकार्य पश्यति। यत्र यत्र प्रमादः वर्तते तंत्र तेन निराकरणं क्रियते। छात्राणां पुनः पुनः प्रमादं दृष्ट्वा तस्य मनः खेदं न वहति। यः छात्रः प्रमादं करोति, शिक्षकः तं पुनः पुन: बोधयति। समये कृते, कार्येण सफलता प्राप्नोति, जानं वर्धते। अतः सर्वेः, छात्राणाम् कर्तव्या सन्ति यत् तान छात्रान् गृहकार्यस्य उपयोगिता बोधयित्वा परिश्रमपूर्वकेन कार्य कर्तव्यम् इत्यम् ते जीवने सफलतां प्राप्नुवन्ति। अतएव छात्रेम्यः गृहकार्य अति उपयोगी वर्तते।

(v) मम जीवनलक्ष्यम्
मानव मात्रस्य कोऽपि महान अभिलाषे वर्तते। केचित् जनाः धनोपार्जनम् एवं जीवनस्य लक्ष्यं मन्यन्ते। ते सततं तस्मिन् एव दत्तमानसः जायन्ते। केचित् विद्याम् एव पूजायाः करणं मन्यमानाः तत्रैव यतन्ते। केचित् जगति येन केन प्रकारेण प्रसिद्धिम् अधिगन्तुम् इच्छन्ति। केचित् राजनीतिक्षेत्रे ख्याति प्राप्तुम् आकांक्षन्ति। केचित् लक्ष्यविहीनाः एव जीवनं यापयन्ति। मया ‘पुष्पस्य अभिलाषः’ इति कस्यचित् कवेः कविता पठित्वा स्वलक्ष्य निर्धारितम्। एतस्यां कवितायां पुष्पं निजाभिलाषं वर्णयत् कथयति। यत् हे मालाकारः त्वं माम् उत्पाट्य तस्मिन् मार्गे प्रक्षिप यत्र अनकेवीराः मातृभूमे सम्मान-रक्षणार्थ प्राणान् करतलेषु निधाय गच्छन्ति। अधुना मम जीवनस्य लक्ष्य मातृभूसेवा अस्ति। राष्ट्रियचरित्र्यस्य अभाव दूरीकर्तुम् अहम् अहोरात्रं प्रयतितुं कामये।

(vi) हास्योपचारः
शरीरस्य नीरोगतायाः अनेकानि साधनानि सन्ति। तेषु साधनेषु हास्योपचारः महत्त्वपूर्ण स्थानम् अस्ति। हास्योपचारेण रुधिरस्य सम्यक् अनिरुद्धश्चय सञ्चारो जायते। तेन च सर्वाणि इन्द्रियाणी स्वस्थानि तिष्ठन्ति। कार्ये कुशलता जायते। बुद्धिः अप्रतिहता तिष्ठति। उरसि शक्तिः स्फीतता च जायते। शरीरं पुष्टम सशक्तं च भवति। मस्तिष्कम् उर्वरम् तिष्ठति। आस्मिन् लोके स्वहितम् इच्छता मनुष्येण निज सामर्थ्यानुसारं वयोऽनुसार हास्योपचारः करणीयः। शरीरं बिना तु धर्मरक्षा अपि न सम्भवेत्।

(vii) ग्राम्यजीवनम्
भारते नगराणाम् अपेक्षया ग्रामाणां संख्या अधिका वर्तते। तस्मात् ग्रामजीवनम् अत्र प्रमुखतां वहति। अस्मिन् देशे ग्राम्यजीवनम् नगरजीवनात् पर्याप्तं भिन्नम् अस्ति। ग्राम्यजीवने कृषिः एव प्रमुखो व्यवसाय:। ग्रामेषु कृषकाणां समीपं जीवन निर्वाहात् अधिका भूमिः न वर्तते। ते अतिकठिनतया निर्वाहं कुर्वन्ति। श्रमिकवर्गस्तु अत्यर्थं दारिद्रयं गतः तिष्ठति। सः दिने द्विकृत्व: न उदरपूरं भुङक्तो ग्रामीणाः दैनिकावश्यकतानां पूर्ति तु ग्रामदेव कुर्वन्ति। चणकान्, तण्डुलान् शर्करां, शाकान् वस्त्राणि च ग्रामादेव लभन्ते। उत्पादितम् अधिकम् अन्नं विक्रेतुं समीपस्यां मण्डी नयन्ति। ग्रामीणाः प्रायेण भाग्यं परम् मन्यमानाः सन्ताषेण कालं यापयन्ति। अधुना सुबद्धमार्ग प्रसारात्; विद्युत्प्रयोगात्, शिक्षाप्रचारात् च ग्रामवासिनाम् अपि बहुधिसमृद्धिः, न अतिदूरा तिष्ठति।

(viii) जलसंरक्षणस्य उपाया:
‘जलम् एव हि जीवनम्’ अस्मिन् संसारे जलेन एव जीवनां जीवनं सम्भवति। वयं शुद्ध जलं वषार्याः एव विन्दामः। एतत् जलम् नदीषु, तडागेषु, सरोवरेषु च एकत्रितं भवति। एतत् एव जलम् अस्माकं क्षेत्राणि उद्यानानि च सिञ्चति। नदीनाम् जलं पवित्रम् आरोग्यवर्धकं-शान्तिप्रदं च भवति। परन्तु अद्यन्ते वयम् अस्य अमूल्य जलस्य सम्मानं न कुर्मः। जनाः जलेषु अवकरं क्षिपन्ति, वस्त्राणि प्रक्षालयन्ति पात्राणि च स्वच्छं कुर्वन्ति, येत्र जलं दूषितं भवति। यदि वयं जलं प्रदूषितं करिष्यामि तर्हि अस्माकं जीवनम् अपि नाशं भविष्यति। दूषितेन जलेन क्षेत्राणि शुष्यन्ति, अन्नानि फलानि च न भविष्यन्ति, क्षुधापीडिताः जीवाः जनाः च नष्टाः भविष्यन्ति। अतएव अस्माकं कर्तव्यम् अस्ति यत् जलस्य संरक्षणं संवर्धनं भवेत्।

(ix) विद्यालयस्य उन्नत्यै छात्राणां सहयोगः
विद्यालस्य परिसरः शान्तिपूर्णः प्रकृत्यामनोहरः भवन्ति। अत्र अध्ययने छात्रा: गौरवम् अनुभवन्ति। क्रीडाक्षेत्रे क्रीडित्वा अभ्यासं च कृत्वा ते प्रतियोगितासु प्रवेशं प्राप्नुवन्ति। विद्यालये विज्ञान प्रयोगशालायाम् प्रयोगेण विज्ञान सिद्धान्तान् अवगच्छन्ति। पुस्तकालये पुस्तकानि समाचार-पत्राणि पठित्वा ते स्वज्ञाने वृद्धिं कुर्वन्ति, विशेष योग्यतां लाब्धवा उत्तीर्णाः भवन्ति। बहवः छात्राः छात्रवृत्तिं लब्धवा प्रतियोगी परीक्षासु प्रवेशं च अपि प्राप्नुवन्ति। पारितोषिकान् प्राप्य विद्यालयस्य उन्नत्यै सहयोगं गच्छान्ति। अत्र सुपठनस्य प्रबन्धो वर्तते च सदाचरण शिक्षायाः व्यवस्था विद्यते। इत्थम् छात्र सर्वविधं उन्नतिं प्राप्य विद्यालयस्य उन्नत्यै सहयोगं गच्छति।

(x) क्रीडाप्रतियोगिता
अक्तूबरमासे प्रतिवर्ष विद्यालयस्य क्रीडा-दिवसः भवति। तदा विविधानां क्रीडाप्रतियोगितानाम् आयोजनम् भवति। गतवर्षे मानितः क्रीडादिवसः अतीव स्मरणीयः आसीत्। तत्र छात्रैः अपूर्वेण उत्साहेन भागो गृहीतः। प्रधावन-प्रतियोगितासु त्रिशत मीटर-प्रधावन-प्रतियोगिता अद्वितीया आसीत्। शाटपुट-प्रतियोगिषु सुरेशः लौहगोलम् अतिदूरं प्रक्षिप्य नवीन क्षेपमानम् अस्थापयत्। भारोतोलन-प्रतियोगितायां न केनापि उत्साहः प्रदर्शितः किन्तु मन्दचालप्रतियोगितायां छात्रैः अपूर्वस्य धैर्यस्य प्रदर्शन कृतम्। द्विचक्रिका प्रतियोगितायां तु एका छात्रा मार्गे एव पतिता मूर्च्छिता च। छात्राभिः रज्जु-कर्षण-प्रतियोगितायाम् अपि अपूर्वः उत्साहः प्रदर्शिता। प्रतियोगिता-परिसमाप्तौ अध्यक्षमहाभागैः परितोषिकानि प्रहतानि। इत्थम् अयं प्रतियोगिता-समारोहः सर्वेषाम् हर्षातिरेकम् अजनयत्।

The Complete Educational Website

Leave a Reply

Your email address will not be published.