Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

शिक्षकः – (कक्षां प्रविश्य) नीरजादित्योमेशौजसाः किं भवद्भिः कार्यं कृत न वा?
(सर्वे छात्रा: विस्मयेन इतस्तत: दृष्ट्वा शिक्षकं पश्यन्ति।)
शिक्षकः – किं जातम्? नीरज! आदित्य! उमेश! औजस! युष्मान् एव पृच्छामि।
नीरजः – (आश्चर्येण) गुरुवर! भवद्भिः अस्माकं सर्वेषां नामानि कथं संयोजितानि?
शिक्षक: – सन्धिमाध्यमेन।
उमेशः – किमेवम्? कृपया विस्तरेण बोधयतु।
शिक्षकः – बोधयामि, बोधयामि, धैर्यवन्तः भवन्तु। प्रथम ह्यस्तनं कार्यं तु दर्शयत।
(सर्वे छात्राः शीघ्रतया कार्यं दर्शयन्ति।)
आदित्यः – महोदय! कार्यं सर्वैः कृतमस्ति। अधुना कृपया बोधयत।
शिक्षकः – नवमकक्षायां सन्धिविषये पठितुम् आसीत्। किं स्मर्यते?
औजसः – आम्, आम्, स्मरामः वयम्। अस्तु-‘नीरज-आदित्य’ इति नीरजादित्य-अत्र दीर्घ-सन्धिः कृतः भवद्भिः।
उमेशः – आम्, आम्, स्मर्यते मयाऽपि नीरजादित्य-उमेश एवं तु दीर्घसन्धेः अनन्तरं गुणसन्धिः कृतः भवता।
आदित्यः – स्पष्टम्। पुनः वृद्धि-सन्धिः कृतः नीरजादित्योमेशौजसाः इति।
शिक्षकः – शोभनम्। अतीव शोभनम्। एवमेव प्रयोगेण पठिताशान् अवगन्तुं पारयामः।
अदितिः – गुरुवर! अत एव मम नाम्ना सह दीप्तेः नामयोजनेन ‘दीप्त्यदिती’ इति यण सन्धे: नियमानुसारमेव भवता आकार्यते प्रायशः।
शिक्षकः – आम्, सम्यगवगतम्। अधुना अभ्यासेन एतान् चतुरः भेदान् पुनरावृत्त्य स्वरसन्धेः नवीनान् भेदान् पठिष्यामः।

अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-
जानामि + अहम् (i) ________ यत् जलोपप्लवेन (ii) ________ + ________पीडितः रमा-ईश: (iii) ________ वृक्षारूढः (iv) ________ + ________ अभवत्। लीलया+एव (v) ________ सर्वमसहत। तदा सः साधु+उपदेशम् (vi) ________ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन (vii) ……….. गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् (vii) ________ + ________ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि (ix) ________ रमेशस्य गृहमागच्छतः। सर्वेऽपि (x) ________ + ________ एकत्रीभूय भोजनं पचन्ति।
(सर्वे छात्राः एकैकं कृत्वा सर्वेषाम् उदाहरणानाम् समाधानं कुर्वन्ति तदा एकः छात्रः वदति।)
उत्तरम्:
(i) जानाम्यहम्
(ii) जल + उपप्लवेन
(iii) रमेशः
(iv) वृक्षः + आरूढः
(v) लीलयेव
(vi) साधूपदेशम्
(vii) महौत्सुक्येन
(viii) खलु + इदम्
(ix) द्वावपि
(x) सर्वे + अपि

आदित्यः – गुरुवर! अन्तिमौ द्वौ तु स्पष्टौ न भवतः।
शिक्षकः – अस्तु, अवबोधयामि एकैकं कृत्वा।
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
एवमेव
(i) द्वौ + एते – _______ पठतः।
(ii) तौ + अत्र – ________ लिखतः।
(iii) पो + अनम् – पवनम् मन्दं मन्दं वहति।
(iv) पौ + अक: – _________ सर्व दहति।
(v) भावुकः – _________ + _________ न भवितव्य।
(vi) ने + अनम् – नयनम् उद्घाट्य एव मार्गे चलत।
(vii) शे + अनम् – _________ रात्रौ एव करणीयम्।
(viii) _____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
(ix) गै + अकः – गायक: मधुरं गायति।
(x) नै + अक: – _____ सुन्दरं नृत्यति।
(xi) शायिकाः – _____ + _____ रेलयानेषु भवन्ति।
उत्तरम्:
(i) द्वावेते
(ii) तावत्र
(iv) पावकः
(v) भौ+उक:
(vii) शयनम्
(viii) चे + अयनम्
(x) नायक:
(xi) शै + इका:

‘एचोऽयवायावः’ इति नियमानुसारं ए, ऐ, ओ, औ-इत्येतेषां स्वराणां परतः कस्मिंश्चिदपि स्वरे आगते एतेषां चतुर्णा स्थाने क्रमशः अय्, आय, अव्, आव् च भवन्ति। एते ‘अयादिचतुष्टय’ इति नाम्नाऽपि ज्ञायन्ते।

छात्राः – अवगतः अस्माभिः अयादिसन्धिः।
शिक्षकः – पठिते अनुच्छेदे अन्तिम वाक्यमासीत्-सर्वेऽपि(सर्वे अपि)एकत्रीभूय भोजन पचन्ति। एतत् पूर्वरूपसन्धेः उदाहरणम् अस्ति।

एवमेव अन्यानि उदाहरणानि पश्यन्तु-
(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।
(ii) सर्वत्र – _____ + _____ उपविशन्ति।
(iii) विष्णोऽवतु – अवतु माम्।
(iv) शिशोऽपि – _____ + _____ कुशली त्वम्।
(v) साधोऽत्र – _____ + _____ भोजनं कुरु।
उत्तरम्:
(i) अन्ये + अपि
(ii) सर्वे + अत्र
(iv) शिशो + अपि
(v) साधो + अत्र

‘एङः पदान्तादति’, इति सूत्रानुसार पदान्तयोः ए, ओ इत्येतयोः परतः यदि अकारः आगच्छेत् तर्हि द्वयोः स्थाने पूर्वरूपः अर्थात् ‘ए, ओ’ एव भवति। अकारश्च s इति अवग्रहस्य चिह्वेन दर्श्यते। एषः भेद: ‘पूर्वरूपसन्धिः’ इति कथ्यते।

छात्राः – पूर्वरूपसन्धिरपि स्पष्टः। किं कोऽप्यन्यः भेदः भवति स्वरसन्धेः।
शिक्षकः – आम्, प्रकृतिभावः पररूपश्च एतौ द्वौ अन्यौ भेदो अपि स्तः। परं दशमकक्षायां केवलं षड्भेदाः। अधुना एतेषां पुनरभ्यासम् कुर्मः येन स्वरसन्धिः पूर्णतया हृदयंगमः भवेत्।

अभ्यासः

1. अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

(i) वानराः सर्वत्र वृक्षे अपि _______ कूर्दन्ति।
(ii) के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
(iii) हे शिशोऽत्र _______ + _______ आगत्य उपविश।
(iv) ते पठन्ति, तावपि _______ + _______ पठतः।
(v) यथा उचितं _______ कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति _______ + _______ + _______
(vii) साधूपरि _______ + _______ गच्छतः।
(viii) कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचार: _______ + _______ तु न करणीयः।
(x) भानो + ए _______ जलार्पणं करणीयम्।
उत्तरम्:
(i) वृक्षेऽपि
(ii) केऽत्र
(ii) शिशो + अत्र
(iv) तौ + अपि
(v) यथोचित
(vi) तव + एव + अस्ति
(vii) साधु + उपरि
(vii) कवीन्द्रः
(ix) अति + आचारः
(x) भानवे

शिक्षकः – छात्राः! हाः अस्माभिः स्वरसन्धिः सम्यगवगतः। अद्य व्यञ्जनसन्धि विसर्गसन्धि चावबोधयामि।
छात्राः – (समवेतस्वरेण) आम् श्रीमन्! वयमपि सन्धेः अन्यान् भेदान् अवगन्तुम् इच्छामः।
(अध्यापक: श्यामपट्टसहायतया पाठयति।)
(छात्राश्च स्वपुस्तिकासु लिखन्ति)

व्यञ्जन-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) चलत् + अनिशम् – चलदनिशम् एव उन्नतिं करोति।
(i) एतस्मादेव = _______ + _______ पाठात् त्वं पठ।
(ii) जगत् + ईशः = _______ सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = _______ + _______ कथ्यते।
(iv) शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।
उत्तरम्:
(i) एतस्मात् + एव
(ii) जगदीशः
(iii) अच् + अन्तः
(iv) सुबन्तः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 1

(ख) अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
(i) सम्यक् + नेता = __________ एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = __________ + __________ खल्विदं लिखितम्।
(iii) सः प्रत्यक्+आत्मा = __________ भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = __________ + __________ ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = __________ + __________’व्यतीताः।
उत्तरम्:
(i) सम्यग्नेता
(ii) किम् + नु
(iii) प्रत्यगात्मा
(iv) दिक् + नागः
(v) षड् + मासाः

(ग) सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
(i) शरत् + चन्द्र = _________ मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = _________ + _________
(iii) मनस्+चञ्चलम् = _________ हि भवति।
(iv) हरिश्शेते = _________ + _________ वैकुण्ठे।
उत्तरम्:
(i) शरच्चन्द्रः
(ii) कुर्यात् + जीवितम्
(iii) मनश्चञ्चलम्
(iv) हरि: + शेते

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 2

(घ) धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
(i) प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = ________ + ________ च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत् + डयनम् = ________ अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते = ________
उत्तरम्:
(i) बालष्षष्ठः
(ii) तत् + टीका
(iii) उड्डयनम्
(iv) लेखकस् + टीकते

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 3

(ङ) अतिथे: सद्-कार:-सत्कार: करणीयः।
(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = _______
(ii) दिक्पाल: = _______ + _______ क: भवति?
उत्तरम्:
(i) लप्स्यते
(ii) दिक् + पाल:

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 4

(च) अ. हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
(i) अहम् + पुनः = ________ पाठं पठिष्यामि।
(ii) अपूर्व खलु = ________ + ________ आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = ________ + ________ आकारयसि किम्?
(iv) श्रेष्ठम् + कर्म = ________ एव कर्तव्यम्।
उत्तरम्:
(i) अहंपुनः
(ii) अपूर्वम् + खलु
(iii) त्वम् + माम्
(iv) श्रेष्ठकर्म

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 5

(छ) आ. अति सम् + चयः = सञ्चयः न कर्तव्यः।
(i) शीतकाले शैत्यं कम्पनम् + च = ________ अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = ________ + ________ दुष्करम्।
(iii) भुजनगरम् + तु = ________ गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम् + ठित: = ________ असि?
उत्तरम्:
(i) कम्पनञ्च
(ii) सत् + चरणम्
(ii) भुजनगरमस्तु
(iv) कुण्ठितः

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 6

विसर्ग-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) हे मित्र! नमः + ते = नमस्ते।
(i) शत्रोः अपि शिरः + छेदः = शिरश्छेदः न करणीयः।
(ii) कठिना परिस्थितिः दारुणः + च = _______ कालः।
(iii) तुरका + तुरझौः = ________ सह धावन्ति।
(iv) धनुष्टङ्कारः = ________ + ________ श्रूयते।
(v) सः कठिन तपस्तेपे = ________ + ________
उत्तरम्:
(ii) दारुणश्च
(ii) तुरश्तुरङ्गैः
(iv) धनु: + टङ्कारः
(v) तपः + तेपे

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 7

(ख) रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
(i) निर्धनः + जन:- निर्धनो जनः धनाभावे सदा दुःखितः भवति।
(ii) चौरः + अयम् = _______ मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
(iv) पण्डितो जनः = _______ + _______ विद्वान् भवति।
(v) सः पठति ततोऽसौ = _______ + _______ लिखति।
(vi) तस्य मनोरथ = _______ + _______ सिध्यति।
उत्तरम्:
(ii) चोरोऽयम्
(iii) व्याघ्रोनष्टः
(iv) पण्डितः + जनः
(v) ततः + असौ
(vi) मनः + रथः

(ग) वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 8

(i) वसन्ते प्रकृतिः + एव = प्रकृतिरेव मनोहारिणी।
(ii) कन्या पितुः + गृहत् = _________ त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविक: = _________ + _________ नौकां चालयति।
(iv) नाटककार: कविरपि = _________ + _________ च काव्यं कुरुतः।
(v) अहं पदातिरेव = _________ + _________ विद्यालयम् आगच्छामि।
उत्तरम्:
(ii) पितुर्गृहम्
(ii) नौ + इक:
(iv) कविः + अपि
(v) पदातिः + एव

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 9

(घ) ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
(i) आकाशे = ________ + ________ कपोता उत्पतन्ति।
(ii) अर्जुनः + उवाच = ________ अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति = ________ + ________ पठन्ति च।
(iv) बसयानेन स गच्छति = ________ + ________ विद्यालयम्।
(v) एषः + आगच्छति = ________ कार्यं करोति पठति च।
उत्तरम्:
(i) आ + काशे
(ii) अर्जुनोऽवाच
(iii) आ + गच्छन्ति
(iv) सः + गच्छति
(v) एषागच्छति

अनुनासिकसन्धिः

1. अधोलिखितानि वाक्यानि ध्यानेन पठत-

(क) एतन्न शोभनीयम्।
(i) तन्न उचितम्।
(ii) वाङ्मयं तपः।
(ii) तन्मयो भूत्वा कार्यं कुरु।
(iv) एतन्मुरारिः अस्ति।
(v) तन्नाम किमस्ति।

उपरि लिखितानि सर्वाणि उदाहरणानि अननासिकसन्धेः सन्ति।
अनुनासिकसन्धौ पूर्वपदस्य अन्तिमः वर्ण: यदि वर्गस्य कोऽपि वर्णः भवति, उत्तरपदस्य प्रथमः वर्ण: यदि अनुनासिक वर्णः भवति तदा पूर्वपदस्य अन्तिमवर्णः स्ववर्गस्य पञ्चमवणे परिवर्तितः भवति। यथा-
तन्नाम – तत्(त्) + नाम
वर्गस्य प्रथमः वर्ण: + वर्णस्य अन्तिमः वर्णः
तदा त् वर्णः स्ववर्गस्य अन्तिमे ‘न्’ इति वर्णे परिवर्तितः भवति।
एते सर्वे वर्णाः अनुनासिकवर्णाः सन्ति।
यथा- ङ्, ज्, ण, न्, म्

अभ्यासः

1. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) हे ईश्वर! सन्मतिं यच्छ।
(ii) हे छात्रा:! सत् + मार्गे चलत।
(iii) प्रलयकाले सर्वत्र अम्मयं भवति।
(iv) जगन्नाथः सर्वान् रक्षति।
(v) तन्मात्रम् एव खाद।
(vi) कक्षायां षट् + नवतिः छात्रा:सन्ति।
(vii) सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।
(viii) मम सन्मुखे तिष्ठ।
(ix) दिक् + नागः सर्वान् रक्षति।
उत्तरम्:
(i) सत् + मति
(ii) सन्मार्गे
(iii) अत् + मयं
(iv) जगत् + नाथ:
(v) तत् + मात्रम्
(vi) षण्नवतिः
(vii) जगन्माता
(vii) सत् + मुखेः
(ix) दिङ्नागः

तुक् आगम-सन्धिः

2. अधोलिखितानि वाक्यानि पठत-

(i) ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।
(ii) हे छात्रा:! एकम् अनुच्छेदं लिखत।
(ii) पुरा भारते एकच्छत्र राज्यम् आसीत्।
(iv) आकाशः मेघैः आच्छन्नः अस्ति।
(v) सम्बन्ध-विच्छेद: न करणीयः।
उत्तरम्:
(i) वृक्षः + छायां
(ii) अनु + छेदं
(ii) एक + छत्रं
(iv) आ + छन्न:
(v) वि + छेद:

उपरि यानि रेखाङ्कितपदानि सन्ति तानि सर्वाणि ‘तुक्’ आगम-सन्धेः उदाहरणानि सन्ति।
तुक्-आगम: – सन्धौ यदि पूर्वपदे ‘अ, इ, उ, ऋ स्वराः भवन्ति उत्तरपदे च ‘छ’ भवति तदा उभयो: पदयो: मध्ये ‘च्’ वर्ण: आगच्छति।
परं यदि पूर्वपदे आ, ई ऊ स्वरा: भवन्ति तदा ‘च्’ वर्णस्य आगम: विकल्पेन भवति।
यथा- लक्ष्मी-छाया = लक्ष्मी छाया / लक्ष्मीच्छाया

3. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) शोधच्छात्राः – ___________
(ii) विच्छेद: – ___________
(iii) अनु + छेदः – ___________
(iv) परि + छेदः – ___________
(v) लक्ष्मीच्छाया – ___________
(vi) वृक्ष + छाया – ___________
(vii) तवः + छवि: – ___________
(viii) वृक्षच्छेदनम् – ___________
(ix) छुरिका + छिन्नः – ___________
(x) शब्दच्छेदः
उत्तरम्:
(i) शोध + छात्रा:
(ii) वि + छेदः
(ii) अनुच्छेदः
(iv) परिच्छेदः
(v) लक्ष्मी + छाया
(vi) वृक्षच्छाया
(vii) तवच्छवि:
(viii) वृक्ष + छेदनम्
(ix) छुरिकाच्छिन्नः
(x) शब्द + छेदः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *