Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

1. अधोलिखितानि वाक्यानि पठत-

(i) बालकः पठितुं विद्यालयं गच्छति।
(ii) पठित्वा गुरुं प्रणम्य सः गृहमागच्छति।
(iii) ततः सः तर्तुम् तरणतालं गच्छति।
(iv) तस्य मित्रं व्यायामं कर्तुं व्यायामशालां गच्छति।
(v) ततः आगत्य तौ पाठान् स्मरतः।

उपरिलिखितानि रेखाङ्कितपदानि प्रत्यययुक्तानि सन्ति। भवन्तः नवकक्षायां एतान् प्रत्ययान् पठितवन्तः, अधुना तेषां पुनरभ्यासं कृत्वा एतानि अतिरिच्य कतिपयान् प्रत्ययान् पठिष्यामः।
(क) शब्दस्य धातोः वा अन्ते ये शब्दांशाः प्रयुज्यन्ते ते प्रत्ययाः भवन्ति।
(ख) प्रत्ययानां योगेन शब्दस्य अर्थः परिवर्तते।
(ग) प्रत्ययाः त्रिविधाः भवन्ति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 1

ध्यातव्यम् तथ्यम्-
(क) क्त्वा-तुमुन्-प्रत्यययुक्तानि पदानि अव्ययानि भवन्ति।
(ख) धातुना विशेषणं निर्मातुं, “कर्तुं योग्यम्” इत्यर्थे तव्यत्, अनीयर्, यत् प्रत्ययाः युज्यन्ते।
(ग) धातुना (क्रियया) विशेषणं निर्मातुं शतृशानचौ प्रत्ययौ प्रयुज्यते।
(घ) भूतकालिकक्रियाणां प्रयोगाय क्त-क्तवतू प्रत्ययौ प्रयुज्यते।
(ङ) अनेन गुणेन युक्त इत्यर्थे मतुप/वतुप्, ठक्, णिनि च प्रत्ययाः प्रयुज्यन्ते।
(च) भाववाचकसंज्ञा विज्ञापयितुं त्व, तल् च प्रत्ययौ प्रयुज्यते।

शत-प्रत्यय

2. अधोलिखितानि वाक्यानि ध्यानेन पठन्तु-

(i) ध्यायतः विषयान् पुंसः तेषु सङ्गः उपजायते।
(ii) गच्छन्तः यात्रिणः जल्पन्ति।
(iii) खादन् नरः न वदति।
(iv) चिन्तयन् लवः लिखति।
(v) गायन्ती बालिका प्रशंसा प्राप्नोति।
(vi) पतत् फलं त्रुट्यति (विभक्तं भवति)

उपरिलिखितेषु वाक्येषु रेखाङ्कितपदानि शतृ-प्रत्ययुक्तानि सन्ति। शतृप्रत्यययुक्तानि पदानि विशेषणानि भवन्ति। एतेषां रूपम् एवं भवति-
पठ् + शतृ – पठत्
क्रीड् + शतृ – क्रीडत्
लिख् + शतृ – लिखत्
ब्रू + शतृ – वदत्
धाव् + शतृ – धावत्
श्रु + शतृ – शृण्वित्
गम् + शतृ – गच्छत्
कृ + शतृ – कुर्वत्
भू + शतृ – भवत्
पा/पिब् + शतृ – पिबत्
नी + शतृ – नयत्

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 2
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 3

शानच्-प्रत्ययः

3. शानच्-प्रत्यययुक्तपदानि अपि विशेषणानि भवन्ति।

परस्मैपदी-धातुभिः सह शतृप्रत्ययः प्रयुज्यते। आत्मनेपदीधातुभिः सह शानच् प्रत्ययः अपि प्रयुज्यते-
सेव् + शानच – सेवमानः
मुद् + शानच – मोदमानः
रुच् + शानच् – रोचमानः
वृध् + शानच् – वर्धमानः
सह् + शानच् – सहमानः
लभ् + शानच् – लभमानः

एतेषां प्रयोगान् अधः पश्यामः
सेवमानः बालकः – सेवमानौ बालको – सेवमाना: बालकाः

एतस्य रूपाणि पुल्लिने बालकवत् भवन्ति।
सेवमाना बालिका – सेवमाने बालिके – सेवमानाः बालिकाः

एतस्य रूपं स्त्रीलिङ्गे लतावत् चलति।
लभमानं धनम् – लभमाने धने – लभमानानि धनानि
सेवमानं मित्रम् – सेवमाने मित्रे – सेवमानानि धनानि

नपुंसकलिङ्गे एतस्य रूपं फलवत् भवति।

अभ्यासः

1. शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

(i) _______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)
(ii) वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)
(iii) जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)
(iv) कथां _______ महिला शिशुं शाययति। (श्रु + शत)
(v) कार्य _______ स्रियः गीतं गायन्ति। (कृ + शत)
उत्तरम्:
(i) धावन्तः
(ii) नयन्
(iii) पिबन्तौ
(iv) शृण्वन्ती
(v) कुर्वन्त्यः

2. शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

(i) गुरुं सेव् + शानच् ____________ छात्राः सफलतां लभन्ते।
(ii) कष्टं सह + शानच् ____________ जनाः दु:खिनः भवन्ति।
(iii) सत्यं ब्रू + शानच् ____________ नराः सम्मान प्राप्नुवन्ति।
(iv) तस्य वध + शानच ____________ प्रगतिः पितरं हृष्यति।
(v) मुद् + शानच् ____________ बालिका नृत्यति।
उत्तरम्:
(i) सेवमानाः
(ii) सहमानाः
(iii) ब्रूवाणाः
(iv) वर्धमाना
(v) मोदमाना

3. अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

(i) कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
शृण्वन्
शृण्वन्ती
शृण्वन्त्यः

(ii) गम् + शतृ बालिके चिन्तयतः।
गच्छन्ती
गच्छन्त्यौ
गच्छन्तौ

(iii) वद् + शतृ बालकम् आकारय।
वदन्
वदन्तौ
वदन्तम्

(iv) धाव् + शतृ क्रीडकेन पथिकः आहतः।
धावन्
धावन्तम्
धावता

(v) श्रान्तः भू + शतृ अरुणः स्वपिति।
भवन्
भवन्तौ
भवन्तः
उत्तरम्:
(i) शृण्वन्ती
(ii) गच्छन्ती
(iii) वदन्
(iv) धावन्
(v) भवन्

तव्यत्-प्रत्ययः

अधोलिखितानि वाक्यानि पठत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 4
अत्र भवन्तः किं पश्यन्ति?
एतानि सर्वाणि वाक्यानि ‘तव्यत्’ प्रत्यययुक्तानि सन्ति।

विशेष:

  • तव्यत्-प्रत्ययस्य प्रयोगः ‘विधिलिङ्लकारस्य’ अर्थे भवति।
  • अस्य अर्थः भवति सम्भावना, अनुमतिः इत्यादयः।
  • तव्यत्-प्रत्ययस्य ‘त्’ वर्णस्य लोपः भवति ‘तव्य’ धातोः पश्चात् प्रयुज्यते।
    यथा- पठ् + तव्यत् = पठितव्य
  • प्रत्ययस्य पश्चात् अस्य रूपाणि
    Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 6
  • ‘तव्यत्’ प्रत्ययस्य प्रयोगः कर्मवाच्ये भवति-

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 5

अभ्यासः

1. रिक्तस्थानानि पूरयत-

(i) रमेण पाठः ____________। (लिख् + तव्यत्)
(ii) लतया पुष्पाणि न ____________। (त्रुट् + तव्यत्)
(iii) त्वया जलं वृथा न ____________। (कृ + तव्यत्)
(iv) त्वया उच्चैः न ____________। (वद् + तव्यत्)
(v) अस्माभिः बहिः ____________। (भ्रम् + तव्यत्)
(vi) सर्वैः सत्यं ____________। (वद् + तव्यत्)
(vii) युष्माभिः सन्तुलितभोजनम् एव ____________। (खाद् + तव्यत्)
(viii) अमितेन अवश्यमेव तत्र ____________। (गम् + तव्यत्)
(ix) नकुलेन पाठाः ____________। (पठ् + तव्यत्)
(x) तैः धर्मः ____________। (पाल् + तव्यत्)
उत्तरम्:
(i) लेखितव्यः
(ii) त्रोटितव्यानि
(iii) कर्तव्म्
(iv) वक्तव्यम्
(v) भ्रमितव्यम्
(vi) वक्तव्यम्
(vii) खादितव्यम्
(viii) गन्तव्यम्
(ix) पठितव्याः
(x) पालयितव्यः

2. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(i) ____________ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
(ii) ____________ खगाः रक्षणीयाः। (युष्मद्)
(iii) ____________ पाठाः पठितव्याः। (नमित)
(iv) ____________ अनुशासनं पालयितव्यम्। (सर्व)
(v) ____________ देशरक्षा कर्त्तव्या। (सैनिक)
(vi) ____________ मधुरं वक्तव्यम्। (जन)
(vii) ____________ परिश्रमः कर्त्तव्यः। (श्रमिक)
(viii) ____________ नियमाः पालयितव्याः। (अध्यापक)
(ix) ____________ मनसा पाठयितव्यम्। (शिक्षक)
(x) ____________ लेखौ लिखितव्यौ। (तत्)
उत्तरम्:
(i) मचा / अस्माभिः
(ii) त्वया / युष्माभिः
(iii) नमितेन
(iv) सर्वैः
(v) सेनिकेन / सैनिकैः
(vi) जनेन / जनैः
(vii) श्रमिकेण / श्रमिकैः
(viii) अध्यापकेन
(ix) शिक्षकेण
(x) तेन / ताभ्याम्

3. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(i) न्यायाधीशेन ____________ कर्त्तव्यः। (न्याय)
(ii) त्वया ____________ खादितव्यम्। (पौष्टिक भोजन)
(ii) सर्वैः प्रातः ____________ कर्त्तव्यम्। (भ्रमण)
(iv) तेन ____________ पठितव्याः। (कथा)
(v) अस्माभिः ____________ स्मर्तव्याः। (पाठ)
(vi) युष्माभिः ____________ एव सवितव्यानि। (सुचरित)
(vii) जनैः ____________ एव कर्तव्यानि। (सुकार्य)
(viii) छात्रैः ____________ प्रष्टव्याः। (प्रश्न)
(ix) बालैः ____________ न दूषयितव्यम्। (जल)
(x) यष्माभिः ____________ न त्रोटयितव्यानि। (पुष्प)
उत्तरम्:
(i) न्यायः
(ii) पौष्टिकभोजनं
(iii) भ्रमणं
(i) कथा:
(v) पाठा:
(vi) सुचरितानि
(vii) सुकार्याणि
(vii) प्रश्नाः
(ix) जलम्
(x) पुष्पाणि

अनीयर्-प्रत्ययः

1. अधोलिखितानि वाक्यानि पठत-

(i) बालैः वृद्धाः सदैव पूजनीयाः।
(ii) छात्रैः अध्यापकाः सम्माननीयाः।
(iii) अस्माभिः पितरौ पूजनीयौ।
(iv) युष्माभिः गुरूणां आज्ञा पालनीया।
(v) सर्वैः जलं रक्षणीयम्।
(vi) जनैः धरा रक्षणीया।
(vii) सर्वैः वृक्षाः आरोपणीयाः।
(viii) अस्माभिः पुष्पाणि न त्रोटनीयानि।
(ix) सर्वैः अनुशासनं पालनीयम्।
(x) सुमितेन सुचरितानि सेवितव्यानि।

उपरि यानि रेखाङ्कितानि पदानि सन्ति तानि ‘अनीयर्’ प्रत्यययुक्तानि सन्ति।

  • ‘अनीयर’ प्रत्ययस्य प्रयोगः योग्यार्थे भवति।
  • ‘अनीयर्’ प्रत्ययस्य ‘र’ वर्णस्य लोपः भवति, केवलम् ‘अनीय’ धातोः पश्चात् प्रयुज्यते।
    यथा- पठ् + अनीयर् = पठनीय।
  • धातोः पश्चात् यदा ‘अनीयर’ प्रत्ययस्य प्रयोगः भवति तदा अस्य रूपाणि-
    Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 16

‘अनीयर्’ प्रत्ययस्य प्रयोगः कर्मवाच्ये भवति।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 7

1. अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 8
उत्तरम्:
(i) आचरणीयः
(ii) करणीयः
(iii) करणीयाः
(iv) पालनीयाः
(v) पठनीयः
(vi) प्रश्न में ‘अनीयर्’ प्रत्यययुक्त पद नहीं है।
(vii) वदनीयम्
(viii) करणीयम्
(ix) पानीयम्
(x) खादनीयम्

2. अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

(i) मनसा सततं स्मरणीयम्।
(ii) वचसा सततं वदनीयम्।
(iii) लोकहितं मम करणीयम्।
(iv) न भोगभवने रमणीयम्।
(v) न सुखशयने शनीयम्।
(vi) अहर्निशं जागरणीयम्।
(vii) लोकहितं मम करणीयम्।
(viii) न जातु दु:खं गणनीयम्।
(ix) न च निजसौख्यं मननीयम्।
(x) कार्यक्षेत्रे त्वरणीयम्।
(xi) लोकहितं मम करणीयम्।
(xii) दु:खसागरे तरणीयम्।
(xiii) कष्टपर्वते चरणीयम्।
(xiv) विपत्तिविपिने भ्रमणीयम्।
(xv) लोकहितं मम करणीयम्।
(xvi) सदा मया सञ्चरणीयम्।
(xvii) लोकहितं मम करणीयम्।
उत्तरम्:
(i) स्मरणीयम्
(ii) वदनीयम्
(iii) करणीयम्
(iv) रमणीयम्
(v) शयनीयम्
(vi) जागरणीयम्
(vii) करणीयम्
(viii) गणनीयम्
(ix) मननीयम्
(x) त्वरणीयम्
(xi) करणीयम्
(xii) तरणीयम्
(xiii) चरणीयम्
(xiv) भ्रमणीयम्
(xv) करणीयम्
(xvi) सञ्चरणीयम्
(xvii) करणीयम्

3. कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(i) युष्माभिः प्रातः उत्थाय ____________। (पठ् + अनीयर्)
(ii) जनैः सर्वदा सर्वेषां कल्याणं ____________। (कृ + अनीयर्)
(iii) अस्माभिः सुकार्याणि ____________। (कृ + अनीयर्)
(iv) सर्वैः ईशवन्दना ____________। (स्मृ + अनीयर)
(v) त्वया मधुराणि वचनानि ____________। (वद् + अनीयर)
(vi) सैनिकैः दु:खं न ____________। (गण् + अनीयर्)
(vii) अस्माभिः धर्मः ____________। (आ + चर् + अनीयर्)
(viii) त्वया वृथा न ____________। (वच् + अनीयर्)
(ix) जनैः प्रातः ____________। (जागृ + अनीयर)
उत्तरम्:
(i) पठनीयम्
(ii) करणीयम्
(iii) करणीयानि
(iv) स्मरणीया
(v) वदनीयानि
(vi) गणनीयम्
(vii) आचरणीयः
(viii) वचनीयम्
(ix) जागरणीयम्

4. उदाहरणानुसारं लिखत-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 9
उत्तरम्:
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 10

तद्धित-प्रत्ययाः
शिक्षकः- अधोलिखितवाक्यानि ध्यानेन पठत-
(i) बुद्धिमान् सदैव सफलः भवति।
(ii) कीर्तिमान् सर्वत्र यशः प्राप्नोति।
(iii) धनवान् निर्धनस्य साहाय्यं करोति।
(iv) शक्तिमान् जनः भारं वोढुं समर्थः भवति।
(v) बलवान् जनः निर्बलं न उपहरेत्।

एतेषु वाक्येषु कर्तृपदेषु वयं बुद्धिकीर्तिधनशक्तिबलम् इत्यादिषु किं योजितवन्तः येन अर्थः बुद्ध्या युक्तः, कीर्त्या युक्तः, शक्त्या युक्तः, बलयुक्तः च भवति।
छात्रः – महोदय! बुद्धिकीर्तिशक्तयः इत्यादिशब्देषु ‘मान्’ इति योजितः धन-बलशब्दाभ्यां वान् इति योजितः।
शिक्षकः – सुष्ठु! सम्यगभिज्ञातम्
1. मान् वान् एवं मतुप्, वतुप् प्रत्यययोः प्रयोगः युक्ततायाः अर्थे भवति।
2. मतुप् प्रत्ययस्य मत्, वतुप् प्रत्ययस्य च वत् शब्देषु संयोज्यते पुनः हलन्तशब्दानुसारं रूपनिर्माणं भवति।
3. अकारान्तशब्देषु वतुप् प्रत्ययः अ-भिन्नस्वरान्तशब्देषु च मतुप्-प्रतययस्य प्रयोगः भवति।
4. स्त्रीलिङ्गे बुद्धिमती, धनवती इत्यादिप्रकारेण नदीशब्दवत् रूपनिर्माणं भवति। अधुना अनयोः प्रयोगस्य अभ्यासं कुर्मः।
यथा-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 11
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 12
अन्यासु विभक्तिषु पुँल्लिङ्गवद् रूपाणि भवन्ति।
इन् प्रत्यययुक्तपदानां रूपाण्यपि हलन्तशब्दवद् भवन्ति। तेभ्यः स्त्रीलिङ्गावबोधाय स्त्रीप्रत्ययस्य प्रयोगं कृत्वा स्त्रीलिङ्गपदनिर्माणम् अपि भवति यथा-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 13
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 14

अभ्यासः

1. अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(i) (बल + इन्) _______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।
(ii) रथिनम् (_______ + _______) जनम् वार्तायां मग्नं न कर्तव्यम्।
(iii) शिल्पिन्यः (_______ + _______) बालिकाः कुत्र गताः?
(iv) दण्डिनि (_______ + _______) जने न विश्वसिहि।
(v) (कर + इन्) ____________ वने वसति।
(vi) धनिनः (_______ + _______) गर्विताः न भवेयः।
(vii) सीता अवदत्-अहम् (_______ + _______) (कुशल + इन्) अस्मि।
(viii) बलिनौ (_______ + _______) अपमान न सेहेते।
(ix) (_______ + _______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।
(x) दण्डिनः (_______ + _______) दण्डं धारयन्ति।
उत्तरम्:
(i) बलिनः
(ii) रथ + इन्
(iii) शिल्प + इन्
(iv) दण्ड + इन्
(v) करी
(vi) धन + इन्
(vii) कुशलिनी
(viii) बल + इन्
(ix) गुण + इन्
(x) दण्ड + इन

2. प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(i) बुद्धिमती (_______ + _______) नारी प्रशस्यते।
(ii) एतौ छात्रौ (शक्ति + मतुप्) ______________ स्तः।
(iii) ताः कन्याः गुणवत्यः (_______ + _______) सन्ति।
(iv) लक्ष्मीवान् (_______ + _______) लक्ष्म्याः आदरं कुर्यात्।
(v) __________ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।
(vi) सत्यवत्यै (_______ + _______) नार्य पुस्तकं यच्छ।
(vii) (सत्य + वतुप्) ____________ जनैः सदा सत्यभाषणं क्रियते।
(viii) बलवता (_______ + _______) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
(ix) (शक्ति + मतुप्) ____________ नार्मा इदं कार्यं कृतम्।
(x) गुणवद्भिः (_______ + _______) छात्रैः ध्यानेन पठ्यते।
उत्तरम्:
(i) बुद्धि + मतुप्
(ii) शक्तिमन्तौ
(iii) गुण + वतुप्
(iv) लक्ष्मी + मतुप्
(v) धनवन्तः
(vi) सत्य + वतुप्
(vii) सत्यवद्भिः
(viii) बल + वतुप्
(ix) शक्तिमत्या
(x) गुण + वतुप्

इन् (णिनि) प्रत्ययः

अकारान्तशब्दैः सह ‘युक्त’ इत्यर्थे णिनि (इन्) प्रत्ययस्य प्रयोगः अपि भवति यथा-
गुण + णिनि (इन्) – गुणिन् – गुणैः युक्तः
दण्ड + इन् – दण्डिन् – दण्डने युक्तः
शिल्प + इन् – शिल्पिन् – शिल्पकलया युक्तः
कर + इन् – करिन् (गजः) – करेण (शुण्डेन) युक्तः
बल + इन् – बलिन् – बलेन युक्तः
एतेषां प्रयोगः अपि वाक्येषु शब्दरूपनिर्माणाय क्रियते।

त्व-तल्-प्रत्ययौ
शिक्षकः – एतं श्लोकं पठत
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते।।
अत्र ‘विद्वत्त्वम्, नृपत्वम्’ इति पदयोः कस्य प्रत्ययस्य प्रयोगः?
छात्राः – गुरुवर! न जानीमः वयम्। कृपया बोधयतु।
शिक्षकः – अत्र भाववाचकस्य ‘त्व’ इति प्रत्ययस्य प्रयोगः।
विद्वस + त्व = विद्वत्त्वम्
नृप + त्व = नृपत्वम्
‘त्व’ प्रत्ययस्य प्रयोगः इत्येवं क्रियते

अस्य प्रत्ययस्य प्रयोगेण शब्दः नपुसंकलिङ्गे भवति। अतः शब्दरूपं ‘फलम्’ इति शब्दवत् निर्मीयते।
उमेशः – यथा दीर्घत्वम्।
शिक्षकः – आम् शोभनम्। एवमेव अन्यशब्दानपि निर्माय वदन्तु।
महेशः – लघुत्वम्, महत्त्वम्
शिक्षकः – अतिशोभनम् अधुना एतां पङ्क्तिं पठत-
का जडता? पाठतोऽप्यनभ्यासः।
अर्थात् यदि पठितस्य अभ्यासः न क्रियते तर्हि जडता आयाति। अत्र भाववाच्ये एव तल् प्रत्ययः प्रयुक्तः।
रहीमः – किं त्व, तल् च द्वावेव भाववाचकौ प्रत्ययौ?
शिक्षकः – आम् सम्यगवगतम्।
रमेशः – तर्हि किमन्तरं द्वयोः मध्ये?
शिक्षकः – अन्तरं केवलं लिङ्गप्रयोगस्य एव।
छात्राः – कथमिव?
शिक्षकः – तल् प्रत्ययस्य प्रयोगेण शब्दः स्त्रीलिङ्गेः भवति। यथा जडता, दीर्घता, लघुता, महत्ता इत्यादिप्रकारेण तल् प्रत्यययुतस्य शब्दस्य रूपाणि ‘बालिका’ शब्दवत् भवन्ति।
इदानीमस्याः तालिकायाः माध्यमेन अवगच्छामः
लघु – लघुता – लघुत्वम्
महत् – महत्ता – महत्त्वम्
दीर्घ – दीर्घता – दीर्घत्वम्
गुरु – गुरुता – गुरुत्वम्
पवित्र – पवित्रता – पवित्रत्वम्
छात्राः – तालिकां पूरयन्ति।
शिक्षकः – अधुना वाक्येषु एतयोः अभ्यासं कुर्मः।

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
(i) कृष्णसुदाम्नोः मित्रता (_______ + _______) विश्वप्रसिद्धा।
(ii) विद्वत्वम् (_______ + _______) च नृपत्वम् (_______ + _______) च नैव तुल्यम्।
(iii) कार्येषु दीर्घसूत्रता (_______ + _______) कदापि न कर्तव्या।
(iv) आकारस्य (लघु + त्व) ____________ कार्यबाधकः न भवेत्।
(v) पशवः स्वपशुत्वम् (_______ + _______) तु दर्शयन्ति एव।
(vi) वेदानां (महत् + त्व) _____________ को न जानाति।
(vii) गङ्गायाः पवित्रता (_______ + _______) जगत्प्रसिद्धा।
(viii) मूर्खः स्वमूर्खतां (_______ + _______) सभायां न प्रदर्शयेत्।
(ix) नदीनां (दीर्घ + तल्) _____________ चिन्तनात् परः विषयः।
(x) मित्रेण सह मित्रत्वम् (_______ + _______) कदापि न त्याज्यम्।
उत्तरम्:
(i) मित्र + तल्
(ii) विद्वस + त्व, नृप + त्व
(iii) दीर्घसूत्र + तल्
(iv) लघुत्वं
(v) स्वपशु + त्व
(vi) महत्त्वं
(vii) पवित्र + तल्
(viii) स्वमूर्ख + तल्
(ix) दीर्घता
(x) मित्र + त्व

ठक्-प्रत्ययः
अधोलिखितानि वाक्यानि पठत-

  • स एकः श्रेष्ठः नागरिकः अस्ति।
  • एतद् आध्यात्मिकं कार्यम् अस्ति।
  • एषः धार्मिकः ग्रन्थेऽस्ति।
  • अद्य विद्यालये सांस्कृतिकः कार्यक्रमोऽस्ति।
  • देशस्य सेवा अस्माकं नैतिकं कर्त्तव्यम् अस्ति।
  • एतत् अस्माकं दैनिक कार्यम् अस्ति।
  • अद्य अस्मांक वार्षिकी परीक्षा अस्ति।
  • एषः कार्मिकः परिश्रमी अस्ति।
  • एषा मासिकी पत्रिका अस्ति।
  • दिल्लीप्रदेशे अनेकानि ऐतिहासिकानि स्थानानि सन्ति।

उपरि यानि रेखाङ्कितानि पदानि सन्ति तानि सर्वाणि ‘ठक’ प्रत्यय-युक्तानि सन्ति।

  • ‘ठक्’ प्रत्ययः भावार्थे प्रयुज्यते।
  • ‘ठक्’ प्रत्ययः ‘इक’ रूपेण परिवर्तितः भवति।
  • ‘ठक्’ प्रत्ययः आदिस्वरे वृद्धिः भवति।

यथा – धर्म + ठक् = धार्मिक

  • ‘ठक्’ प्रत्ययस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति।

यथा-
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 15
‘ठक्’ प्रत्ययस्य प्रयोगः विशेषरूपेण भवति।

अभ्यासः

1. अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

(i) __________ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।
(ii) अद्य __________ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
(iii) अद्य वयं __________ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
(iv) __________ (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।
(v) __________ (सेना + ठक्) देशं रक्षन्ति।
(vi) अधना __________ (अध्यात्म + ठक्) शिक्षा अनिवार्या।
(vii) __________ (नगर + ठक्) एव देशम् उन्नयन्ति।
(viii) एताः __________ (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।
उत्तरम्:
(i) धार्मिकाः
(ii) वार्षिक:
(iii) ऐतिहासिकानि
(iv) प्राथमिकी
(v) सैनिकाः
(vi) आध्यात्मिकी
(vii) नागरिकाः
(vii) वैज्ञानिकाः / वैज्ञानिक्यः

2. ‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

(i) भौतिकी उन्नतिरिपि अनिवार्या।
(ii) अधुना वार्षिकं कार्यं सम्पन्नम्।
(iii) सैनिकाः देशम् उन्नयन्ति।
(iv) दैविकी विपदा कष्टकारी भवति।
(v) एषः सार्वभौमिकः सिद्धान्तोऽस्ति।
(vi) सार्वकालिकाः उपदेशाः एते।
(vii) सामाजिक कार्यम् एव एतत्।
(viii) वैज्ञानिकाः अन्वेषणे रताः भवन्ति।
(ix) भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।
(x) एषा कवेः मौलिकी कृतिः।
उत्तरम्:
(i) भौतिकी
(ii) वार्षिक
(iii) सैनिकाः
(iv) दैविकी
(v) सार्वभौमिकः
(vi) सार्वकालिकाः
(vii) सामाजिकं
(viii) वैज्ञानिकाः
(ix) भौगोलिकी
(x) मौलिकी

स्त्री-प्रत्ययाः
अधोलिखितवाक्यानि ध्यानेन पठन्तु-

  • इयं इका छात्रा अस्ति।
  • विद्योत्तमा विदुषी आसीत्।
  • अध्यापिका छात्रान् पाठयति।
  • अजा तृणं चरति।
  • आचार्या स्नेहेन पाठयति।
  • गायिका गीतं गायति।
  • सुता गृहस्य भूषणं भवति।
  • नदी मलिना न कर्त्तव्या।
  • गायिका अभिनयं करोति।

उपरि लिखितानि रेखाङ्कितपदानि स्त्रीलिङ्गे सन्ति। पुल्लिङ्गपदानां स्त्रीलिङ्गे परिवर्तनाय स्त्रीप्रत्ययाः प्रयुज्यन्ते। अत्र वयं टाप् ङीप् च प्रत्ययौ पठिष्यामः। टाप् प्रत्यये (आ) शिष्यते, ङीप् च प्रत्ययः (ई/आनी) शिष्यते।
नद + ङीप् – नदी
गोप + ङीप् – गोपी
महिष + ङीप् – महिषी
ब्राह्मण + ङीप् – ब्राह्मणी
वदन् + ङीप् – वदन्ती
श्रीमन् + ङीप् – श्रीमती
दातृ + ङीप् – दात्री
गुणिन् + ङीप् – गुणिनी
तपस्विन् + ङीप् – तपस्विनी

सर्वेषां रूपाणि नदीवत् भवन्ति यथा-गोपी गोप्यौ गोप्यः।
छात्र + टाप् – छात्रा
गायक + टाप् – गायिका
धावक + टाप् – धाविका
शिक्षक + टाप् – शिक्षिका
साधक + टाप् – साधिका
प्रथम + टाप् – प्रथमा
द्वितीय + टाप् – द्वितीया
सरल + टाप् – सरला
अज + टाप् – अजा
मूषक + टाप् – मूषिका
सुत + टाप् – सुता
बालक + टाप् – बालिका

सर्वेषां रूपाणि लतावत् भवन्ति यथा-गायिका गायिके गायिकाः

अभ्यासः

1. शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

(i) इयं ___________ पठति। (छात्र: / छात्रा)
(ii) बालिकासु ___________ अध्ययनशीला अस्ति। (प्रथम: / प्रथमा)
(iii) शोभनानां भोजनानां ___________ भव। (दातृ / दात्री)
(iv) एषा ___________ हवनं करोति। (तपस्वी / तपस्विनी)
(v) गङ्गा एका ___________ अस्ति। (नद / नदी)
उत्तरम्:
(i) छात्रा
(ii) प्रथमा
(iii) दात्री
(iv) तपस्विनी
(v) नदी

2. कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

मञ्जूषा
श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः
(i) इयम् एका __________ अस्ति।
(ii) __________ परितः वृक्षाः सन्ति।
(iii) __________ सह तस्य पुत्रः अपि प्रवचनं करोति।
(iv) एताः __________ सन्ति।
(v) ताः सर्वाः __________ सन्ति।
(vi) __________ वाचाला अस्ति।
(vii) ग्रामं __________ श्रमिका श्रान्ता अस्ति।
(viii) एषा बालिका __________ अस्ति।
(ix) मम __________ विदेशं गच्छति।
(x) __________ रमा एका __________ अस्ति।
उत्तरम्:
(i) नदी
(ii) नदीम्
(iii) तपस्विन्या
(iv) छात्राः
(v) बालिकाः
(vi) प्रथमा
(vii) गच्छन्ती
(viii) मेधाविनी
(ix) मातुलानी
(x) श्रीमती, प्राध्यापिका

3. अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-

एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एकः अत्यधिक: मेधावी अस्ति।
उत्तरम्:
एका बालिका ग्रामे वसति। सा विद्यालयं गच्छति। तया सह तस्याः भ्राता अपि गच्छति। तस्याः शिक्षिका तां प्रेम्णा पाठयति। विद्यालये अनेकाः छात्राः सन्ति। तासु एका अत्यधिकी मेधाविनी अस्ति।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *